Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith
________________
प्रबन्धकोशे स्थापितश्च सामन्तपदे। देवी विडम्ब्यमाना रक्षिता वङ्कचूलेन । अहो! नियमानां शुभं फलमिति अनवरतमयमध्यासीत्। प्रेषितश्चान्यदा राज्ञा कामरूपभूपसाधनार्थ । गतो युद्धे घातैर्जर्जरितो विजित्य तमागमत्स्वस्थानम् । व्याहृताश्च राज्ञा वैद्याः। यावद्रुद्धोऽपि घातव्रणो विकसति । तैरुक्तम्-देव! काकमांसेन शोभनो भवत्ययम् । तस्य च जिनदासश्रावकेण साई प्रागेव 5 मैत्र्यमासीत् । ततस्तदानयनाय प्रेषितः पुरुषः पुरुषाधिपतिना, येन तद्वाक्यात् काकमांस भक्षयतीति । तदाऽऽहूतश्च जिनदासोऽवन्तीमागच्छन्नुभे दिव्ये सुदत्यौ रुदत्यावद्राक्षीत् । तेन पृष्टेकिं रुदिथः । ताभ्यामुक्तम्-अस्माकं भर्ता सौधर्माच्च्युतः। अतो राजपुत्रं वङ्कचूलं प्रार्थयावहे । परं त्वयि गते स मांसं भक्षयिता । ततो दुर्गतिं गन्ता । तेन रुदिवः । तेनोक्तम्-तथा करिष्ये
यथा तन्न भक्षयिता। गतश्च तत्र राज्ञोपरोधाद्वङ्कचूलमवोचत्-गृहाण बलिभुपिशितम् । पटू10 भूतः सन् प्रायश्चित्तं चरेः । वङ्कचूलोऽवोचत्-जानासि त्वं यदाचर्याप्यकार्य प्रायश्चित्तं ग्राह्यम् , ततः प्रागेव तदनाचरणं श्रेय इति ।
'प्रक्षालनाद्धि पकस्य दूरादस्पर्शनं वरम्' इति वाक्यानिषिद्धो नृपतिः। विशेषप्रतिपन्नव्रतनिवहश्चाच्युतकल्पमगमत् । वलमानेन जिनदासेन ते देव्यौ तथैव रुदत्यौ दृष्ट्वा प्रोक्तम्-किमिति रुदिथः । न तावत्स मांसं ग्राहितः। ताभ्यां 15 अभिदधे-स ह्यधिकाराधनावशादच्युतं प्राप्तः। ततो नाभवदस्मद्भूर्तेति। एवं जिनधर्मप्रभावं सुचिरं विभाव्य जिनदासः खावासमाससादेति । अस्य दिपुरीतीर्थस्य निर्मापयिता वङ्कचूलः।
॥ इति वङ्कचूलप्रबन्धः ॥ १६॥
१७. अथ विक्रमादित्यप्रबन्धः। ६९८) विक्रमादित्यपुत्रं विक्रमसेनराजानं प्रति पुरोधसाऽऽशीर्दत्ता-यत्त्वं पितुर्विक्रमादित्याद20धिको भूयाः। तदा देवताधिष्ठिताभिः सिंहासनस्थाभिश्चतसृभिः काष्ठपुत्रिकाभिर्हसितम्।। तदा विक्रमसेनेन पृष्टाः पुत्रिका:-किमिति हस्यते ?। ताः प्रोचुः तेन सह समत्वमपि न घटते, कुतो नामाधिक्यम् ।
आद्याह-अवन्त्यां विक्रमो राजा अपूर्वसत्यवार्ताकथकाय दीनारपञ्चशती दत्ते । एवं श्रुत्वा 'खर्परकचौरेण दीनारपञ्चशती याचिता। वार्ता चैका कथिता । यथा-गन्धवहश्मशानसमीपे 25 पातालविवरकूपे मया दीपो देवीहरसिद्धिप्रेषितः पतन् दृष्टः । मयापि तत्पृष्टे झम्पापितम् । पाताले तत्र दिव्यं सौधं दृष्टम् । तत्र तैलकटाहिका ज्वलन्ती दृष्टा । तत्पार्चे एको नरो दृष्टः। पृष्टश्च-किमर्थं त्वमिह ? । तेनोक्तम्-अत्र सौधे शापभ्रष्टा दिव्यकन्याऽस्ति । सा ब्रूते 'यस्तैलकटाहिकायां झम्पां दाता स मे वर्षशतं पतिर्भविता ।' अतोऽहमेतत्पतित्वार्थमत्र तिष्ठामि । परं साहसं नास्ति । इति वार्तया पञ्चशती लब्धा । तेन खर्परेण समं राजापि तत्र गतो विवरेण ।
1P रूढो। 2 A ततो। दण्डान्तर्गतपाठस्थाने ABE आदर्श' 'चतसृभिवारांगनाभिर्हसितं देवताधिष्ठिताभिः सिंहासनस्थिताभिः' एतादृशः पाठभेदः। 3A शतं। 4 AB कर्परक०। 5A तन्न । 6A कर्परचोरेण ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
ucation Intermational
For Private & Personal Use Only
Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176