Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 96
________________ ७३ सातवाहनप्रबन्धः। जातः। चतस्रोऽपि वर्दापनिका दत्ताः मापालेन । तेन प्रमोदेनास्य महोन्माद उत्पन्नः । ततो मेलयित्वा लोकं हयारूढो गोदावरीतीरमुपेत्य, तां जगाद तारतरखरम्१९८. सच्चं भण गोदावरि ! पुश्वसमुद्देण साहिया संती । सालाहणकुलसरिसं जइ ते कूले कुलं अस्थि ॥ २ ॥ १९९. उत्तरओ हिमवंतो दाहिणओ सालवाहणो राया । समभारभरकंता तेण न पल्लत्थए पुहवी ॥३॥ तादृशं तस्य गर्वमीक्षमाणा महामन्त्रिणोऽन्योन्यं मन्त्रयामासुः-नृपः श्रिया तरलितः। ततो' 5 २००. जितश्चेत्पुरुषो लक्ष्म्या, हृतं लोकद्वयं ततः । जिता चेत्पुरुषेणैषा जितं लोकद्वयं ततः ॥ ४॥ तस्मादस्य दुःखोत्पादनेन मदगदोच्छेदः कर्तुमर्हः । इत्यालोच्य राजानं व्यजिज्ञपत्-देव ! ललाटंतपतपनः कालः, भोजनावसरो वर्तते। पादोऽवधार्यतां सौधायेत्युदित्वा सौधमानैषुः । तत्रापि मदात् स्तम्भादीनि कुट्टयति । ततो मन्त्रिभिः खरमुखं वीरोत्तंसं छन्नीकृत्य राज्ञे उक्तम्देव ! खरमुखः सद्यो व्याधिना द्यामगमत् । अथ तच्छ्रवणे क्षमापो दुःखाच्छोकान्मदमहासीत् । 10 शोकात्तु वैकल्यमचकलत् । अथामात्यैर्विज्ञप्तम्-प्रजेश्वर ! विदेशादायातैर्मृतजीवन विद्याविदुरैः खरमुखो जीवितः । यद्यादेशः स्यात् तदा पदकमलयुगलतले लोठ्यते । इत्युक्ते सुस्थो जातः । दृष्टः खरमुखः। सुष्टु तुष्टो राजा । एवं तस्योदयः। ६९१) अन्यदासोऽसौ गोदावरीतीरे क्रीडति । तदैकेन मीनेन जलाबहिर्मुखं निष्कास्य हसितम् । भीतश्चमत्कृतश्च भूपः। रात्रौ ध्यानाकृष्टाऽऽयाता ब्राह्मी पृष्टा-देवि ! मीनः किमर्थं 15 हसति? । ब्राह्याह-वत्स! प्राग्भवे त्वमन्त्रैव पुरे काष्ठभारहारक आसीः। स च मध्याहे काष्ठकष्टार्जितधनकीतान् सक्तून् उष्णोदकविलोडितान् मासक्षपणिकऋषये मुदा ददे । तेन पुण्येन त्वं सम्राडवातारीः । तदेकस्तत्रत्यो व्यन्तरो वेत्ति । तेन मीने सङ्क्रम्य हसितं त्वया दृष्टम् । राजाहहासस्य को भावः । ब्राह्मी वक्ति-अयं भावः-अयं दानादाप्तर्द्धिः, पुनर्दाने मन्दादरः। धिगात्मकार्यमूढं जीवलोकमिति । सातवाहनो जल्पति-तस्य व्यन्तरस्य मचर्चया किं कार्यम् ? 120 ब्रायाह-प्राग्भवेऽयं तवैव सखाऽभूत् । तेन तु' कृपणत्वात्किमपि न दत्तम् । केवलं त्वद्दत्तमेव किश्चिदनुमोदितम् । तेन पुण्येन व्यन्तरत्वेनावतीर्णोऽयम् । ततस्त्वयि हितार्थित्वमस्य । मां च त्वन्मत्रशक्तिसमाकृष्टिप्रत्यक्षां त्वन्मातृकल्पां जानाति । ततस्तथाऽहसदिति विद्धि । न्तज्ञानादवनीशो वदान्यत्वं सुष्ठाददे। ब्राह्मी-श्रीदत्तशब्दवेधरससिद्धरिच्छादानी मानी जैनः । ६९२) इत्थंकारं नानाविधान्यवदातानि हालक्षितिपालस्य कियन्ति नाम वर्णयितुं पार्यन्ते । 25 स्थापितश्चानेन गोदावरीतीरे महालक्ष्मीप्रासादः । अन्यान्यपि च यथार्ह दैवतानि निवेशितानि तत्तत्स्थानेषु । राज्यं प्राज्यं चिरं भुञ्जाने जगतीजानौ, अन्यदा कश्चिद्दारुभारहारकः कस्यचिद्वाणिजस्य वीथौ प्रत्यहं चारूणि दारूण्याहृत्य विक्रीणीते स्म। दिनान्तरे च तस्मिन्ननुपेयुषि वणिजा तद्भगिनी पृष्टा"-किमर्थं भवद्भाताऽद्य नागतो मद्वीभ्याम् ? । तया बभणे-श्रेष्ठिश्रेष्ठ! मत्सोदय: खर्गिषु सम्प्रति प्रतिवसति । वणिगभणत्-कथमिव ? । सावदत्-कङ्कणबन्धादारभ्य विवाह-30 प्रकरणे दिनचतुष्टयं नरः खर्गिष्विव वसन्तमात्मानं मन्यते । तत्तदुत्सवालोकनकौतूहलात् । तचाकर्ण्य राजाऽप्यचिन्तयत्-अहो ! अहं स्वर्गिषु किं न वसामि । चतुर्षु चतुर्पु दिनेषु अनवरतं 1 P नास्ति 'ततो'। 2P जीवनविदुरैः। 3 BE लोट्यते; P लोच्यते। 4 तदैकः। 5 P हसितः। 6P भूपोऽभूत् । 7 P नास्ति 'तु'। 8 P स्थापिता। 9 P महालक्ष्मीः प्रासादे। 10 P भगिन्यापृष्टा । प्र० को १० Jain Education Intemational www.jainelibrary.org For Private & Personal Use Only For Private & Personal Use Only

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176