________________
वकचूलप्रबन्धः।
१६. अथ वङ्कचूलप्रबन्धः । २०२, पारेतजनपदान्तश्चर्मण्वत्यास्तटे महानद्याः । नानाघनवनगहना जयत्यसौ ढींपुरीति पुरी ॥१॥ ६९४) अत्रैव भारते वर्षे विमलयशा नाम भूपतिरभूत्। तस्य सुमङ्गलदेव्या सह विषयसुखमनुभवतः क्रमाजातमपत्ययुगलम् । तत्र पुत्रः पुष्पचूलः, पुत्री पुष्पचूला । अनर्थसार्थमुत्पादयतः पुष्पचूलस्य कृतं लोकैर्वकचूल' इति नाम । महाजनोपलब्धेन राज्ञा रुषितेन निःसारितो नगरा-5 द्वङ्कचूलः । गच्छंश्च पथि पतितो भीषणायामटव्यां सह निजपरिजनेन स्वस्रा च स्लेहपरवशया। तत्र च क्षुत्पिपासार्दितो दृष्टो भिल्लैः। नीतः स्वपल्ल्याम् , स्थापितश्च मृतपूर्वपल्लीपतिपदे । पर्यपालयद्राज्यम् । अलुण्ठयद् ग्रामनगरसार्थादीन् । अन्यदा सुस्थिताचार्या अर्बुदाचलादष्टापदयात्रायै प्रस्थितास्तामेव सिंहगुहां नाम पल्लीं सगच्छाः प्रापुः । जातश्च वर्षाकालः। अजनि पृथिवी जीवाकुला । साधुभिः सहालोच्य मार्गयित्वा वङ्कचूलादसतिं स्थिता तत्रैव सूरयः। 10 तेन च प्रथममेव व्यवस्था कृता-मम सीमान्तर्धर्मकथा न कथनीया । यतो युष्मत्कथायां अहिंसादिको धर्मः। न चैवं मम लोको निर्वहति । एवमस्तु इति प्रतिपद्य तस्थुरुपाश्रये गुरवः । 'वङ्कचूलेनाह्रय सर्वे प्रधानपुरुषा भणिता:-अहं राजपुत्रस्तन्मत्समीपे ब्राह्मणादय आगमिप्यन्ति । भवद्भिर्जीववधो मांसमद्यादिप्रसङ्गश्च पया मध्ये न कर्त्तव्यः । एवं कृते यतीनामपि भक्तपानमजुगुप्सितं कल्पत इति । तैस्तथैव कृतं यावच्चतुरो मासान् । प्राप्तो विहारसमयः । 15 अनुज्ञापितो वङ्कचूलः सूरिभिः। २०३. समणाणं सउणाणं भमरकुलाणं च गोकुलाणं च । अनिआओं वसहीओं सारईआणं च मेहाणं ॥२॥
इत्यादि वाक्यैः। ततस्तैः सह चलितो वङ्कचूलः । खसीमां प्रापुषा तेन विज्ञप्तम्-वयं परकीयसीमां न प्रविशाम इति । सूरिभिर्भणितः-वयं सीमान्तरमुपेतास्तत् किमप्युपदिशामस्तुभ्यं [ दाक्षिण्यात् ] तेनोक्तम्-यन्मयि निर्वहति तदुपदेशेनानुगृह्यतामयं जनः । ततः सूरिभि-20 श्चत्वारो नियमा दत्ताः । तद्यथा-अज्ञातफलानि न भोक्तव्यानि १। सप्ताष्टानि पदान्यपसृत्य घातो देयः २। पट्टदेवी नाऽभिगन्तव्या ३ । काकमांसं न भक्षणीयमिति ४ । प्रतिपन्नास्तेन ते । गुरून् प्रणम्य 'स्वगृहमगमत् । अन्यदा गतः सार्थस्योपरि धाट्या । शकुनकारणान्नागतः सार्थः । त्रुटितं च तस्य पथ्यदनम् । पीडिताः क्षुधा राजन्याः। दृष्टश्च तैः किम्पाकतरुः फलितः। गृहीतानि फलानि । न जानन्ति ते नामधेयमिति तेन न भुक्तानि । इतरैः सर्वैर्बुभुजिरे । मृताश्च 25 ते किम्पाकफलैः। ततश्चिन्तितं तेन-अहो ! नियमानां फलम् । तत एकाक्येवागतः पल्लीम् । रजन्यां प्रविष्टः स्वगृहम् । दृष्टा पुष्पचूला दीपावलोकेन पुरुषवेषा निजपल्या सह प्रसुप्ता। जातश्च कोपस्तयोरुपरि । द्वावप्येतो खड्गप्रहारेण छिनमीति यावदचिन्तयत्तावत्स्मृतो नियमः। ततः सप्ताष्ट पदान्यपक्रम्य' घातं ददतः खाट्कृतमुपरि खड्गेन । व्याहृतं स्वस्रा-जीवतु वङ्कचूलः। इति तद्वचः श्रुत्वा लज्जितोऽसावपृच्छत्-किमेतदिति ? । साऽपि नटवृत्तान्तमचीकथत् । कथं ?-30 भ्रातः ! अत्र प्रतिभूपतेर्नटवेषधराश्चरा आगच्छन् । यदि पल्लयां वङ्कचूलोऽस्ति तदाऽस्माकं
__1A चूड। 2 A नास्ति 'वंकचूलेन'। 3 AE तत्समीपे। 4 P ते। 5 P पुस्तक एवैतत्पदं दृश्यते। 6 CP स्वस्व गृ०। 7 BC पदान्यपसृत्य । 8P 'कथं नास्ति ।
For Private & Personal Use Only
Jain Education Intemational
www.jainelibrary.org