Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 105
________________ ८२ प्रबन्धकोशे विप्र एको वृद्धोऽस्ति । स काश्चित् श्रीरामस्य वार्ताः पारम्पर्यायाताः सम्यग् 'विवेद । आहूय पृच्छयते। राज्ञा आहूतः स सगौरवम् । आयातः। पूजितः पृष्टश्च-वृद्ध ! वद काश्चिद्रामकथां नव्याम् । विप्रो बभाण-पृथ्वीनाथ ! यदि कोशलायामागच्छसि, तदा रामस्य कमपि प्रबन्धं साक्षाद्दर्शयामि । इह स्थितस्तु वक्तुं न पारयामि । तदा राज्ञा राज्यभारो मन्त्रिषु न्यस्तः। स्वयं 5 महाचमूसहितो वृद्धद्विजयुक्त अयोध्योपशल्यां ययौ । स्कन्धावारे तस्थौ । तदानीं स एव सर्वदिगीश इत्यभीः । विप्रो भाषितः क्षमापालेन-दर्शय रामदेवचरित्रम् । ततो विप्रः स्थानमेकं दर्शयित्वा भूपालमालपत्-इदं भूखण्डं खानयत । ततः खानयति क्षमापालः। खनत्सु खनकेषु उपरि हेमकलशः, ततो हैमी मण्डपिका प्रकटीबभूव । उपरितनं 'रजोऽपसारितम् । पश्चानुपूर्व्या प्रथमद्वितीयतृतीयक्षणा हैमा दृष्टा महीभुजा। चतुर्थे क्षणे नीरजी कृते विपुला उपानदेका 10 हैमसूत्रकृता ज्योतिर्जालजटालमाणिक्यखचिता दृष्टा । भूपेन' विस्मितेन गृहीत्वा हृदि शिरसि निहिता । अहो ! असामान्या रत्नजातिरियम् । ततो विप्रेण विज्ञप्तम्-देव ! चर्मकारपन्या उपानदेषा; न स्पष्टमहों तव विष्टपपतेः। विक्रमेणोक्तम्-सा चर्मकार्यपि धन्या, यस्या इंदृगुप नत्। वद केयं कथा? । ततो विप्रो ब्रूते-विश्वेश्वर! श्रीरामे राज्यं कुर्वति सति, अत्र चर्मकारसदनानि आसन् । इदमेकस्य चर्मकारस्य सदनम् । तस्य पत्नी लाडबहुला । अतो गर्वमुद्हति; विनयं न 15 करोति । ततः सा तेन हकिता हता च। याहि रे दुःखं गृहीत्वा इत्युक्ता च। ततो रुष्टाऽस्यामेकस्यां उपानहि तटपतितायां अपरिहितायां द्वितीयस्यां तु परिहितायां निजतातस्य सदनं जगाम । गत्वा पत्युः कठोरं भाषितं पित्रे बभाण। पित्रा दिनद्वयमस्थापि," आवर्जिता च । अथोक्तावत्से ! कुलस्त्रियः पतिरेव शरणम् । तत्रैव याहि । सोचे-न यामि मानक्षयात् । द्विस्त्रिरुक्तिप्रत्युक्तयो भणिताः। पितृभ्यां भाणितापि यदा पतिगृहं न याति तदा पित्रा भाषितम्-वत्से ! 20 अहमेवं मन्ये-यदा श्रीरामः सीता-लक्ष्मणसहितः खयमागत्यानुनीय त्वां श्वशुरकुले प्रहिता, तदा तत्र गन्त्री त्वम् । साऽप्यलीकाभिमानिनी प्रवदति-इदमित्थमेव, राम एवागते यामि तत्र नापरथा। इमं वृत्तान्तं चरत्वनियक्ताः प्रच्छन्नाः सूरा गत्वा रामं व्यजिज्ञपन-देव ! अयं वृत्तान्तश्चर्मकारपुत्र्याः। ततो देवः श्रीरामः प्रजावत्सलः प्रातः ससीतः सलक्ष्मणः सामात्यस्तचर्मकारभवनमगात् । तन्मध्यं प्रविष्टः । पूजितः कारुभिर्विस्मितैर्विज्ञप्तश्च-देव ! अयमस्मान् कीटान् 25 प्रति कियान् प्रसादः कृतः। खप्नेऽपि नेदं सम्भाव्यते-यद्देवोऽस्मानुपतिष्ठते । किं कारणमागम नस्य ?। श्रीरामः प्राह-त्वत्पुत्र्याः श्वशुरकुले प्रेषणायायाताः स्मः। तस्या हि वराक्यास्तथाविधा "प्रतिज्ञाऽऽस्ते । ततो हृष्टस्तजनकः । अपवरकं गत्वा दुहितरमाह स्म-मुग्धिके" ! तव प्रतिज्ञा पूर्णा । श्रीरामदेव आयातः सदेवीकः । एहि, वन्दख तं जगत्पतिम् । ततस्तुष्टा रामान्तिकमा गता । ववन्दे तम् । आलापिता प्रजातातेन-वत्से ! गच्छ श्वशुरमन्दिरम् । तया भणितम्30 आदेशः प्रमाणम् । ततो गता पतिगृहम् । रामः खस्थानमायासीत् । श्रीविक्रम! अस्या द्वितीया उपानत तत्र" पितगृहे खन्यमाने लप्स्यते। स्वामिन ! आयाहि. तत्र : राजा तत्र । खानितं तत् । लब्धा द्वितीयाऽप्युपानत् । दृष्टं हैमं गृहम् । एवमन्यान्यपि तेन विप्रेण __ 1 A सम्यग्वेद। 2 B विप्र । 3 Pप्रथमं । 4 A राज्ञाऽपसारितं । 5 P नीरजे। 6 AB विपुले। 7AB नास्ति 'भूपेन'। 8 AB विस्मितेन च । 9P मर्हति। 10 P अतः कारणात् सा। 11 P स्थापिता। 12 P सन्धा। 13 AB पुत्रिके। 14A प्रजानाथेन। 15 'ततो नास्ति P1 16AB नास्ति 'तत्र'। 17 P तत् । For Private & Personal Use Only Jain Education Intemational www.jainelibrary.org For Private & Personal Use Only

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176