Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 93
________________ प्रबन्धकोशे तेर्महिषी महनीयरूपधेयामपजिहीर्षुरुपागतो बभूव । न च विदितचरमेतत्कस्यापि । लोकैस्तु शीर्षमात्रदर्शनात् तस्य प्राकृतभाषया 'सीसुला' इति व्यपदेशः कृतः। तदनु प्रतिदिनं तस्मिन्नतितुम्बरी मधुरतरं गायति सति श्रुतं तत्स्वरूपं महादेव्या दासीमुखेन । भूपं विज्ञाप्य तच्छीर्ष खान्तिकमानायितम । प्रत्यहं तमजीगपत् राज्ञी। दिनान्तरे रात्री प्रस्तावमासाद्य सद्य 5 एवापहरति स्म तां मायासुरः। आरोपयामास च तां घण्टावलम्बिनामनि स्वविमाने । राज्ञी च करुणं क्रन्दितुमारेभे-हा! अहं केनाप्यपहिये । अस्ति कोऽपि वीरः पृथिव्यां यो मां मोचयति। 'तत्खरं खून्दलाभिख्येन वीरेण श्रुत्वा व्योमन्युत्पत्य च तद्विमानस्य घण्टा पाणिना गाढमधार्यत । ततस्तत्पाणिनाऽवष्टब्धं विमानं पुरस्तान प्राचालीत् । तदनु चिन्तितं मायासुरेण-किमर्थ विमानमेतन्न सर्पति । यावदद्राक्षीत्तं वीरं हस्तावलम्बितघण्टम् । ततः खड्नेन तद्भस्तमच्छिदत् । 10 पतितः पृथिव्यां वीरः। स चासुरः पुरः प्राचलत् । ततो विदितदेव्यपहारवृत्तान्तः क्षितिकान्तः पञ्चाशतमेकोनां वीरानादिशत्-यत्पट्टदेव्याः शुद्धिः क्रियतां केनेयमपहृतेति । ते प्रागपि शूद्रक प्रत्यसूयापराः प्रोचुः-महाराज! शुद्रक एव जानीते । तेनैव तच्छीर्षकमानीतम् । तेनैव च देवी जहे । ततो नृपतिस्तस्मै कुपितः शूलारोपणमाज्ञापयत् । तदनु देशरीतिवशात्तं रक्तचन्दनानुलिताङ्गं शकटे शाययित्वा, तेन सह गाढं बद्ध्वा, शूलायै यावद्राजपुरुषाश्चेलुः, तावत्पश्चाशदपि 15 वीराः संभूय शूद्रकमवोचन्-भोः महावीर ! किमर्थ रण्डेव म्रियते भवान् । 'अशुभस्य काल हरण'मिति न्यायात् मार्गय नरेन्द्राकतिपयदिनावधिम् , शोधय सर्वत्र देव्यपहारिणम् । किमकाण्डे एव स्वकीयां वीरत्वकीर्तिमपनयसि ? । तेनोक्तम्-गम्यतां तर्हि उपराजम् । विज्ञाप्यतामेनमर्थ राजा । तैरपि तथा कृते प्रत्यानायितः शूद्रकः क्षितीन्द्रेण । तेनापि स्वमुखेन विज्ञप्तिः कृता-महाराज! दीयतामवधिः । येन विचिनोमि प्रतिदिशं देवीं तदपहारिणं च । राज्ञा दिनद20 शकमवधिदत्तः । शूद्रकगृहे च सारमेयद्वयमासीत् तत्सहचारि । नृपतिरवदत्-एतद्भषणयुगलं प्रतिभूप्रायमस्मत्पार्चे मुश्च । खयं पुनर्भवान् देव्युदन्तोपलब्धये हिण्डतां महीमण्डलम् । सोऽप्यादेशः प्रमाणमित्युदीर्य प्रवीर्यवान् प्रतस्थे । भूचक्रशक्रस्तत्कौलेयकद्वन्द्वं शृङ्खलाबद्धं शय्यापादयोरबन्नात् । शुद्रकस्तु परितः पर्यटाट्यमानोऽपि यावत्प्रस्तुतार्थस्य वार्तामात्रमपि कापि नोपलेभे, तावदचिन्तयत्-अहो! ममेदमयशः प्रादुरभूत्। यदयं खामिद्रोही मध्ये भूत्वा देवीम25 मपाजीहरदिति । न च कापि शुद्धिलब्धा तस्याः। तस्मान्मरणमेव मम शरणम् । इति विमृश्य दारुभिश्चितामरचयत्" । ज्वलनं चाज्वालयत् । यावन्मध्यं प्रविशेत् तावत्ताभ्यां शुनकाभ्यां देवताधिष्ठिताभ्यां ज्ञातम्-यदस्मदधिपतिनिधनं ध्यायन्नस्तीति। ततो दैवतशक्त्या शृङ्खलानि' भक्त्वा निर्विलम्बौ गतौ तौ तत्र यत्रासीच्छूद्रकरचिता चिता। दशनैः केशानाकृष्य शूद्रकं बहिनिष्कासयामासतुः" । तेनापि अकस्मात्तौ विलोक्य विस्मितमनसा निजगदे-रे पापीयांसौ! 30 किमेतत्कृतं भवद्भ्यामशुभवद्भ्याम् ? । राज्ञो मनसि विश्वासनिरासो भविष्यति, यत्प्रतिभुवावपि तेनात्मना सह नीतौ । अर्थ" भषणाभ्यां बभाषे-धीरो भव अस्मद्दर्शितां दिशमनुसर । सरभसं का चिता तव !। इत्यभिधाय पुरोभूय प्रस्थितौ तेन सार्द्धम् । क्रमात्माप्तौ कोल्लापुरम् । 1P मधुरस्वरं। 2P तच्च। 3ABE बूंदलाभिख्य-खूदला। 4 A एकोनान् । 5AE आदिक्षत्। GP'च' नास्ति । 7A उपतस्थे। 8P पादेऽवलीत् । 9P पर्यटत् । अट्यमानो। 10 P नास्ति 'मध्ये'। 11A मारचत् । 12 Pप्राविशत् । 13 BE धनायन्नस्ति; P वाच्छन्नस्ति । 14 A शृङ्खला। 15Pास। 16P'भथ' नास्ति। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176