Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 100
________________ पारमेन वङ्कचूलप्रवन्धः। रथस्थं विधाय जलदुर्गमिति कृत्वा चर्मण्वत्यां कौटिम्बके प्रक्षिप्य स्थिता। चिरं युध्यतस्तस्य कोऽपि खलः किल वार्तामानैषीत्-यदयं नृपतिस्तेन परचक्राधिपतिना व्यापादित इति । 'तच्छ्रुत्वा देवी तत्कौटिम्बकमाक्रम्यान्तर्जलतलं प्राक्षिपत् । स्वयं च परासुतामासदत् । स च नृपतिः परचक्र निर्जित्य यावन्निजनगरमागमत् , तावद्देव्याः प्राचीनं वृत्तमाकर्ण्य भवाद्विरक्तः * दीक्षा कक्षीचक्रे । तत्रैकं बिम्बं देवेन बहिरानीतं पूज्यमानं चास्ति । द्वितीयमपि 5 चेनिःसरति तदोपक्रम्यतामिति । तदाकर्ण्य वङ्कचूलः परमाईतचूडामणिस्तमेव धीवरं तदानयनाय प्रावीविशत् । स च तद्विम्बं कटीदनवपुर्जलतले तिष्ठमानं बहिस्थशेषाङ्गमधोऽवलोक्य निष्कासनोपायाननेकानकार्षीत् । न च तन्निर्गतमिति दैवतप्रभावमाकलय्य समागत्य च विशामीशाय न्यवेदयत् तत्स्वरूपम् । अद्यापि तत्किल तत्रैवास्ते । ६९६) श्रूयते ह्यद्यापि, केनापि धीवरस्थविरेण नौकास्तम्भे जाते तत्कारणं विचिन्वता तस्य 10 हिरण्यमयरथस्य युगकीलिका लब्धा। तां कनकमयीं दृष्ट्वा लुब्धेन तेन व्यचिन्ति-यदिमं रथं क्रमात् सर्व गृहीत्वा ऋद्धिमान भविष्यामीति । ततश्च स रात्रौ निद्रां न लेभे। उक्तश्च केनापि अदृष्टपुरुषेण-यदिमां तत्रैव विमुच्य सुखं स्थेयाः। नो चेत्सद्य एव त्वां हनिष्यामीति। तेन भयातेन तत्रैव विमुक्ता युगकीलिका इत्यादि । किं न सम्भाव्यते देवताधिष्ठितेषु पदार्थेषु । श्रूयते च सम्प्रत्यपि काले कश्चिन् म्लेच्छा पाषाणपाणिः श्रीपार्श्वनाथप्रतिमां भतमुपस्थितः । स्तम्भि-15 तबाहुर्जातो महति पूजाविधौ कृते सजतामापन्न इति । श्रीवीरविम्बं महत्, तदपेक्षया लघीयस्तरं श्रीपार्श्वनाथबिम्बमिति महावीरस्यार्भकरूपोऽयं देव इति मेदाश्चेल्लण इत्याख्यां प्राचीकथत् । श्रीमचेलणदेवस्य महीयस्तममाहात्म्यनिधेः पुरस्ताभ्यां महर्षिभ्यां सुवर्णमुकुटाम्नायः साधितः । प्रकाशितश्च भव्येभ्यः। सा च सिंहगुहा पल्ली कालक्रमाद् दिपुरीत्याख्यया प्रसिद्धा नगरी सञ्जाता । अद्यापि स भगवान् श्रीवीरः, स च चेल्लणपार्श्वनाथः, सकलसकेन तस्यामेव 20 पुर्यो यात्रोत्सवैराराध्यते इति। ६९७) अन्यदा वङ्कचूल उज्जयिन्यां खातपातनाय चौर्यवृत्त्या कस्यापि श्रेष्ठिनः सद्मनि गतः । कोलाहलं श्रुत्वा वलितः । ततो देवदत्ताया गणिकाया गृहं प्राविशत् । दृष्टा सा कुष्ठिना सह प्रसुप्ता। ततो निःसृत्य गतः पुरः श्रेष्ठिनो वेश्म । तत्रैकविंशोपको लेख्यके त्रुट्यतीति परुषवाग्भिनिर्भर्त्य निःसारितो गेहात्पुत्रः श्रेष्ठिना । विरराम च यामिनी । यावद्राजकुलं 25 यामीत्यचिन्तयत्, तावदुजगाम धामनिधिः। पल्लीपतिश्च निःसृत्य नगरादू गोधां गृहीत्वा तरुतले दिनं नीत्वा पुना रात्रावागाद्राजभाण्डागाराबहिः । गोधापुच्छे विलग्य प्राविशत् कोशम् । दृष्टो राजाग्रमहिष्या रुष्टया। पृष्टश्च-कस्त्वमिति ?। तेनोचे-चौर इति। तयोक्तम्-मा भैषीः। मया सह सङ्गमं कुरु । सोऽवादीत्-का त्वम् ? । साऽप्यूचे-अग्रमहिष्यहमिति । चौरोऽवादीत्-यद्येवं तर्हि ममाम्बा भवसि।अतो यामि।इति निश्चिते तया खाझं नखैर्विदार्य पूत्कृतिपूर्वमाहूता आरक्षकाः130 गृहीतस्तैः। राज्ञा चानुनयार्थमागतेन तद् दृष्टम् । राज्ञोक्तास्ते पूरुषा:-मैनं गाढं कुर्वीध्वमिति । ते रक्षितः। प्रातः पृष्टः क्षितिभृता। तेनाप्युक्तम्-देव ! चौर्यायाहं प्रविष्टः। पश्चाद्देवभाण्डागारे देव्या दृष्टोऽस्मि । यावदन्यन्न कथयति, तावत्तुष्टो विदितवेद्यो नरेन्द्रः स्वीकृतः पुत्रतया । 1 AB ततः। 2 P प्राविशत् । 3 P मुक्ता। 4 P चलितः। 5 P स्वपुरुषाः। 6 P विधो। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176