________________
विक्रमादित्यप्रबन्धः।
८१ प्रवृत्ता। यक्षभवने' समीपमागते स एकाकी यक्ष नन्तुमगच्छत् । यक्षेण स्त्रीलोभेन तस्य शिरश्छेदितम् । महत्यां वेलायां मित्रमागतम् । तदवस्थो जातो दृष्टः । चिन्तितं च तेन-जनप्रवादो भविष्यति, यथा-अनेन स्त्रीहेतोहतः। तर्हि ममापि मर्तुं युक्तम् । इति विचिन्त्य तेनापि खशिरश्छिन्नम् । साप्यागता। द्वावपि तदवस्थौ प्रेक्ष्य चिन्तितं तया-जनोऽग्रेऽपि मां पतिद्वेषिणी" कथयन्नस्ति, सम्प्रति पतिनीमिति कथयिष्यति । तर्हि म्रियेऽहम् । इति ध्यात्वा गले शस्त्रिका 5 लगिता । तावता यक्षेण करे धृता-मा साहसं कुरु । तयोक्तम्-द्वावपि जीवापय । यक्षेणोक्तम्"-शिरसी निजनिजकबन्धे योजय । तयोत्सुकयाऽन्यान्यकबन्धयोय॑स्ते । तयोर्भार्याविवादो जातः-एको वदति मदीया, द्वितीयोऽपि तथा । तर्हि कस्य सा? । राज्ञोक्तम्-यस्य कबन्धे शिरः स भत्ता-'सर्वस्य गात्रस्य शिरः प्रधान'मिति वचनात् ॥ ४-३॥
कर्पूरसमुद्गकोऽपि कथामाह-कुतोऽपि ग्रामात्खखकलाविदश्चत्वारः सुहृदो देशान्तरं चेलुः । 10 एकः काष्ठसूत्रधारः, द्वितीयः स्वर्णकारः, तृतीयः शालापतिः, तुर्यो विप्रः । कापि वने राबावुषिताः। प्रथमयामे सूत्रधारः प्राहरके स्थितः। तेन काष्ठपुत्रिका तरुणीसदृशी कृता समग्राऽपि । द्वितीये प्रहरे वर्णकारो यामिकः । तेनाभरणैर्विभूषिता । तृतीये शालापतिः । तेन क्षौमाणि परिधापिता। चतुर्थे विप्रेण सजीवा कृता । प्रातः सजीवां दृष्ट्वा सर्वेऽपि तजिघृक्षया मिथो विवदन्ते । तर्हि कस्य सा, भो विक्रमादित्यनरेन्द्र ! ? । सा नाम श्रुत्वा चुक्षोभ । राज्ञोक्तम्-15 तदहं न वच्मि । तयोरकथयतोश्च तया जल्पितम्-भो राजन् ! कस्य सा ? । राज्ञोक्तम्-वर्णकारस्य । [*अधुनापि यः खणं चटापयति स एव भर्ता भवति ] ॥४-४॥
सा पप्रच्छ-के यूयम् ? । दीपस्थेन वेतालेनोक्तम्-असौ स विक्रमादित्यः । सा हृष्टा व्यूढा । तां गृहीत्वाऽवन्तीमागमत् । य ईदृग तत्समः कः; आधिक्ये तु का कथेति हसितम् । विक्रमसेनेन गर्वस्त्यक्तः। इति श्रीविक्रमप्रवन्धः॥
६९९) ततो विक्रमसेनः पुरोधसमप्राक्षीत्-यदि किल एताः काष्ठपुत्रिका मम पितरमद्भुतगुणं वर्णयन्ति, तर्हि स एव लोके तत्प्रथमतयोत्तमत्वेनावतीर्णो भविष्यति । ततः प्राक्" तु न कोऽपि तागुत्तमोऽभूदिति ब्रूमः । पुरोधाः प्राह-राजन् ! अनादिरियं रत्नगर्भा । अनादिश्चतुर्युगी । युगे युगे नररत्नानि जायन्ते । अहमेव प्रधानमिति गर्वो न हितकारी, न च निर्वहते। यतस्त्वत्पितुर्विक्रमादित्यस्य मनस्येकदा एवमभूत् ; यथा-रामेण व्यवहृत्य लोकः सुखीकृतः, तथाऽहमपि करिष्ये। 25 ततो रामायणं व्याख्यापितम्। तत्र यथा रामस्य दानं, अगारस्थापनं, वर्णाश्रमव्यवस्था, गुरुभक्तिस्त सर्वमारब्धम। ततोऽभिनवो राम इत्यात्मानं पाठयति। तद दृष्टा मन्त्रिभिश्चिन्त्यते स्म-अनुचितकारी अस्मत्प्रभुः, यो" गर्वादात्मानं तद्वन्मन्यते। अयं गर्वोऽस्योपायेनोत्तारयितव्यः प्रस्तावे। इतश्च त्वत्पित्रा विक्रमादित्येन पृष्टम्-लोके स कोऽपि काप्यास्ते योऽश्रुतपूर्व रामस्याचरणं ज्ञापयति नः। तत एकेन ज्यायसा मन्त्रिणाऽपरमन्त्रिप्रेरितेन कथितम्-राजेन्द्र ! कोशलायां 30
20
प
.
G
1A यक्षे। 2 P जातो धनिको दृष्टः। 3 AB नास्ति 'तेन'। 4 B छिन्ने। 5 P महति वेलायां साऽप्यागता । 6 Pऽग्रेऽपि द्वेषणीं। 7 'हम्' नास्ति ABI 8 P लगापिता। 9 P जीवय । 10 AB तेनोक्त। 11 A B वेनि । * कोष्ठकगता पंक्तिः प्रक्षिप्तप्राया P पुस्तके। 12 P०समकः। 13 A अधिकः कोऽत्र । P पुस्तके नास्ति समाप्तिज्ञापकमेतद् वाक्यम् । 14 A पराक् मनु। 15 AB यदात्मानं ।
११ प्र० को
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org