Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 95
________________ ७२ प्रबन्धकोशे गणांश्चालोक्य मायासुरः खसैन्यं युद्धाय प्रजिघाय । तस्मिन्पश्चतामश्चिते खयं योद्धमुपतस्थे । ततः क्रमेण शूद्रकस्तेनासिना तमवधीत् । ततो घण्टावलम्बिविमानमारोप्य दैवीं दैवतगणैः सह प्रस्थितः प्रतिष्ठानं प्रति । इतश्च, दशमं दिनमवधीकृतमागतमवगत्य जगत्यधिपतिर्ध्यातवान्-अहो! मम न महादेवी,न 5च शुद्रकवीरो, न चापि तौ रसनालिहौ; सर्व मयैव कुबुद्धिना विनाशितम् । इति शोचनात्सपरिच्छद एव प्राणत्यागचिकी' पुरावाहिश्चितामरचयचन्दनादिदारुभिः । यावत्क्षणादाशुशुक्षार्णि क्षेप्स्यति परिजनश्चितायाम्', तावद्वर्धापक एको देवगणमध्यात्समायासीत् । व्यजिज्ञपच सप्रश्रयम्-देव! दृिष्ट्या वर्द्धसे महादेव्यागमनेन । तन्निशम्य श्रवणरम्यं नरेश्वरः स्फुरदानन्दकन्दलितहृदय ऊर्ध्वमवलोकयन्नालुलोके नभसि दैवतगणं शूद्रकं च । अयमपि विमानादवतीर्य राज्ञः 10 पदोरपतत् महादेवी च । अभिननन्द सानन्दं मेदिनीन्दुः शूद्रकम् । राज्याई तस्मै प्रादिशत् । सोत्सवमन्तनगरं प्रविश्य श्रुतशुद्रकचारुचरितः सह महिष्या राज्यश्रियमुपबुभुजे महाभुजः। ६८९) तस्य च सातवाहनस्य चन्द्रलेखाद्याः पश्चशतानि पल्यः । सर्वा अपि षड्भाषाकवित्वविदः। राजा पुनरनधीतव्याकरणः। आगत उष्णकालः। आरब्धा जलकेलिः। चन्द्रलेखा शीतालु: शीतं न सहते । नृपस्तु प्रेम्णा शृङ्गकजलैस्तामनवरतं सिश्चते । ततः सा संस्कृतेन प्राह-देव! मां 15 मोदकैः पूरय । हालस्तु तत्संस्कृततत्त्वमनवगच्छन् मोदकनाम श्रुत्वा दास्याः पार्थान्मोदकपटलिकामानीनयत्। चन्द्रलेखा तां दृष्ट्वा पतिमतिभ्रमदर्शनादहसीत्-अहो! महाराजस्य शास्त्रोत्तेजितमतिव्यापः । राज्ञाऽप्युपहासो ज्ञातः । पृष्टा राज्ञी-किमर्थं वयमुपहस्यामहे ? । राज्ञी जगादअन्यार्थस्थानेऽन्यार्थावबोधादुत्पासितोऽसि प्रिय !। लजितो राजा । सद्यो विद्यार्थं भारती त्रिरात्रोपवासेनाराध्य प्रत्यक्षीकृत्य तद्वरान्महाकविर्भूत्वा सारस्वतव्याकरणादिशास्त्रशतान्य20 चीकृपत् । तस्येश्वरस्य गुणकृत्वों' भारती देवताऽवसरेऽवतीर्याह । एकदा भारतीमभ्यार्थयत सकलमपि पुरं आद्ययामाईमहः कविरूपं भवतु । तथैव कृतं देव्या । एकस्मिन् दिने दशकोटयो गाथाः सम्पन्नाः। 'सातवाहनकशास्त्र' तत्कृतम् । ६९०) तस्य चोर्वीपतेः खरमुखो नाम दण्डनाथः शूरो भक्तः प्राज्ञः पुण्याख्यः आरम्भसिद्धः। एकदा हालेनादिष्टं खरमुखाय-मथुरा लाहि। आदेशः प्रमाणमित्युक्त्वा बहिर्व्यापारिणां पार्श्वमेत्य 25 राजादेशमचकथत् । व्यापारिभिः प्रोक्तम्-खरमुख ! दे मथुरे स्तः। एका दक्षिणमथुरा पाण्डवकृता । अपरा पूर्वमथुरा यगोष्ठे कृष्णः समुत्पन्नः। यत्र वृन्दावनादीनि वनानि । द्वयोर्मध्यात्का मथुरा ग्राह्येति पृच्छ । खरमुखेनोक्तम्-प्रतापमार्तण्डं तं कः प्रष्टुमीष्टे । वक्ष्यति हि-रे! मम चेतो न जानीथ ? । तस्य च प्रकोपः सद्यः प्राणहरः। दे अपि मथुरे ग्रहीष्यामः । सैन्यं द्विखण्डं कृत्वा द्वे मथुरे एकस्मिन्नेव मध्याह्ने खरमुखेन जगृहाते । तत्पुरीद्वयग्रहणव पनिकामुखौ द्वौ नरौ 30 आगमताम् । यावत्प्रमोदात्तौ नृपतिरालपति तावत्तृतीय एक आगात् । स उवाच-देव ! भव त्काराप्यमाणजैनप्रासादभूमितलेऽक्षयो निधिः प्रादुर्बभूव दिष्ट्या । यावत्तदभिमुखमीक्षते, तावदेव दासी प्रेममञ्जूषा शुद्धान्तादायासीत्। स्वामिन् ! देव्या चन्द्रलेखया सर्वाङ्गलक्षणः सुतो 1A चिकीर्षुः । 2A 'चितायाम्' नास्ति; BED परिजनश्च तौ। 3 Pमतिश्रमः। 4 P हसितोऽसि। 5A विद्याभारती प्रति; BE विद्यावर्ष भारती प्रति। 6P चीकरत् । 7A गुणाकृष्टा। 8 Poभ्यर्थयत् । 9A आदिश० । 10P आयाती। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176