________________
प्रबन्धकोशे
विवाहोत्सवमय एव स्थास्यामि । इति विचार्य चातुर्वर्ण्य यां यां कन्यां युवतिं रूपशालिनीं पश्यति शृणोति स्म 'च, तां तां सोत्सवं पर्यणैषीत् । एवं च भूयस्यनेहसि गच्छति लोकैश्चिन्तितम् - अहो ! कथं भाव्यमनपत्यैरेव सर्ववर्णैः स्थेयम् । सर्वाः कन्यास्तावद्राजैव विवोढा । योषिदभावे च कुतः सन्ततिरिति । एवं विषण्णेषु लोकेषु विवाहवाटिकानाम्नि ग्रामे वास्तव्य 5 एकोद्विजः पीठजां देवीमाराध्य व्यजिज्ञपत्-भगवति ! कथं विवाहकर्माऽस्मदपत्यानां भावीति । देव्योक्तम्- भो वाडव ! त्वद्भवनेऽहमात्मानं कन्यारूपं कृत्वाऽवतरिष्यामि । यदा मां राजा प्रार्थयते तदाऽहं तस्मै देया । शेषमहं भलिष्ये । तथैव राजा तां रूपवतीं श्रुत्वा विप्रमयाचत । सोsपि जगाद - दत्ता मया । परं महाराज ! खयमन्त्रागत्य मत्कन्योद्वोढव्या । प्रतिपन्नं राज्ञा । गणकदत्ते लग्ने क्रमाद्विवाहाय प्रचलितः । प्राप्तश्च तं ग्रामं श्वशुरकुलमवनिपतिः । देशानुरोधा10 द्वधूवरयोरन्तराले जवनिका दत्ता । अञ्जलिर्युगन्धरीलाजैर्भृतः । लग्नवेलायां तिरस्करिणीमपनीय यावदन्योऽन्यस्य शिरसि लाजान्वितरीतुं प्रवृत्तौ तदनु किल हस्तमेलापो भविष्यतीति, तावद्राजा तां रौद्ररूपां राक्षसीमिवैक्षिष्ट । ते च लाजाः कठिनकर्करपाषाणरूपा राज्ञः शिरसि लगितुं लग्नाः । क्षितिपतिरपि किमपि वैकृतमिदमिति विभावयन् पलायितः । तावत्सा पृष्ठलग्नाऽश्मशकलानि वर्षन्ती प्राप्ता । ततो नरपतिर्नागदं प्राविशन्निजजन्मभूमिम् । तत्रैव च 15 निधनमानशे । अद्यापि सा पीठजा देवी प्रतोल्या बहिरास्ते निजप्रासादस्था । शूद्रकोऽपि क्रमेण कालिकादेव्याऽऽजारूपं विकृत्य वापीं प्रविष्टया करुणरसितेन विप्रलब्धस्तन्निष्कासनार्थं प्राविशत् । पतितस्य तस्य कृपाणस्य कृपद्वारे तिर्यक्पतनाच्छिन्नाङ्गः पञ्चतामानश्च । महालक्ष्म्या हि वरवितरणावसरे - अस्मादेव कौक्षेयकात्तवदिष्टान्तावाप्तिर्भवित्री त्यादिष्टमासीत् ।
७४
९९३) ततः शक्तिकुमारो राज्येऽभिषिक्तः सातवाहनायनिः । तदनन्तरमद्यापि राजा न 20 कश्चित्प्रतिष्ठाने प्रविशति 'वीरक्षेत्र इति । अत्र च यदसम्भाव्यं कचिद् गर्भे, तत्र परसमय एव मन्तव्यो हेतुः * । यन्नासङ्गतवाग्जनो जैनः । श्रीवीरे शिवं गते ४७० विक्रमाक राजा तत्कालीनोऽयं सातवाहनस्तत्प्रतिपक्षत्वात् । यस्तु कालिकाचार्य पार्श्वात् पर्युषणामेकेनाहा अर्वागानाययत्, सोऽन्यः सातवाहन इति सम्भाव्यते । अन्यथा
२०१. नवसयतेणउएहिं समइक्कंतेहिं वीरमुक्खाओ । पज्जोसवणचउत्थी कालयसूरीहिं तो ठविआ ॥ ५ ॥ 25 इति चिरत्नगाथाविरोधप्रसङ्गात् । न च सातवाहनक्रमिकः सातवाहन इति विरुद्धम् । भोजपदे बहूनां भोजत्वेन, जनकपदे बहूनां जनकत्वेन रूढत्वात् ।
॥ इति सातवाहनप्रबन्धः समाप्तः ॥ १५ ॥
1P नास्ति 'च' । 2 P करिष्ये । 3 एतत्पाठस्थाने P पुस्तके 'अस्माद्देवखड्गात्तव मरणं भावी०' एतादृशः पाठः प्राप्यते । 4 P पुस्तके 'सातवाहनस्य निसूदनान्तर' एतादृशो भ्रष्टः पाठो विद्यते । 5P वीरक्षेत्रत्वात् । 6 BP यदसद्भाव्यं । * A आदर्शों ' मन्तव्यो हे वर्य नासंगत०' एषः पाठः । 7 P राजाऽभवत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org