________________
सातवाहनप्रबन्धः।
वर्तमानं निधिकलशचतुष्टयं युष्माभिर्यथाज्येष्ठं विभज्य ग्राह्यम् , येन भवतां निर्वाहः सम्पनीप. द्यते । पुत्रैस्तु तथेत्यादेशः खीचक्रे पितुः । तस्मिन्नुपरते तस्यौदेहिकं कृत्वा त्रयोदशेऽहनि भुवं खात्वा यथायथं चतुरोऽपि निधिकलशास्ते जग्रहिरे।यावदुद्घाट्य विलोकयन्ति तावत्प्रथमस्य कुम्भे कनकम् , द्वैतीयीकस्य कृष्णमृत्स्ना, तृतीयस्य बुशम् , तुरीयस्य त्वस्थीनि ददृशिरे। तदनु ज्यायसा साकमितरे त्रयो विवदन्ते स्म-तदस्मभ्यमपि विभज्य कनकं वितरेति । तस्मिंश्चावितरति सति । तेऽवन्तिपतेर्द्धर्माधिकरणमुपास्थिषत । तत्रापि न तेषां वादनिर्णयः समपादि । ततश्चत्वारोऽपि ते महाराष्ट्रजनपदमुपानंसिषुः । सातवाहनकुमारस्तु कुलालमृदा हस्तिरथसुभटानन्वहं नवनवान् विदधानः कुलालशालायां बालक्रीडादुर्ललितः कलितस्थितिरनयत् समयम् । ते च द्विजतनुजाः प्रतिष्ठानपत्तनमुपेत्य परतो भ्रमन्तस्तस्यामेव चक्रजीविनः शालायां तस्थिवांसः। सातवाहनस्तु तानवेक्ष्येगिताकारकुशलःप्रोवाच-भो विप्राः! किं भवन्तो वीक्षापन्ना इव वीक्ष्यन्ते । 10 तैस्तु जगदे-जगदेकसुभग! कथमिव वयं चिन्ताचान्तचेतसस्त्वयाऽज्ञासिष्महि । कुमारेण बभणे-इङ्गितैः किमिव नावगम्यते । तैरुक्तम्-युक्तमेतत् । परं भवतः पुरो निवेदितेन चिन्ताहेतुना किं स्यात् ? । बालः खलु भवान् । बाल आलपत्-यदि परं जातु मत्तोऽपि साध्यं वः सिध्यति, तन्निवेद्यतां स चिन्ताहेतुः । ततस्ते तद्वचनवैचित्रीहृतहृदयाः सकलमपि स्वस्वरूपं निधिनिरयणादि मालवेशपरिषद्यपि विवादानिर्णयान्तं तस्मै निवेदितवन्तः । कुमारस्तु स्मित-15 विच्छुरिताधरोऽवादीद्-भो विप्राः! अहं यौष्माकं झगटकं निर्णयामि, श्रूयतामवहितैः । यस्मै वप्ता कनककलशं प्रददे, स तेनैव निवृत्तोऽस्तु । यस्य कलशे कृष्णमृत्स्ना निरगात् स क्षेत्रकेदारादीन गृह्णातु । यस्य तु बुशं स कोष्ठागारगतधान्यानि सर्वाण्यपि स्वीकुरुताम् । यस्य चास्थीनि निरगुः सोऽश्वमहिषीदासीदासादिकमुपादत्ताम्-इति युष्मजनकस्याशयः। इति क्षीरकण्ठोक्तं श्रुत्वा सूत्रकण्ठाः छिन्नविवादाः तद्वचनं प्रतिश्रुत्य तमनुज्ञाप्य प्रत्याययः स्वां नगरीम् । प्रथिता 20 सा तद्विवादनिर्णयकथा पुर्याम् । राज्ञाप्याकार्य ते पर्यनुयुक्ताः-किं नु भो! भवतां वादनिर्णयो जातः ? । तैरुक्तम्-आम" खामिन् ! । केन निर्णीतः ?-इति नृपेणोदिते ते सातवाहनस्वरूपं सर्वमवितथमकथयन् ।
६८६) तदाकर्ण्य तस्य शिशोरपि बुद्धिवैभवं विभाव्य, प्रागुक्तं दैवज्ञेन तस्य प्रतिष्ठाने राज्यं च भविष्यतीत्यनुस्मृत्य तं खप्रतिपन्थिनमाकलय्य क्षुभितमनास्तन्मारणौपयिकमचिन्तयत् चिरं-5 नरेश्वरः । "अभिमरादिप्रयोगैारिते चास्मिन्नयशा-क्षात्रवृत्तिक्षती जायेतामिति विचार्य सन्नद्धचतुरङ्गचमूसमूहोऽवन्तिपतिः प्रस्थाय प्रतिष्ठानपत्तनं यथेष्टमवेष्टयत् । तदवलोक्य ते ग्राम्यास्त्रस्ताश्चिन्तयन्ति स्म-कस्योपरि अयमेतावानाटोपः सकोपस्य मालवेशस्य ? । न तावदत्र राजा राजन्यो वा वीरस्तादृग् दुर्गादि वा!-इति चिन्तयत्सु तेषु मालवेशप्रहितो दूतः समेत्य सातवाहनमवोचत्-भो कुमारक ! तुभ्यं नृपः क्रुद्धः। प्रातस्त्वां मारयिष्यति । अतो युद्धाय" 30 चिन्तनावहितेन भवता भाव्यमिति । स च श्रुत्वाऽपि "दूतोक्तं निर्भयं निरन्तरं क्रीडन्नेवास्ते । ___1 P खनित्वा। 2A द्वैतीयकस्य । 3 P धर्माधिकारिणः। 4 'ते' नास्ति P। 5 P .दुर्ललितकलितः। 6 P त्वया ज्ञाताः। 7 P वैचित्र्यः। 8P निर्गमनादि। 9A निर्णय ते। 10 P छिन्नवादाः। 11 P ओम्। 12 A भविप्यदनुस्मृत्य; E भविष्यत्यनु०। 13 मारणोपायः। 14 BE अभिघातकनरादि०; P अभिघातकरादि। 11 P युद्धाधुपाय० । 15 E श्रुत्वापि न दूनो; P श्रुत्वापि दूतोक्कीः।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org