________________
सातवाहनप्रबन्धः ।
सितचमत्कृतचेताः क्षोणिनेता शूद्रकं सुतरां सत्कृत्य पुरारक्षकमकरोत् । शस्त्रान्तराणि प्रतिषिध्य दण्डधारस्तस्य दण्डमेवायुधमन्वज्ञासीत् । शूद्रको बहिश्चरान् वीरान् पुरमध्ये प्रवे. टुमपि न दत्तवान् , अनर्थनिवारणार्थम् ।।
६८८) अन्यदा खसौधस्योपरितले शयानः सातवाहनक्षितिपतिमध्यरात्रे शरीरचिन्तार्थमुत्थितः । पुराबहिःपरिसरे करुणं रुदितमाकर्ण्य तत्प्रवृत्तिमुपलब्धुं कृपाणपाणिः परदुःख- 5 दुःखितहृदयतया गृहान्निरगात् । अन्तराले शूद्रकेणावलोक्य सप्रश्रयं प्रणतः, पृष्टश्च महानिशायां निर्गमनकारणम् । धरणीपतिरवदत्-यदयं बहिःपुरपरिसरे करुणकन्दितध्वनिः श्रवणाध्वनि पथिकीभावमनुभवन्नस्ति । तत्कारणप्रवृत्तिं ज्ञातुं व्रजन्नस्मि-इति राज्ञोक्ते शुद्रको व्यजिज्ञपत्-देव! प्रतीक्ष्यपादैः खसौधालङ्करणाय पादोऽवधार्यताम् । अहमेव 'तत्प्रवृत्तिमानेष्यामि । इत्यभिधाय वसुधानायकं व्यावर्त्य स्वयं रुदितध्वन्यनुसारेण पुरावहिर्गन्तुं 10 प्रवृत्तः। पुरस्ताद् व्रजन् दत्तकर्णो गोदावर्याः स्रोतसि कञ्चन रुदन्तमौषीत् । ततः परिकरबन्धं विधाय शुद्रकस्तीवा यावत्सरितो मध्यं प्रयाति; तावत्पयःपूरप्लाव्यमानं नरमेकं रुदन्तं वीक्ष्य बभाषे-भोः! कस्त्वम् ?, किमर्थं च रोदिषि ?। इत्यभिहितः स नितरामरुदत् । अति निर्बन्धेन पुनः पृष्टः स्पष्टमाचष्ट-भो साहसिकशिरोमणे! मामितो निष्कास्य भूपतेः समीपं प्रापय, येन तत्र खवृत्तमाचक्षे। इत्युक्तः शुद्रकस्तमुत्पाटयितुं यावदयतिष्ट तावन्नो-15 पटति स्म सः। ततोऽधस्तात्केनापि यादसा मा' विधृतोऽयं भवेद्-इत्याशङ्कय सद्यः कृपाणिकामधो वाहयामास शुद्रकः। तदनु शिरोमात्रमेव शूद्रकस्योद्धत्तुः करतलमारोहत् लघुतया । "तच्छिरःप्रक्षरद्रुधिरधारमवलोक्य शूद्रको विषादमाप । 'ततश्चिन्तयति स्म-धिर ! मामप्रहर्तरि प्रहारं शरणागतघातकं च" । इत्यात्मानं निन्दन वज्राहत इव क्षणं मूर्च्छितस्तस्थौ । तदनु समधिगतचैतन्यश्चिरमचिन्तयत्-कथमिवैतत्सुदुश्चेष्टितमवनिपतये निवेदयिष्यामि । इति लजि-20 तमनास्तत्रैव काष्टैश्चितां विरचय्य तत्र ज्वलनं प्रज्वाल्य तच्छिरः सह गृहीत्वा यावदुदर्चिषि प्रवेष्टुं प्रववृते तावत्तेन मस्तकेन निजगदे-भो महापुरुष ! किमर्थमित्थं व्यवसीयते भवता? । "यावदहं शिरोमात्रमेवास्मि सैं हिकेयवत् सदा । तद् वृथा मा विषीद। प्रसीद, मां राज्ञः समीपमुपनय । इति तद्वचनं निशम्य चमत्कृतचित्तः प्राणित्ययमिति प्रहृष्टः शुद्रकस्तच्छिरः पदां
ष्टितं विधाय प्रातः सातवाहनमुपागमत । अपृच्छदथ' पृथिवीनाथ:-शद्रक! किमिदम् ?125 सोऽप्यवोचत्-देव! सोऽयं यस्य ऋन्दितध्वनिर्देवेन रात्रौ शुश्रुवे । इत्युक्त्वा तस्य प्रागुक्तं वृत्तं सकलमावेदयत् । पुना राजा तमेव मस्तकमप्राक्षीत्-कस्त्वं भो!, किमर्थं चात्र भवदागमनमिति?। तेनाभिदधे-महाराज ! भवतः कीर्तिमुभाकर्णि समाकर्ण्य करुणरुदितव्याजेनात्मानं ज्ञापयित्वा "त्वामहमुपागमम् । दृष्टश्च भवान् । कृतार्थे मेऽद्य चक्षुषी जाते इति । कां कलां सम्यगवगच्छसि ?-इति राज्ञ आज्ञया निरवधि" गीतं गातुं प्रचक्रमे । क्रमेण तद्गानकलया30 मोहिता सकलापि नृपतिप्रमुखा परिषत् । स च मायासुरनामकोऽसुरस्तां मायां निर्माय महीए
1A दुःस्थित। 2 AB निरगमत् । 5A निर्गमकाः। 4 P अहमपि प्र०। 5 P इति। 6P नास्ति 'पृष्टः' । 7P'मा' नास्ति। 8 P.तया शिरः। 9P मापनश्चिन्तयति। 10P विहाय नास्स्यन्यत्रेदं पदम् । 11A घातकमवेस्यात्मानं। 12 'व्यवसीयते' स्थाने 'करोषि' P पुस्तके। 13 ‘भवता यावदु' नास्ति P पुस्तके। 14 P राहुवत् । 15 P नास्ति 'अथ'। 16P कीर्तिमाकर्ण्य । 17 'त्वां' नास्ति । 18 BEP निरवगीते गीतं ।
शुको
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org