________________
विक्रमादित्यप्रबन्धः। तैलकटाहिकायां झम्पा दत्ता । कन्यया सोऽमृतेन जीवितः। यावत्सा राजानं वृणुते । तावद्राज्ञोक्तम्-अग्रेतनं नरं वरय । वृतः स तया । एवं यः परोपकारी तदधिकोऽयं कथं भावी ?॥१॥
द्वितीययोक्तम्-कासीतो द्वौ द्विजौ आयातौ। विक्रमार्केण पृष्टौ राज्यस्वरूपम् । ताभ्यामूचेअस्मद्देशे पातालविवरमस्ति । तत्रान्धो राक्षसो वर्तते । अस्मद्देशस्वामी तैलकटाहे झम्पां दत्त्वा खमांसेन राक्षसस्य पारणं कारयति स्म । राक्षसोऽपि तं पुनर्नवीकरोति । सप्त अपवरिका वर्ण- 5 सम्पूर्णाश्च कुरुते । प्रत्यहं प्रातः सप्ताप्यपवरिकास्त्यागेन रिक्तीकुरुते । श्रुत्वेदं विक्रमोऽपि तत्र गतः। कटाहे झम्पा दत्ता । रक्षसा भक्षितो जीवितश्च । पुनर्भक्षितो जीवितश्च । राक्षसस्य शापेनान्ध्यमस्ति । तच्छापान्तोऽभूत् । दृग्भ्यां पश्यति । दृष्ट्वा चाह-कस्त्वं साहसी ?। तेनोक्तम्विक्रमोऽहम् । तुष्टोऽहं ते। याचस्व । राज्ञोक्तम्-तुष्टश्चेत्तदाऽस्य राज्ञो'] नित्यं सप्ताप्यपवरिकाः वर्णपूर्णा भूयासुः। तथाऽस्य पुनरेवं कटाहझम्पापातादियातना मा भूत्। रक्षसोक्तम्-एव-10 मस्तु । अतः कथं विक्रमार्कादधिको भावी ?; समोऽपि न । अतो हसितः॥२॥
तृतीययोक्तम्-एकदा विक्रमार्को निजपूर्वास्तव्यखल्वाटकुम्भकारयुक्तो देशान्तरं गतः । परवेशविद्यावेदी योगी मिलितः। स आवर्जितः तुष्टश्च विद्यां दातुमारेभे । राज्ञोक्तम्-प्रथमं मम मित्रस्य ददत । तेनोक्तम्-न योग्योऽसौ । निर्बन्धात्तस्यापि दत्ता [गुणरञ्जितेन योगिना नृपस्य पश्चाद् बलाद्दत्ता।] अवन्तीं गतो राजा राज्यं करोति । एकदा पट्टाश्वो मृतः । विद्यापरीक्षार्थं 15 राज्ञा खजीवस्तत्र क्षिप्तः । कुम्भकारेण स्वजीवो नृपदेहे । कुम्भकारो राज्यं करोति। तेनाश्वो मारणाय चिन्तितः। नृपजीवस्तु पूर्वमृतशुकदेहे प्रविष्टः । शुकोऽपि सोमदत्तश्रेष्ठिभार्याप्रोषितभर्तृकाकामसेनागृहं गतः। सा तचातुर्येण हृष्टा राज्ञी समीपं न गच्छति । श्रेष्ठी समागतः। सा राज्ञी समीपं गता । अनागमनकारणं पृष्टा । शुकचातुर्यकारणं प्रोक्तम् । तया आनायितः शुकः' । सा रञ्जिता तेन, यथा राज्ञा पूर्वम् । एकदा शुकेन राज्ञीलेहपरीक्षार्थं गृहगोधिकादेहे 20 गतम् । राज्या तद्वियोगेन काष्ठभक्षणं कर्तुमारब्धम् । नृपजीवेन शुको जीवापितः । सा राज्ञी व्यावृत्ता। शकेन सर्वोऽपि वृत्तान्तो राज्य कथितः। राज्या
। तेन कुम्भकारजीवेन तुष्टेन विद्याप्रदर्शनाय मृतबोत्कटदेहे खजीवः क्षिप्तः । नृपो निजदेहं गतः। अजो भयात्कम्पते । राज्ञा उक्तः-न भेत्तव्यम् । नाहं त्वत्समो भावी । सकृपोऽस्मि । त्वं सुखं जीव । चर । पिब । ततः कथं तेन समो भविष्यति ॥ ३॥
चतुर्योक्तम्-एकदा विक्रमार्केणोत्तमं सौधं कारितम् । राजा तत्र गतः विलोकनाय । तत्र चटकयुग्ममुपविष्टमस्ति । चटकेनोक्तम्-सुष्टु सौधमस्ति । चटिकयोक्तम्-यादृशं स्त्रीराज्ये लीलादेव्या बाह्यगृहमस्ति तादृशमेतत् । राज्ञा तच्छ्रुतम् । तद्गमनौत्सुक्यं जातम् । "परं स्थानं तु न वेत्ति । तेन सचिन्तो "जातः। भहमात्रो नृपाशयं ज्ञात्वा तत्स्थानकजानाय चचाल । तन्मार्गे लवणसमुद्रं ततो धूलीसमुद्रमुत्तीर्य तत्र रात्री मदनायतने स्थितः। निशीथे हयहेषारवसंसूचितं 30 दिव्यालङ्कारभूषितं दिव्यस्त्रीवृन्दमागमत् । तत्स्वामिन्या कामः पूजितः "व्यावृत्तमानानां तासां
25
1A अपवरकान् । 2 A सम्पूर्णाश्च । 3A झम्पा दत्त्वा । * P पुस्तके इदं द्वितीयं वाक्यं नोपलभ्यते। 4 A रक्षसः। 5 AP नास्ति पदमेतत्। + P पुस्तक एव कोष्ठकगतः पाठो दृश्यते। 6A नास्ति । 7 A 'शुकः' नास्ति । 8 A विक्रमेण । 9-10 'जातं परं' नास्ति A आदर्श। 11 'जातः' नास्ति A आदर्श। 12 A व्यावर्तमा०।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org