________________
प्रबन्धकोशे ___ अत्रान्तरे विदितपरमार्थौ तौ तन्मातुलावितरेतरं प्रति विगतदुर्विकल्पो पुनः प्रतिष्ठानमागतो। परचक्रं दृष्ट्वा तां स्वभगिनीं प्रोचतुः-हे वसः ! येन दिवौकसा तवायं तनयो दत्तस्तमेव स्मर । यथा स एवास्य साहाय्यकं विधत्ते । साऽपि तद्वचसा प्राचीनं नागपतेर्वचः स्मृत्वा शिरसि निवेशितघटा गोदावर्या नागहृदं गत्वा लात्वा च तमेव नागनायकमाराधयत् । तत्क्षणान्नागराजः 5 प्रत्यक्षीभूय वाचमुवाच ब्राह्मणीम्-को हेतुरहमनुस्मृतस्त्वया? । तया च प्रणम्य यथावस्थितमभिहिते बभाषे शेषराजः-मयि प्रतपति कस्तव तनयमभिभवितुं क्षमः ? । इत्युदीर्य घटमादाय हृदान्तर्निमज्य पीयूषकुण्डात्सुधया घटं प्रपूर्य च तस्यै दत्तः। ऊचे च-त्वमनेनामृतेन सातवाहनकृतमृन्मयाश्वरथगजपदातिजातमभिषिञ्चेस्तथा तत्सजीवं भूत्वा परबलं भनक्ति; त्वत्पुत्रं
च प्रतिष्ठानपत्तनराज्ये अयमेव पीयूषघटोऽभिषेक्ष्यति । प्रस्तावे पुनः स्मरणीयोऽहमित्युक्त्वा 10 स्वास्पदमगमद् भुजङ्गपुङ्गवः। साऽपि सुधाघटमादाय खसद्मोपेत्य तेन तन्मृन्मयं सैन्यमदैन्यमभ्युक्षामास । प्रातर्दिव्यानुभावतः सचेतनभूय तत्सैन्यं संमुखं गत्वा युयुधे परानीकिन्या सार्द्धम् । तया सातवाहनपृतनया भग्नमवन्तीशितुर्बलम् । विक्रमनरपतिरपि पलाय्य ययाववन्तीम् । तदनु सातवाहनो राज्येऽभिषिक्तः। प्रतिष्ठानं च निजनिजविभूतिपरिभूतवखोकसाराभिधानं धवलगृह-देवगृह-हद्दपति-राजपथ-प्राकार-परिखादिभिः सुनिविष्टमजनिष्ट पत्तनम् । 15 सातवाहनोऽपि क्रमेण दक्षिणापथमनृणं विधाय तापीतीरपर्यन्तं चोत्तरापथं साधयित्वा स्वकीयसंवत्सरं प्राचीवृतत् । जैनश्च समजनि । अचीकरच जनितजननयनशैत्यानि चैत्यानि । पञ्चाशद्वीरा अपि प्रत्येकं स्वस्वनामाङ्कितानि अन्तनगरं कारयांबभूवुर्जिनभवनानि ।
$८७) परसमयलोकप्रसिद्धं सातवाहनचरित्रं शेषमपि किञ्चिदुच्यते।-श्रीसातवाहने क्षिति रक्षति सति पश्चाशद्वीराःप्रतिष्ठाननगरान्तस्तदा वसन्ति स्म, पञ्चाशन्नगराद्वाहिः। इतश्च तत्रैव पुरे 20 एकस्य द्विजस्य सूनुर्दपोद्धरः शूद्रकाख्यः समजनि । स च युद्धश्रमं दर्पात् कुर्वाणः पित्रा खकुलानुचितमिदमिति प्रतिषिद्धोऽपि नास्थात् । अन्येयुः सातवाहननृपतिर्बापला-खूदलादिपुरान्तवर्तिवीरपञ्चाशदन्वितो द्विपञ्चाशद्धस्तप्रमाणां शिलां श्रमार्थमुत्पाटयन् दृष्टः पित्रा समं गच्छता द्वादशाब्ददेशीयेन शूद्रकेण । केनापि वीरेणाङ्गुलीचतुष्टयं केनचित्षडङ्गुलान्यपरेण त्वङ्गुलान्यष्टौ शिला भूमित उत्पाटिता। महीजानिना त्वाजानु नीता। इत्यवलोक्य शूद्रकः स्फूर्जदूर्जितमवादीत्25 भो ! भो! भवत्सु मध्ये किं शिलामिमां मस्तकं यावन्न कश्चिदुद्धर्जुमीष्टे । तेऽपि "सेय॑मवादिषुयथा-त्वमेवोत्पाटय यदि समर्थमन्योऽसि । शूद्रकस्तदाकर्ण्य तां शिला" वियति तथोच्छालयांचकार" यथा दूरमूर्ध्वमगमत् । पुनरवादि शूद्रकेण-यो भवत्सु अलम्भूष्णुः स खलु इमां निपतन्तीं स्तनातु । सातवाहनादिवीरैर्भयो,भ्रान्तलोचनैरूचे स एव सानुनयम् , यथा-भो महाबल! रक्ष रक्ष, आम माकीनान् प्राणान् इति । स पुनस्तां पतयालु तथा मुष्टिप्रहारेण प्रहतवान् , यथा 30 सा त्रिखण्डतामन्वभूत् । तत्रैकं शकलं योजनत्रयोपरि न्यपतत् । द्वैतीयिकं च खण्डं नागहृदे । तृतीयं तु प्रतोलीद्वारे चतुष्पथमध्ये निपतितमद्यापि तथैव "वीक्ष्यमाणमास्ते जनः। तद्बलविल
1A प्राचीन। 2 P पत्यौ। 3 BP नास्ति पदमेतत् । 4 P वं चानेन; BE वं वानेन। 5 P यथा। GP षेकयिष्यति। 7A विस्वौक०; P वस्त्वौक०। 8 A महीपतिना। 9 P समर्थः। 10 AB तदर्थम । 11 A नास्ति । 12 ABचके। 13 AE अलंकरिष्णुः। 14 P भयादू० । 15A अस्माकीयान् । 16 P विखण्डमः। 17 ABE वक्ष्यमाण।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org