________________
प्रबन्धकोशे
तेर्महिषी महनीयरूपधेयामपजिहीर्षुरुपागतो बभूव । न च विदितचरमेतत्कस्यापि । लोकैस्तु शीर्षमात्रदर्शनात् तस्य प्राकृतभाषया 'सीसुला' इति व्यपदेशः कृतः। तदनु प्रतिदिनं तस्मिन्नतितुम्बरी मधुरतरं गायति सति श्रुतं तत्स्वरूपं महादेव्या दासीमुखेन । भूपं विज्ञाप्य तच्छीर्ष खान्तिकमानायितम । प्रत्यहं तमजीगपत् राज्ञी। दिनान्तरे रात्री प्रस्तावमासाद्य सद्य 5 एवापहरति स्म तां मायासुरः। आरोपयामास च तां घण्टावलम्बिनामनि स्वविमाने । राज्ञी च करुणं क्रन्दितुमारेभे-हा! अहं केनाप्यपहिये । अस्ति कोऽपि वीरः पृथिव्यां यो मां मोचयति। 'तत्खरं खून्दलाभिख्येन वीरेण श्रुत्वा व्योमन्युत्पत्य च तद्विमानस्य घण्टा पाणिना गाढमधार्यत । ततस्तत्पाणिनाऽवष्टब्धं विमानं पुरस्तान प्राचालीत् । तदनु चिन्तितं मायासुरेण-किमर्थ विमानमेतन्न सर्पति । यावदद्राक्षीत्तं वीरं हस्तावलम्बितघण्टम् । ततः खड्नेन तद्भस्तमच्छिदत् । 10 पतितः पृथिव्यां वीरः। स चासुरः पुरः प्राचलत् । ततो विदितदेव्यपहारवृत्तान्तः क्षितिकान्तः
पञ्चाशतमेकोनां वीरानादिशत्-यत्पट्टदेव्याः शुद्धिः क्रियतां केनेयमपहृतेति । ते प्रागपि शूद्रक प्रत्यसूयापराः प्रोचुः-महाराज! शुद्रक एव जानीते । तेनैव तच्छीर्षकमानीतम् । तेनैव च देवी जहे । ततो नृपतिस्तस्मै कुपितः शूलारोपणमाज्ञापयत् । तदनु देशरीतिवशात्तं रक्तचन्दनानुलिताङ्गं शकटे शाययित्वा, तेन सह गाढं बद्ध्वा, शूलायै यावद्राजपुरुषाश्चेलुः, तावत्पश्चाशदपि 15 वीराः संभूय शूद्रकमवोचन्-भोः महावीर ! किमर्थ रण्डेव म्रियते भवान् । 'अशुभस्य काल
हरण'मिति न्यायात् मार्गय नरेन्द्राकतिपयदिनावधिम् , शोधय सर्वत्र देव्यपहारिणम् । किमकाण्डे एव स्वकीयां वीरत्वकीर्तिमपनयसि ? । तेनोक्तम्-गम्यतां तर्हि उपराजम् । विज्ञाप्यतामेनमर्थ राजा । तैरपि तथा कृते प्रत्यानायितः शूद्रकः क्षितीन्द्रेण । तेनापि स्वमुखेन विज्ञप्तिः कृता-महाराज! दीयतामवधिः । येन विचिनोमि प्रतिदिशं देवीं तदपहारिणं च । राज्ञा दिनद20 शकमवधिदत्तः । शूद्रकगृहे च सारमेयद्वयमासीत् तत्सहचारि । नृपतिरवदत्-एतद्भषणयुगलं प्रतिभूप्रायमस्मत्पार्चे मुश्च । खयं पुनर्भवान् देव्युदन्तोपलब्धये हिण्डतां महीमण्डलम् । सोऽप्यादेशः प्रमाणमित्युदीर्य प्रवीर्यवान् प्रतस्थे । भूचक्रशक्रस्तत्कौलेयकद्वन्द्वं शृङ्खलाबद्धं शय्यापादयोरबन्नात् । शुद्रकस्तु परितः पर्यटाट्यमानोऽपि यावत्प्रस्तुतार्थस्य वार्तामात्रमपि कापि नोपलेभे, तावदचिन्तयत्-अहो! ममेदमयशः प्रादुरभूत्। यदयं खामिद्रोही मध्ये भूत्वा देवीम25 मपाजीहरदिति । न च कापि शुद्धिलब्धा तस्याः। तस्मान्मरणमेव मम शरणम् । इति विमृश्य दारुभिश्चितामरचयत्" । ज्वलनं चाज्वालयत् । यावन्मध्यं प्रविशेत् तावत्ताभ्यां शुनकाभ्यां देवताधिष्ठिताभ्यां ज्ञातम्-यदस्मदधिपतिनिधनं ध्यायन्नस्तीति। ततो दैवतशक्त्या शृङ्खलानि' भक्त्वा निर्विलम्बौ गतौ तौ तत्र यत्रासीच्छूद्रकरचिता चिता। दशनैः केशानाकृष्य शूद्रकं
बहिनिष्कासयामासतुः" । तेनापि अकस्मात्तौ विलोक्य विस्मितमनसा निजगदे-रे पापीयांसौ! 30 किमेतत्कृतं भवद्भ्यामशुभवद्भ्याम् ? । राज्ञो मनसि विश्वासनिरासो भविष्यति, यत्प्रतिभुवावपि तेनात्मना सह नीतौ । अर्थ" भषणाभ्यां बभाषे-धीरो भव अस्मद्दर्शितां दिशमनुसर । सरभसं का चिता तव !। इत्यभिधाय पुरोभूय प्रस्थितौ तेन सार्द्धम् । क्रमात्माप्तौ कोल्लापुरम् ।
1P मधुरस्वरं। 2P तच्च। 3ABE बूंदलाभिख्य-खूदला। 4 A एकोनान् । 5AE आदिक्षत्। GP'च' नास्ति । 7A उपतस्थे। 8P पादेऽवलीत् । 9P पर्यटत् । अट्यमानो। 10 P नास्ति 'मध्ये'। 11A मारचत् । 12 Pप्राविशत् । 13 BE धनायन्नस्ति; P वाच्छन्नस्ति । 14 A शृङ्खला। 15Pास। 16P'भथ' नास्ति।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org