Book Title: Prabandh kosha Author(s): Rajshekharsuri, Jinvijay Publisher: Singhi Jain GyanpithPage 98
________________ वकचूलप्रबन्धः। १६. अथ वङ्कचूलप्रबन्धः । २०२, पारेतजनपदान्तश्चर्मण्वत्यास्तटे महानद्याः । नानाघनवनगहना जयत्यसौ ढींपुरीति पुरी ॥१॥ ६९४) अत्रैव भारते वर्षे विमलयशा नाम भूपतिरभूत्। तस्य सुमङ्गलदेव्या सह विषयसुखमनुभवतः क्रमाजातमपत्ययुगलम् । तत्र पुत्रः पुष्पचूलः, पुत्री पुष्पचूला । अनर्थसार्थमुत्पादयतः पुष्पचूलस्य कृतं लोकैर्वकचूल' इति नाम । महाजनोपलब्धेन राज्ञा रुषितेन निःसारितो नगरा-5 द्वङ्कचूलः । गच्छंश्च पथि पतितो भीषणायामटव्यां सह निजपरिजनेन स्वस्रा च स्लेहपरवशया। तत्र च क्षुत्पिपासार्दितो दृष्टो भिल्लैः। नीतः स्वपल्ल्याम् , स्थापितश्च मृतपूर्वपल्लीपतिपदे । पर्यपालयद्राज्यम् । अलुण्ठयद् ग्रामनगरसार्थादीन् । अन्यदा सुस्थिताचार्या अर्बुदाचलादष्टापदयात्रायै प्रस्थितास्तामेव सिंहगुहां नाम पल्लीं सगच्छाः प्रापुः । जातश्च वर्षाकालः। अजनि पृथिवी जीवाकुला । साधुभिः सहालोच्य मार्गयित्वा वङ्कचूलादसतिं स्थिता तत्रैव सूरयः। 10 तेन च प्रथममेव व्यवस्था कृता-मम सीमान्तर्धर्मकथा न कथनीया । यतो युष्मत्कथायां अहिंसादिको धर्मः। न चैवं मम लोको निर्वहति । एवमस्तु इति प्रतिपद्य तस्थुरुपाश्रये गुरवः । 'वङ्कचूलेनाह्रय सर्वे प्रधानपुरुषा भणिता:-अहं राजपुत्रस्तन्मत्समीपे ब्राह्मणादय आगमिप्यन्ति । भवद्भिर्जीववधो मांसमद्यादिप्रसङ्गश्च पया मध्ये न कर्त्तव्यः । एवं कृते यतीनामपि भक्तपानमजुगुप्सितं कल्पत इति । तैस्तथैव कृतं यावच्चतुरो मासान् । प्राप्तो विहारसमयः । 15 अनुज्ञापितो वङ्कचूलः सूरिभिः। २०३. समणाणं सउणाणं भमरकुलाणं च गोकुलाणं च । अनिआओं वसहीओं सारईआणं च मेहाणं ॥२॥ इत्यादि वाक्यैः। ततस्तैः सह चलितो वङ्कचूलः । खसीमां प्रापुषा तेन विज्ञप्तम्-वयं परकीयसीमां न प्रविशाम इति । सूरिभिर्भणितः-वयं सीमान्तरमुपेतास्तत् किमप्युपदिशामस्तुभ्यं [ दाक्षिण्यात् ] तेनोक्तम्-यन्मयि निर्वहति तदुपदेशेनानुगृह्यतामयं जनः । ततः सूरिभि-20 श्चत्वारो नियमा दत्ताः । तद्यथा-अज्ञातफलानि न भोक्तव्यानि १। सप्ताष्टानि पदान्यपसृत्य घातो देयः २। पट्टदेवी नाऽभिगन्तव्या ३ । काकमांसं न भक्षणीयमिति ४ । प्रतिपन्नास्तेन ते । गुरून् प्रणम्य 'स्वगृहमगमत् । अन्यदा गतः सार्थस्योपरि धाट्या । शकुनकारणान्नागतः सार्थः । त्रुटितं च तस्य पथ्यदनम् । पीडिताः क्षुधा राजन्याः। दृष्टश्च तैः किम्पाकतरुः फलितः। गृहीतानि फलानि । न जानन्ति ते नामधेयमिति तेन न भुक्तानि । इतरैः सर्वैर्बुभुजिरे । मृताश्च 25 ते किम्पाकफलैः। ततश्चिन्तितं तेन-अहो ! नियमानां फलम् । तत एकाक्येवागतः पल्लीम् । रजन्यां प्रविष्टः स्वगृहम् । दृष्टा पुष्पचूला दीपावलोकेन पुरुषवेषा निजपल्या सह प्रसुप्ता। जातश्च कोपस्तयोरुपरि । द्वावप्येतो खड्गप्रहारेण छिनमीति यावदचिन्तयत्तावत्स्मृतो नियमः। ततः सप्ताष्ट पदान्यपक्रम्य' घातं ददतः खाट्कृतमुपरि खड्गेन । व्याहृतं स्वस्रा-जीवतु वङ्कचूलः। इति तद्वचः श्रुत्वा लज्जितोऽसावपृच्छत्-किमेतदिति ? । साऽपि नटवृत्तान्तमचीकथत् । कथं ?-30 भ्रातः ! अत्र प्रतिभूपतेर्नटवेषधराश्चरा आगच्छन् । यदि पल्लयां वङ्कचूलोऽस्ति तदाऽस्माकं __1A चूड। 2 A नास्ति 'वंकचूलेन'। 3 AE तत्समीपे। 4 P ते। 5 P पुस्तक एवैतत्पदं दृश्यते। 6 CP स्वस्व गृ०। 7 BC पदान्यपसृत्य । 8P 'कथं नास्ति । For Private & Personal Use Only Jain Education Intemational www.jainelibrary.orgPage Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176