________________
७३
सातवाहनप्रबन्धः। जातः। चतस्रोऽपि वर्दापनिका दत्ताः मापालेन । तेन प्रमोदेनास्य महोन्माद उत्पन्नः । ततो मेलयित्वा लोकं हयारूढो गोदावरीतीरमुपेत्य, तां जगाद तारतरखरम्१९८. सच्चं भण गोदावरि ! पुश्वसमुद्देण साहिया संती । सालाहणकुलसरिसं जइ ते कूले कुलं अस्थि ॥ २ ॥ १९९. उत्तरओ हिमवंतो दाहिणओ सालवाहणो राया । समभारभरकंता तेण न पल्लत्थए पुहवी ॥३॥ तादृशं तस्य गर्वमीक्षमाणा महामन्त्रिणोऽन्योन्यं मन्त्रयामासुः-नृपः श्रिया तरलितः। ततो' 5 २००. जितश्चेत्पुरुषो लक्ष्म्या, हृतं लोकद्वयं ततः । जिता चेत्पुरुषेणैषा जितं लोकद्वयं ततः ॥ ४॥ तस्मादस्य दुःखोत्पादनेन मदगदोच्छेदः कर्तुमर्हः । इत्यालोच्य राजानं व्यजिज्ञपत्-देव ! ललाटंतपतपनः कालः, भोजनावसरो वर्तते। पादोऽवधार्यतां सौधायेत्युदित्वा सौधमानैषुः । तत्रापि मदात् स्तम्भादीनि कुट्टयति । ततो मन्त्रिभिः खरमुखं वीरोत्तंसं छन्नीकृत्य राज्ञे उक्तम्देव ! खरमुखः सद्यो व्याधिना द्यामगमत् । अथ तच्छ्रवणे क्षमापो दुःखाच्छोकान्मदमहासीत् । 10 शोकात्तु वैकल्यमचकलत् । अथामात्यैर्विज्ञप्तम्-प्रजेश्वर ! विदेशादायातैर्मृतजीवन विद्याविदुरैः खरमुखो जीवितः । यद्यादेशः स्यात् तदा पदकमलयुगलतले लोठ्यते । इत्युक्ते सुस्थो जातः । दृष्टः खरमुखः। सुष्टु तुष्टो राजा । एवं तस्योदयः।
६९१) अन्यदासोऽसौ गोदावरीतीरे क्रीडति । तदैकेन मीनेन जलाबहिर्मुखं निष्कास्य हसितम् । भीतश्चमत्कृतश्च भूपः। रात्रौ ध्यानाकृष्टाऽऽयाता ब्राह्मी पृष्टा-देवि ! मीनः किमर्थं 15 हसति? । ब्राह्याह-वत्स! प्राग्भवे त्वमन्त्रैव पुरे काष्ठभारहारक आसीः। स च मध्याहे काष्ठकष्टार्जितधनकीतान् सक्तून् उष्णोदकविलोडितान् मासक्षपणिकऋषये मुदा ददे । तेन पुण्येन त्वं सम्राडवातारीः । तदेकस्तत्रत्यो व्यन्तरो वेत्ति । तेन मीने सङ्क्रम्य हसितं त्वया दृष्टम् । राजाहहासस्य को भावः । ब्राह्मी वक्ति-अयं भावः-अयं दानादाप्तर्द्धिः, पुनर्दाने मन्दादरः। धिगात्मकार्यमूढं जीवलोकमिति । सातवाहनो जल्पति-तस्य व्यन्तरस्य मचर्चया किं कार्यम् ? 120 ब्रायाह-प्राग्भवेऽयं तवैव सखाऽभूत् । तेन तु' कृपणत्वात्किमपि न दत्तम् । केवलं त्वद्दत्तमेव किश्चिदनुमोदितम् । तेन पुण्येन व्यन्तरत्वेनावतीर्णोऽयम् । ततस्त्वयि हितार्थित्वमस्य । मां च त्वन्मत्रशक्तिसमाकृष्टिप्रत्यक्षां त्वन्मातृकल्पां जानाति । ततस्तथाऽहसदिति विद्धि । न्तज्ञानादवनीशो वदान्यत्वं सुष्ठाददे। ब्राह्मी-श्रीदत्तशब्दवेधरससिद्धरिच्छादानी मानी जैनः ।
६९२) इत्थंकारं नानाविधान्यवदातानि हालक्षितिपालस्य कियन्ति नाम वर्णयितुं पार्यन्ते । 25 स्थापितश्चानेन गोदावरीतीरे महालक्ष्मीप्रासादः । अन्यान्यपि च यथार्ह दैवतानि निवेशितानि तत्तत्स्थानेषु । राज्यं प्राज्यं चिरं भुञ्जाने जगतीजानौ, अन्यदा कश्चिद्दारुभारहारकः कस्यचिद्वाणिजस्य वीथौ प्रत्यहं चारूणि दारूण्याहृत्य विक्रीणीते स्म। दिनान्तरे च तस्मिन्ननुपेयुषि वणिजा तद्भगिनी पृष्टा"-किमर्थं भवद्भाताऽद्य नागतो मद्वीभ्याम् ? । तया बभणे-श्रेष्ठिश्रेष्ठ! मत्सोदय: खर्गिषु सम्प्रति प्रतिवसति । वणिगभणत्-कथमिव ? । सावदत्-कङ्कणबन्धादारभ्य विवाह-30 प्रकरणे दिनचतुष्टयं नरः खर्गिष्विव वसन्तमात्मानं मन्यते । तत्तदुत्सवालोकनकौतूहलात् । तचाकर्ण्य राजाऽप्यचिन्तयत्-अहो ! अहं स्वर्गिषु किं न वसामि । चतुर्षु चतुर्पु दिनेषु अनवरतं
1 P नास्ति 'ततो'। 2P जीवनविदुरैः। 3 BE लोट्यते; P लोच्यते। 4 तदैकः। 5 P हसितः। 6P भूपोऽभूत् । 7 P नास्ति 'तु'। 8 P स्थापिता। 9 P महालक्ष्मीः प्रासादे। 10 P भगिन्यापृष्टा ।
प्र० को
१०
Jain Education Intemational
www.jainelibrary.org
For Private & Personal Use Only
For Private & Personal Use Only