________________
• प्रबन्धकोशे नृत्यं पश्यतु-इत्यब्रुवन् । तदा मया चिन्तितं' साम्प्रतं भ्राता वङ्कचूलो नास्ति गृहे । तदा मया तव वेषधारिण्या नृत्यमकारि तेषां पार्वात् । दानमदायि तेभ्यः । गताश्च ते खस्थानम् ।[*ततो बहुनिशागमनेन निद्रापरवशा ] तेनैव' वेषेण भ्रातृजायापार्श्वे अखपम् । इति वृत्तान्तं श्रुत्वाऽतीव मनसि खेदो दः तेन । 5_६९५) कालक्रमेण तस्य तद्राज्यं शासतस्तत्रैव पल्लयां तस्यैवाचार्यस्य शिष्यौ धर्मऋषि-धर्मदत्तनामानौ कदाचिद्वर्षाराचमवास्थिषाताम् । तत्र तयोरेका साधुस्त्रिमासक्षपणकं विदधे,दितीयस्तु चतुर्मासक्षपणम् । वङ्कचूलस्तु तद्दत्तनियमानामायतिशुभफलतामवलोक्य व्यजिज्ञपत्हे भदन्ती! मदनुकम्पया कमपि पेशलं धर्मोपदेशं ददताम् । ततस्ताभ्यां चैत्यविधापनदेशना पापनाशिनी विदधे । तेनापि शराविकापर्वतसमीपवर्तिन्यां तस्यामेव पहयां चर्मण्वती सरित्तीरे 10 कारितमुच्चैस्तरं चारु चैत्यम् । स्थापितं च तत्र श्रीमन्महावीरबिम्बम् । तीर्थतया च रूढं तत् ।
तत्रायान्ति म चतुर्दिग्भ्यः सङ्घाः। __कालान्तरे कश्चिन्नैगमः सभार्यः सर्वद्ध्या तद्यात्रायै प्रस्थितः। प्राप्तः क्रमेण रन्तिनदीम् । नावमारूढौ च दम्पती चैत्यशिखरं व्यलोकयताम् । ततः सरभसं सौवर्णकचोलके कुङ्कुमचन्दन
कपूरं प्रक्षिप्य जलं क्षेसुमारब्धवती नैगमगृहिणी । प्रमादात् निपतितं तदन्तर्जलतलम् । ततोऽ15 भाणि वणिजा-अहो! इदं कच्चोलकं नैककोटिमूल्यरत्नखचितं राज्ञा ग्रहणकेऽर्पितमासीत् । ततो राज्ञः कथं 'छुटितव्यम् । इति चिरं विषद्य वङ्कचूलस्य पल्लीपतेर्विज्ञापितं तत् यथा-अस्य राजकीयवस्तुनो विचितिः कार्यताम् । तेनापि धीवर आदिष्टस्तच्छोधयितुं प्राविशदन्तर्नदीम् । विचिन्वता चान्तर्जलतलं' दृष्टं तेन हिरण्यमयरथस्थं जीवन्तखामिश्रीपार्श्वनाथबिम्बम् । याव
त्पश्यति स्म स बिम्बस्य हृदये तत्कच्चोलकम् । धीवरेणोक्तम्-धन्याविमौ दम्पती यद्भगवतो 20 वक्षसि घुसूणचन्द्रचन्दनविलेपना स्थितमिदम् । ततो गृहीत्वा तदर्पितम् नैगमस्य । तेनापि
दत्तं तस्मै बहुद्रव्यम् । उक्तं च बिम्बस्वरूपं नाविकेन । ततो वङ्कचूलेन श्रद्धालुना तमेव प्रवेश्य' निष्कासितं तद्विम्बम् । कनकरथस्तु तथैव मुक्तः। निवेदितं हि स्वप्ने प्राग्भगवता "नृपतेः-यत्र क्षिप्ता सती पुष्पमाला गत्वा तिष्ठति, तत्र बिम्ब शोध्यमिति। तदनुसारेण "बिम्बमानीय समर्पितं राज्ञे वङ्कचूलाय । तेनापि स्थापितं श्रीवीरबिम्बस्य बहिर्मण्डपे, यावत्किल नव्यं चैत्यमस्मै 25 कारयामि-इत्यभिसन्धिमता । कारितेच चैत्यान्तरे, यावत्तत्र स्थापनार्थमुत्थापयितुमारभन्ते
राजकीयाः पुरुषास्तावद्विम्बं नोत्तिष्ठति स्म । देवताधिष्ठानात्तत्रैव स्थितम् । अद्यापि तथैवास्ते । धीवरेण पुनर्विज्ञप्तः पल्लीपतिः-यत्तत्र देव ! मया नद्यां प्रविष्टेन बिम्बान्तरमपि दृष्टम् । तदपि बहिरानेतुमौचितीमञ्चति । पूजारूढं हि भवति । ततः पल्लीश्वरेण पृष्टा खपरिषत्-भोः ! जानीते कोऽपि अनयोर्बिम्बयोः संविधानकम् ? । केन खल्वेते नद्यन्तर्जलतले न्यस्ते ?। इत्याकण्यकेन 30 पुराविदा स्थविरेण विज्ञप्तम्-देव ! एकस्मिन्नगरे पूर्व नृपतिरासीत् । स च परचक्रेण समुपेयुषा साई योद्धं सकलचमूसमूहं सन्नह्य गतः। तस्याग्रमहिषी च निजं सर्वखमेतच विम्बद्वयं कनक
1Pऽचिन्ति । * कोष्ठकगत पाठः P पुस्तक एव लम्यते । 2 AB तेन । 3 P एकस्त्रिमासः। 4 P दत्तः। 5 AC 'तेनापि शिरोनामिदंबिकापर्वतः। 6 AB जलं तत् । दण्डान्तर्गता पंक्तिः पतिता AED आदर्शेषु । 7P चान्तर्जलं । 8 P तेन। 9 A प्रविश्य। 10 P तत्रैव। 11 AB नृपेण। 12 'बिम्ब' नास्ति AI 13 A चमूसमूलसनहनेन गतः, BE चमूसमूहसन्चहनेन ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org