________________
८०
प्रबन्धकोशे अश्वपुच्छे लगित्वा तत्र गतः। दासीभिदृष्टः । स्वामिनी पार्श्वे नीतः। तया स्लानादि कारितः । रात्रौ तद्गृह् एव स्थितः । तया खपत्या उक्तम्-मम विक्रमादित्यो भर्ता भूयात्, किं वा यो मां चतुर्भिः शब्दैर्जागरयति । इत्युक्त्वा सुप्ता । तेन चिन्तितम्-किं चतुर्भिरपि शब्दैन जागर्ति । तर्हि एनामहमेव जागरयिष्यामि । चत्वारः शब्दाः कृताः। यदा न जागर्ति तदा पादाङ्गुष्ठश्च5 म्पितः। तया पादेनाहतो यत्र विक्रमादित्यः सुप्तोऽस्ति तत्र पतितः। राज्ञा पृष्टम्-किमिदं ?।
तेन सर्वोऽपि वृत्तान्तः प्रोक्तः। __ ततो राजाऽग्निसझं वेतालमारुह्य तत्र गतः । वेतालः प्रच्छन्नो जातः । राजा दासीभिस्तत्र नीतः। तया भक्तिः कृता। तद्रूपदर्शनात्सरागा जाता। परंशयानया प्रतिज्ञा कृता । तथैवोक्तम् ।
राज्ञा दीपस्थितो वेताल उक्तः-भोः प्रदीप ! कामपि कथां कथय । स वक्तुमारेभे-कश्चि10 द्विप्रः। तस्य पुत्री । सा चतुर्णा वराणां दत्ता पृथक् पृथग ग्रामे । चत्वारोऽप्यागताः। विवादो
जातः । तिया महान्तमनथे दृष्ट्रा काष्ठभक्षणं कृतम् । लेहादेकेन वरेणापि चितामध्ये झम्पापितम्। एकोऽस्थीनि गृहीत्वा गङ्गां गतः । एकस्तत्रोटजं कृत्वा स्थितो भस्मरक्षार्थम् । एको देशान्तरं गतः। भ्रमता च तेन सञ्जीवनी विद्या शिक्षिता। पुनरपि तत्रागतः। अपरेऽप्यागताः।
सा जीवापिता । पुनर्विवादो जातः । तर्हि चतुर्णी मध्ये कस्य सा पत्नी। राज्ञोक्तम्-अहं न 15 वेनि । त्वमेव ब्रूहि । स आह-यश्चितया सहोत्थितः* स भ्राता। योऽस्थिनेता स पुत्रः । येन जीवापिता स पिता, उत्पत्तिहेतुत्वात् । यो भस्मरक्षकः स भर्ता, पालकत्वात् ॥४-१॥
राज्ञा ताम्बूलस्थगिका 'द्वितीयकथां पृष्टा । वेतालाऽधिष्ठानात्साप्याह-कुत्रापि मृतभर्तृका ब्राह्मणी अभूत् । तस्या जारेण सह सुता जाता। तां रात्रौ बहिस्त्यक्तुं गता। इतश्च तत्र कोऽपि
शूलाक्षिप्तो जीवन्नस्ति । तस्य पादे स्खलिता। तेनोक्तम्-कापापी दुःखिनोऽपि दुःखमुत्पादयति। 20 किं दुःखम् ? । सोऽप्याह-देहपीडादिकं, विशेषतो निष्पुत्रत्वं कथितम् । पुनः शूलानरेणोक्तम्त्वमपि कथय, का त्वम् ? । निजचरितं तयोक्तम् । तनिशम्य तेनाप्युक्तम्-पुराहृतं भूनिक्षित अत्रस्थं द्रव्यं त्वं मदीयमादाय सुतां मया सह विवाहय । ब्राह्मणी प्राह-त्वमिदानीं मरिष्यसि । सुता च लघ्वी । कथं पुत्रोत्पत्तिः । ऋतुकाले कस्यापि द्रव्यं दत्त्वा पुत्रमुत्पादयेः । तया तथैव
सर्व कृतम् । पुत्रो जातः। स रात्रौ राज्ञो द्वारे क्षिप्तः। राज्ञः केनाप्यर्पितः । कालेन' निष्पुत्रस्य 25 नृपस्य र वोपविष्टः। श्राद्धा
पिण्डदान कत्तुं गतः। जलाद्धस्तत्रयं निर्गतम् । स राजा विस्मितः। कस्य करस्य पिण्डं ददामि । तर्हि भो राजन् ! वद कस्य देयः पिण्डः। राज्ञोक्तम्-चौरहस्तस्य ॥ ४-२॥
राज्ञा स्वर्णपालकं जल्पितम् । तदपि कथामाह-कस्मिन्नपि ग्रामे कश्चित्कुलपुत्रः। स परिणीतोऽन्यग्रामे । परं तत्पत्नी श्वशुरगृहं नागच्छति । खजनैर्निर्गुण इति हस्यते । एकदा सर्वजन30 प्रेरितो मित्रयुतस्तत्र गतः। मार्गे यक्षस्य शिरो नामितम् । तत्प्रभावात्सादरा जाता । आगन्तुं
1 एतत्पदं नास्ति AB आदर्श । + दण्डान्तर्गतपाठस्थाने ABE आदर्शषु 'एकेन सह काष्ठभक्षणं कृतं' इत्येव पाठो लभ्यते । 2 P वच्मि । 3 A त्वमिह । * अत्र A आदर्श, पत्रपार्श्वभागे टिप्पन्यां 'तीर्थे तु स्थापकः पुत्रः, पुनर्जन्मप्रदः पिता । सहोस्थश्च पुनीता स भर्ता यस्तु पोषकः ॥' एषः श्लोको लिखितो लभ्यते। 4 A 'कथा' इत्येव। 5A नास्ति 'अभूत्। GA नास्ति । +P पुस्तके 'पुत्रो जातमात्रो राजद्वारे क्षिप्तः। ईदृशं वाक्यम् । 7A नास्ति। 8 Pपालनकं । 9 .गृहे।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org