Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 94
________________ सातवाहनप्रबन्धः। तत्रस्थं महालक्ष्मीदेव्या भवनं प्रविष्टौ । तत्र शूद्रकस्तां देवीमभ्यर्च्य कुशस्रस्तरासीनस्त्रिरात्रमुपावसत् । तदनु प्रत्यक्षीभूय भगवती महालक्ष्मीस्तमवोचत्-वत्स! किं मृगयसे ?। शूद्रकेणोक्तम्-स्वामिनि ! सातवाहनमहीपालमहिष्याः शुद्धिं वद । *कास्ते केनेयमपहृता ?। श्रीदेव्योदितम्-सर्वान् यक्षराक्षसभूतादिदेवगणान् सम्मील्य तत्प्रवृत्तिमहं निवेदयिष्यामि । परं तेषां कृते त्वया बल्युपहारादि प्रगुणीकृत्य धार्यम् । यावच्च ते कणेहत्य बल्यादि उपभुज्य प्रीता न 5 भवेयुस्तावत्त्वया विघ्ना रक्षणीयाः। ततः शूद्रको देवतानां तर्पणार्थ कुण्डं विरचय्य होममारेभे। मिलिताः सकलदैवतगणाः। खां खां भुक्तिमग्निमुखेन जगृहिरे । तावत्तद्धोमधूमःप्रसमरः प्राप तत्स्थानं यत्र मायासुरोऽभूत् । तेनापि ज्ञातलक्ष्म्यादिष्टशूद्रकहोमस्वरूपेण प्रेषितः खभ्राता कोल्लासुरनामा होमप्रत्यूहकरणाय । समागतश्च वियति कोल्लासुरः खसेनया समम् । दृष्टस्तहैवतगणैः । चकितं च तैः । ततो भषणौ दिव्यशक्त्या युयुधाते दैत्यैः सह । क्रमान्मारितौ च तौ 10 दैत्यैः । ततः शूद्रका खयं योद्धं प्रावृतत् । क्रमेण दण्डव्यतिरिक्तप्रहरणान्तराभावाद्दण्डेनैव बहूनिधनं नीतवानसुरान् । ततो दक्षिणबाहुं दैत्यास्तस्य चिच्छिदुः। पुनर्वामदोष्णैव दण्डयुद्धमकरोत् । तस्मिन्नपि छिन्ने दक्षिणांहिणोपात्तदण्डो योर्बु लग्नः । तत्रापि दैत्यैर्टूने वामपादात्तयष्टिरयुध्यत । तमपि क्रमादच्छिदन्नसुराः। ततो दन्तैर्दण्डमादाय युयुधे । ततस्तैर्मस्तकमच्छेदि। अथाकण्ठतृप्ता दैवतगणास्तं शूद्रकं भूमिपतितशिरस्कं दृष्ट्वा-अहो! अस्मद्भुक्तिदातुर्वराकस्यास्य किं 15 जातम् । इति परितप्य योद्धं प्रवृत्ताः। कोल्लासुरममारयत् । ततः श्रीदेव्याऽमृतेनाभिषिच्य पुनरनुसंहिताङ्गश्चक्रे शूद्रकः, प्रत्युज्जीवितश्च । तस्य सारमेयावपि पुनर्जीवितौ । देवी च प्रसन्ना सती तस्मै खगरत्नं प्रादात् । अनेन त्वमजय्यो भविष्यसीति च वरं व्यतरत् । ततो महालम्यादिदैवतगणैः सह सातवाहनदेव्याः शुद्ध्यर्थं समग्रमपि भुवनं परिभ्रम्य प्राप्तः शूद्रको महार्णवम् । तत्र चैकं वटतरुमुच्चैस्तरं निरीक्ष्य विश्रामार्थमारुरोह यावत्, 'तावत्पश्यति तच्छा-20 खायां लम्बमानमधःशिरसं काष्ठकीलिकाप्रवेशितोद्भुपादं पुरुषमेकम् । स च प्रसारितजिह्वोऽन्तर्षीरं विचरतो जलचरादीन् भक्षयन् वीक्षितस्तैः । पृष्टश्च शुद्रकेण-कस्त्वम् ?, किमर्थं चेत्थं लम्बितोऽसि ? । तेनोक्तम्-अहं मायासुरस्य कनिष्ठो भ्राता । स च मदनोन्मदिष्णुर्मदग्रजः प्रतिष्ठानाधिपतेः सातवाहनस्य नृपतेर्महिषीं रिरंसुरपाहरत् सीतामिव दशवदनः । सा च पतिव्रता तन्नेच्छति । तदनुप्रोक्तो अग्रजन्मा-न युज्यते परदाराऽपहरणं तव । __ १९७. विक्रमाक्रान्तविश्वोऽपि परस्त्रीषु रिरसया । कृत्वा कुलक्षयं प्राप नरकं दशकन्धरः ॥ १॥ इत्यादिवाग्भिनिषिद्धः क्रुद्धो मह्यं मायासुरोऽस्यां वटशाखायां टङ्कित्वा मामित्थं व्यडम्बयत् । अहं च प्रसारितवदनः समुद्रान्तः सञ्चरतो जलचरादीनभ्यवहरन् प्राणयात्रां करोमि । इति श्रुत्वा शुद्रकोऽप्यभाणीत्-अहं तस्यैव महीभृतो भृत्यः शुद्रकनामा तामेव देवीमन्वेष्टुमागतोऽस्मि । तेनोक्तम्-एवं चेत्तर्हि मां मोचय, यथाऽहं सह भूत्वा तं दर्शयामि, तां च देवीम् ।30 तेन खस्थानं परितो जातुषं दुर्ग कारितमस्ति । तच्च निरन्तरं प्रज्वलदेवास्ति ततो 'दुर्लङ्ग्यम् । तन्मध्ये प्रविश्य तं निपात्य देवी प्रत्याहर्तव्या। इत्याकर्ण्य शूद्रकस्तेन कृपाणेन तत्काष्ठबन्धनानि च्छित्त्वा तं पुरोधाय, दैवतगणपरिवृतः प्रस्थाय, प्राकारमुल्लङ्घय तत्स्थानान्तः प्राविशत् । दैवत * A आदर्श नास्ति एतद् वाक्यम् । 1 P दृष्टः स्वदैवत.। 2 'तस्य' नास्ति P1 3A अदात् । 4 A नास्ति तावत्' । 5P वान्छनपाहरत् । 6P प्रसारितरसनः। 7 P ततस्तदुलंध्य। 8A तत्कष्ट ।। 25 Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176