________________
७२
प्रबन्धकोशे
गणांश्चालोक्य मायासुरः खसैन्यं युद्धाय प्रजिघाय । तस्मिन्पश्चतामश्चिते खयं योद्धमुपतस्थे । ततः क्रमेण शूद्रकस्तेनासिना तमवधीत् । ततो घण्टावलम्बिविमानमारोप्य दैवीं दैवतगणैः सह प्रस्थितः प्रतिष्ठानं प्रति ।
इतश्च, दशमं दिनमवधीकृतमागतमवगत्य जगत्यधिपतिर्ध्यातवान्-अहो! मम न महादेवी,न 5च शुद्रकवीरो, न चापि तौ रसनालिहौ; सर्व मयैव कुबुद्धिना विनाशितम् । इति शोचनात्सपरिच्छद एव प्राणत्यागचिकी' पुरावाहिश्चितामरचयचन्दनादिदारुभिः । यावत्क्षणादाशुशुक्षार्णि क्षेप्स्यति परिजनश्चितायाम्', तावद्वर्धापक एको देवगणमध्यात्समायासीत् । व्यजिज्ञपच सप्रश्रयम्-देव! दृिष्ट्या वर्द्धसे महादेव्यागमनेन । तन्निशम्य श्रवणरम्यं नरेश्वरः स्फुरदानन्दकन्दलितहृदय ऊर्ध्वमवलोकयन्नालुलोके नभसि दैवतगणं शूद्रकं च । अयमपि विमानादवतीर्य राज्ञः 10 पदोरपतत् महादेवी च । अभिननन्द सानन्दं मेदिनीन्दुः शूद्रकम् । राज्याई तस्मै प्रादिशत् । सोत्सवमन्तनगरं प्रविश्य श्रुतशुद्रकचारुचरितः सह महिष्या राज्यश्रियमुपबुभुजे महाभुजः।
६८९) तस्य च सातवाहनस्य चन्द्रलेखाद्याः पश्चशतानि पल्यः । सर्वा अपि षड्भाषाकवित्वविदः। राजा पुनरनधीतव्याकरणः। आगत उष्णकालः। आरब्धा जलकेलिः। चन्द्रलेखा शीतालु:
शीतं न सहते । नृपस्तु प्रेम्णा शृङ्गकजलैस्तामनवरतं सिश्चते । ततः सा संस्कृतेन प्राह-देव! मां 15 मोदकैः पूरय । हालस्तु तत्संस्कृततत्त्वमनवगच्छन् मोदकनाम श्रुत्वा दास्याः पार्थान्मोदकपटलिकामानीनयत्। चन्द्रलेखा तां दृष्ट्वा पतिमतिभ्रमदर्शनादहसीत्-अहो! महाराजस्य शास्त्रोत्तेजितमतिव्यापः । राज्ञाऽप्युपहासो ज्ञातः । पृष्टा राज्ञी-किमर्थं वयमुपहस्यामहे ? । राज्ञी जगादअन्यार्थस्थानेऽन्यार्थावबोधादुत्पासितोऽसि प्रिय !। लजितो राजा । सद्यो विद्यार्थं भारती त्रिरात्रोपवासेनाराध्य प्रत्यक्षीकृत्य तद्वरान्महाकविर्भूत्वा सारस्वतव्याकरणादिशास्त्रशतान्य20 चीकृपत् । तस्येश्वरस्य गुणकृत्वों' भारती देवताऽवसरेऽवतीर्याह । एकदा भारतीमभ्यार्थयत
सकलमपि पुरं आद्ययामाईमहः कविरूपं भवतु । तथैव कृतं देव्या । एकस्मिन् दिने दशकोटयो गाथाः सम्पन्नाः। 'सातवाहनकशास्त्र' तत्कृतम् ।
६९०) तस्य चोर्वीपतेः खरमुखो नाम दण्डनाथः शूरो भक्तः प्राज्ञः पुण्याख्यः आरम्भसिद्धः। एकदा हालेनादिष्टं खरमुखाय-मथुरा लाहि। आदेशः प्रमाणमित्युक्त्वा बहिर्व्यापारिणां पार्श्वमेत्य 25 राजादेशमचकथत् । व्यापारिभिः प्रोक्तम्-खरमुख ! दे मथुरे स्तः। एका दक्षिणमथुरा पाण्डवकृता । अपरा पूर्वमथुरा यगोष्ठे कृष्णः समुत्पन्नः। यत्र वृन्दावनादीनि वनानि । द्वयोर्मध्यात्का मथुरा ग्राह्येति पृच्छ । खरमुखेनोक्तम्-प्रतापमार्तण्डं तं कः प्रष्टुमीष्टे । वक्ष्यति हि-रे! मम चेतो न जानीथ ? । तस्य च प्रकोपः सद्यः प्राणहरः। दे अपि मथुरे ग्रहीष्यामः । सैन्यं द्विखण्डं कृत्वा
द्वे मथुरे एकस्मिन्नेव मध्याह्ने खरमुखेन जगृहाते । तत्पुरीद्वयग्रहणव पनिकामुखौ द्वौ नरौ 30 आगमताम् । यावत्प्रमोदात्तौ नृपतिरालपति तावत्तृतीय एक आगात् । स उवाच-देव ! भव
त्काराप्यमाणजैनप्रासादभूमितलेऽक्षयो निधिः प्रादुर्बभूव दिष्ट्या । यावत्तदभिमुखमीक्षते, तावदेव दासी प्रेममञ्जूषा शुद्धान्तादायासीत्। स्वामिन् ! देव्या चन्द्रलेखया सर्वाङ्गलक्षणः सुतो
1A चिकीर्षुः । 2A 'चितायाम्' नास्ति; BED परिजनश्च तौ। 3 Pमतिश्रमः। 4 P हसितोऽसि। 5A विद्याभारती प्रति; BE विद्यावर्ष भारती प्रति। 6P चीकरत् । 7A गुणाकृष्टा। 8 Poभ्यर्थयत् । 9A आदिश० । 10P आयाती।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org