Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 97
________________ प्रबन्धकोशे विवाहोत्सवमय एव स्थास्यामि । इति विचार्य चातुर्वर्ण्य यां यां कन्यां युवतिं रूपशालिनीं पश्यति शृणोति स्म 'च, तां तां सोत्सवं पर्यणैषीत् । एवं च भूयस्यनेहसि गच्छति लोकैश्चिन्तितम् - अहो ! कथं भाव्यमनपत्यैरेव सर्ववर्णैः स्थेयम् । सर्वाः कन्यास्तावद्राजैव विवोढा । योषिदभावे च कुतः सन्ततिरिति । एवं विषण्णेषु लोकेषु विवाहवाटिकानाम्नि ग्रामे वास्तव्य 5 एकोद्विजः पीठजां देवीमाराध्य व्यजिज्ञपत्-भगवति ! कथं विवाहकर्माऽस्मदपत्यानां भावीति । देव्योक्तम्- भो वाडव ! त्वद्भवनेऽहमात्मानं कन्यारूपं कृत्वाऽवतरिष्यामि । यदा मां राजा प्रार्थयते तदाऽहं तस्मै देया । शेषमहं भलिष्ये । तथैव राजा तां रूपवतीं श्रुत्वा विप्रमयाचत । सोsपि जगाद - दत्ता मया । परं महाराज ! खयमन्त्रागत्य मत्कन्योद्वोढव्या । प्रतिपन्नं राज्ञा । गणकदत्ते लग्ने क्रमाद्विवाहाय प्रचलितः । प्राप्तश्च तं ग्रामं श्वशुरकुलमवनिपतिः । देशानुरोधा10 द्वधूवरयोरन्तराले जवनिका दत्ता । अञ्जलिर्युगन्धरीलाजैर्भृतः । लग्नवेलायां तिरस्करिणीमपनीय यावदन्योऽन्यस्य शिरसि लाजान्वितरीतुं प्रवृत्तौ तदनु किल हस्तमेलापो भविष्यतीति, तावद्राजा तां रौद्ररूपां राक्षसीमिवैक्षिष्ट । ते च लाजाः कठिनकर्करपाषाणरूपा राज्ञः शिरसि लगितुं लग्नाः । क्षितिपतिरपि किमपि वैकृतमिदमिति विभावयन् पलायितः । तावत्सा पृष्ठलग्नाऽश्मशकलानि वर्षन्ती प्राप्ता । ततो नरपतिर्नागदं प्राविशन्निजजन्मभूमिम् । तत्रैव च 15 निधनमानशे । अद्यापि सा पीठजा देवी प्रतोल्या बहिरास्ते निजप्रासादस्था । शूद्रकोऽपि क्रमेण कालिकादेव्याऽऽजारूपं विकृत्य वापीं प्रविष्टया करुणरसितेन विप्रलब्धस्तन्निष्कासनार्थं प्राविशत् । पतितस्य तस्य कृपाणस्य कृपद्वारे तिर्यक्पतनाच्छिन्नाङ्गः पञ्चतामानश्च । महालक्ष्म्या हि वरवितरणावसरे - अस्मादेव कौक्षेयकात्तवदिष्टान्तावाप्तिर्भवित्री त्यादिष्टमासीत् । ७४ ९९३) ततः शक्तिकुमारो राज्येऽभिषिक्तः सातवाहनायनिः । तदनन्तरमद्यापि राजा न 20 कश्चित्प्रतिष्ठाने प्रविशति 'वीरक्षेत्र इति । अत्र च यदसम्भाव्यं कचिद् गर्भे, तत्र परसमय एव मन्तव्यो हेतुः * । यन्नासङ्गतवाग्जनो जैनः । श्रीवीरे शिवं गते ४७० विक्रमाक राजा तत्कालीनोऽयं सातवाहनस्तत्प्रतिपक्षत्वात् । यस्तु कालिकाचार्य पार्श्वात् पर्युषणामेकेनाहा अर्वागानाययत्, सोऽन्यः सातवाहन इति सम्भाव्यते । अन्यथा २०१. नवसयतेणउएहिं समइक्कंतेहिं वीरमुक्खाओ । पज्जोसवणचउत्थी कालयसूरीहिं तो ठविआ ॥ ५ ॥ 25 इति चिरत्नगाथाविरोधप्रसङ्गात् । न च सातवाहनक्रमिकः सातवाहन इति विरुद्धम् । भोजपदे बहूनां भोजत्वेन, जनकपदे बहूनां जनकत्वेन रूढत्वात् । ॥ इति सातवाहनप्रबन्धः समाप्तः ॥ १५ ॥ 1P नास्ति 'च' । 2 P करिष्ये । 3 एतत्पाठस्थाने P पुस्तके 'अस्माद्देवखड्गात्तव मरणं भावी०' एतादृशः पाठः प्राप्यते । 4 P पुस्तके 'सातवाहनस्य निसूदनान्तर' एतादृशो भ्रष्टः पाठो विद्यते । 5P वीरक्षेत्रत्वात् । 6 BP यदसद्भाव्यं । * A आदर्शों ' मन्तव्यो हे वर्य नासंगत०' एषः पाठः । 7 P राजाऽभवत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176