________________
सातवाहनप्रबन्धः। तत्रस्थं महालक्ष्मीदेव्या भवनं प्रविष्टौ । तत्र शूद्रकस्तां देवीमभ्यर्च्य कुशस्रस्तरासीनस्त्रिरात्रमुपावसत् । तदनु प्रत्यक्षीभूय भगवती महालक्ष्मीस्तमवोचत्-वत्स! किं मृगयसे ?। शूद्रकेणोक्तम्-स्वामिनि ! सातवाहनमहीपालमहिष्याः शुद्धिं वद । *कास्ते केनेयमपहृता ?। श्रीदेव्योदितम्-सर्वान् यक्षराक्षसभूतादिदेवगणान् सम्मील्य तत्प्रवृत्तिमहं निवेदयिष्यामि । परं तेषां कृते त्वया बल्युपहारादि प्रगुणीकृत्य धार्यम् । यावच्च ते कणेहत्य बल्यादि उपभुज्य प्रीता न 5 भवेयुस्तावत्त्वया विघ्ना रक्षणीयाः। ततः शूद्रको देवतानां तर्पणार्थ कुण्डं विरचय्य होममारेभे। मिलिताः सकलदैवतगणाः। खां खां भुक्तिमग्निमुखेन जगृहिरे । तावत्तद्धोमधूमःप्रसमरः प्राप तत्स्थानं यत्र मायासुरोऽभूत् । तेनापि ज्ञातलक्ष्म्यादिष्टशूद्रकहोमस्वरूपेण प्रेषितः खभ्राता कोल्लासुरनामा होमप्रत्यूहकरणाय । समागतश्च वियति कोल्लासुरः खसेनया समम् । दृष्टस्तहैवतगणैः । चकितं च तैः । ततो भषणौ दिव्यशक्त्या युयुधाते दैत्यैः सह । क्रमान्मारितौ च तौ 10 दैत्यैः । ततः शूद्रका खयं योद्धं प्रावृतत् । क्रमेण दण्डव्यतिरिक्तप्रहरणान्तराभावाद्दण्डेनैव बहूनिधनं नीतवानसुरान् । ततो दक्षिणबाहुं दैत्यास्तस्य चिच्छिदुः। पुनर्वामदोष्णैव दण्डयुद्धमकरोत् । तस्मिन्नपि छिन्ने दक्षिणांहिणोपात्तदण्डो योर्बु लग्नः । तत्रापि दैत्यैर्टूने वामपादात्तयष्टिरयुध्यत । तमपि क्रमादच्छिदन्नसुराः। ततो दन्तैर्दण्डमादाय युयुधे । ततस्तैर्मस्तकमच्छेदि। अथाकण्ठतृप्ता दैवतगणास्तं शूद्रकं भूमिपतितशिरस्कं दृष्ट्वा-अहो! अस्मद्भुक्तिदातुर्वराकस्यास्य किं 15 जातम् । इति परितप्य योद्धं प्रवृत्ताः। कोल्लासुरममारयत् । ततः श्रीदेव्याऽमृतेनाभिषिच्य पुनरनुसंहिताङ्गश्चक्रे शूद्रकः, प्रत्युज्जीवितश्च । तस्य सारमेयावपि पुनर्जीवितौ । देवी च प्रसन्ना सती तस्मै खगरत्नं प्रादात् । अनेन त्वमजय्यो भविष्यसीति च वरं व्यतरत् । ततो महालम्यादिदैवतगणैः सह सातवाहनदेव्याः शुद्ध्यर्थं समग्रमपि भुवनं परिभ्रम्य प्राप्तः शूद्रको महार्णवम् । तत्र चैकं वटतरुमुच्चैस्तरं निरीक्ष्य विश्रामार्थमारुरोह यावत्, 'तावत्पश्यति तच्छा-20 खायां लम्बमानमधःशिरसं काष्ठकीलिकाप्रवेशितोद्भुपादं पुरुषमेकम् । स च प्रसारितजिह्वोऽन्तर्षीरं विचरतो जलचरादीन् भक्षयन् वीक्षितस्तैः । पृष्टश्च शुद्रकेण-कस्त्वम् ?, किमर्थं चेत्थं लम्बितोऽसि ? । तेनोक्तम्-अहं मायासुरस्य कनिष्ठो भ्राता । स च मदनोन्मदिष्णुर्मदग्रजः प्रतिष्ठानाधिपतेः सातवाहनस्य नृपतेर्महिषीं रिरंसुरपाहरत् सीतामिव दशवदनः । सा च पतिव्रता तन्नेच्छति । तदनुप्रोक्तो अग्रजन्मा-न युज्यते परदाराऽपहरणं तव । __ १९७. विक्रमाक्रान्तविश्वोऽपि परस्त्रीषु रिरसया । कृत्वा कुलक्षयं प्राप नरकं दशकन्धरः ॥ १॥
इत्यादिवाग्भिनिषिद्धः क्रुद्धो मह्यं मायासुरोऽस्यां वटशाखायां टङ्कित्वा मामित्थं व्यडम्बयत् । अहं च प्रसारितवदनः समुद्रान्तः सञ्चरतो जलचरादीनभ्यवहरन् प्राणयात्रां करोमि । इति श्रुत्वा शुद्रकोऽप्यभाणीत्-अहं तस्यैव महीभृतो भृत्यः शुद्रकनामा तामेव देवीमन्वेष्टुमागतोऽस्मि । तेनोक्तम्-एवं चेत्तर्हि मां मोचय, यथाऽहं सह भूत्वा तं दर्शयामि, तां च देवीम् ।30 तेन खस्थानं परितो जातुषं दुर्ग कारितमस्ति । तच्च निरन्तरं प्रज्वलदेवास्ति ततो 'दुर्लङ्ग्यम् । तन्मध्ये प्रविश्य तं निपात्य देवी प्रत्याहर्तव्या। इत्याकर्ण्य शूद्रकस्तेन कृपाणेन तत्काष्ठबन्धनानि च्छित्त्वा तं पुरोधाय, दैवतगणपरिवृतः प्रस्थाय, प्राकारमुल्लङ्घय तत्स्थानान्तः प्राविशत् । दैवत
* A आदर्श नास्ति एतद् वाक्यम् । 1 P दृष्टः स्वदैवत.। 2 'तस्य' नास्ति P1 3A अदात् । 4 A नास्ति तावत्' । 5P वान्छनपाहरत् । 6P प्रसारितरसनः। 7 P ततस्तदुलंध्य। 8A तत्कष्ट ।।
25
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org