________________
पारमेन
वङ्कचूलप्रवन्धः। रथस्थं विधाय जलदुर्गमिति कृत्वा चर्मण्वत्यां कौटिम्बके प्रक्षिप्य स्थिता। चिरं युध्यतस्तस्य कोऽपि खलः किल वार्तामानैषीत्-यदयं नृपतिस्तेन परचक्राधिपतिना व्यापादित इति । 'तच्छ्रुत्वा देवी तत्कौटिम्बकमाक्रम्यान्तर्जलतलं प्राक्षिपत् । स्वयं च परासुतामासदत् । स च नृपतिः परचक्र निर्जित्य यावन्निजनगरमागमत् , तावद्देव्याः प्राचीनं वृत्तमाकर्ण्य भवाद्विरक्तः
* दीक्षा कक्षीचक्रे । तत्रैकं बिम्बं देवेन बहिरानीतं पूज्यमानं चास्ति । द्वितीयमपि 5 चेनिःसरति तदोपक्रम्यतामिति । तदाकर्ण्य वङ्कचूलः परमाईतचूडामणिस्तमेव धीवरं तदानयनाय प्रावीविशत् । स च तद्विम्बं कटीदनवपुर्जलतले तिष्ठमानं बहिस्थशेषाङ्गमधोऽवलोक्य निष्कासनोपायाननेकानकार्षीत् । न च तन्निर्गतमिति दैवतप्रभावमाकलय्य समागत्य च विशामीशाय न्यवेदयत् तत्स्वरूपम् । अद्यापि तत्किल तत्रैवास्ते ।
६९६) श्रूयते ह्यद्यापि, केनापि धीवरस्थविरेण नौकास्तम्भे जाते तत्कारणं विचिन्वता तस्य 10 हिरण्यमयरथस्य युगकीलिका लब्धा। तां कनकमयीं दृष्ट्वा लुब्धेन तेन व्यचिन्ति-यदिमं रथं क्रमात् सर्व गृहीत्वा ऋद्धिमान भविष्यामीति । ततश्च स रात्रौ निद्रां न लेभे। उक्तश्च केनापि अदृष्टपुरुषेण-यदिमां तत्रैव विमुच्य सुखं स्थेयाः। नो चेत्सद्य एव त्वां हनिष्यामीति। तेन भयातेन तत्रैव विमुक्ता युगकीलिका इत्यादि । किं न सम्भाव्यते देवताधिष्ठितेषु पदार्थेषु । श्रूयते च सम्प्रत्यपि काले कश्चिन् म्लेच्छा पाषाणपाणिः श्रीपार्श्वनाथप्रतिमां भतमुपस्थितः । स्तम्भि-15 तबाहुर्जातो महति पूजाविधौ कृते सजतामापन्न इति । श्रीवीरविम्बं महत्, तदपेक्षया लघीयस्तरं श्रीपार्श्वनाथबिम्बमिति महावीरस्यार्भकरूपोऽयं देव इति मेदाश्चेल्लण इत्याख्यां प्राचीकथत् । श्रीमचेलणदेवस्य महीयस्तममाहात्म्यनिधेः पुरस्ताभ्यां महर्षिभ्यां सुवर्णमुकुटाम्नायः साधितः । प्रकाशितश्च भव्येभ्यः। सा च सिंहगुहा पल्ली कालक्रमाद् दिपुरीत्याख्यया प्रसिद्धा नगरी सञ्जाता । अद्यापि स भगवान् श्रीवीरः, स च चेल्लणपार्श्वनाथः, सकलसकेन तस्यामेव 20 पुर्यो यात्रोत्सवैराराध्यते इति।
६९७) अन्यदा वङ्कचूल उज्जयिन्यां खातपातनाय चौर्यवृत्त्या कस्यापि श्रेष्ठिनः सद्मनि गतः । कोलाहलं श्रुत्वा वलितः । ततो देवदत्ताया गणिकाया गृहं प्राविशत् । दृष्टा सा कुष्ठिना सह प्रसुप्ता। ततो निःसृत्य गतः पुरः श्रेष्ठिनो वेश्म । तत्रैकविंशोपको लेख्यके त्रुट्यतीति परुषवाग्भिनिर्भर्त्य निःसारितो गेहात्पुत्रः श्रेष्ठिना । विरराम च यामिनी । यावद्राजकुलं 25 यामीत्यचिन्तयत्, तावदुजगाम धामनिधिः। पल्लीपतिश्च निःसृत्य नगरादू गोधां गृहीत्वा तरुतले दिनं नीत्वा पुना रात्रावागाद्राजभाण्डागाराबहिः । गोधापुच्छे विलग्य प्राविशत् कोशम् । दृष्टो राजाग्रमहिष्या रुष्टया। पृष्टश्च-कस्त्वमिति ?। तेनोचे-चौर इति। तयोक्तम्-मा भैषीः। मया सह सङ्गमं कुरु । सोऽवादीत्-का त्वम् ? । साऽप्यूचे-अग्रमहिष्यहमिति । चौरोऽवादीत्-यद्येवं तर्हि ममाम्बा भवसि।अतो यामि।इति निश्चिते तया खाझं नखैर्विदार्य पूत्कृतिपूर्वमाहूता आरक्षकाः130 गृहीतस्तैः। राज्ञा चानुनयार्थमागतेन तद् दृष्टम् । राज्ञोक्तास्ते पूरुषा:-मैनं गाढं कुर्वीध्वमिति । ते रक्षितः। प्रातः पृष्टः क्षितिभृता। तेनाप्युक्तम्-देव ! चौर्यायाहं प्रविष्टः। पश्चाद्देवभाण्डागारे देव्या दृष्टोऽस्मि । यावदन्यन्न कथयति, तावत्तुष्टो विदितवेद्यो नरेन्द्रः स्वीकृतः पुत्रतया ।
1 AB ततः। 2 P प्राविशत् । 3 P मुक्ता। 4 P चलितः। 5 P स्वपुरुषाः। 6 P विधो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org