Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 92
________________ सातवाहनप्रबन्धः । सितचमत्कृतचेताः क्षोणिनेता शूद्रकं सुतरां सत्कृत्य पुरारक्षकमकरोत् । शस्त्रान्तराणि प्रतिषिध्य दण्डधारस्तस्य दण्डमेवायुधमन्वज्ञासीत् । शूद्रको बहिश्चरान् वीरान् पुरमध्ये प्रवे. टुमपि न दत्तवान् , अनर्थनिवारणार्थम् ।। ६८८) अन्यदा खसौधस्योपरितले शयानः सातवाहनक्षितिपतिमध्यरात्रे शरीरचिन्तार्थमुत्थितः । पुराबहिःपरिसरे करुणं रुदितमाकर्ण्य तत्प्रवृत्तिमुपलब्धुं कृपाणपाणिः परदुःख- 5 दुःखितहृदयतया गृहान्निरगात् । अन्तराले शूद्रकेणावलोक्य सप्रश्रयं प्रणतः, पृष्टश्च महानिशायां निर्गमनकारणम् । धरणीपतिरवदत्-यदयं बहिःपुरपरिसरे करुणकन्दितध्वनिः श्रवणाध्वनि पथिकीभावमनुभवन्नस्ति । तत्कारणप्रवृत्तिं ज्ञातुं व्रजन्नस्मि-इति राज्ञोक्ते शुद्रको व्यजिज्ञपत्-देव! प्रतीक्ष्यपादैः खसौधालङ्करणाय पादोऽवधार्यताम् । अहमेव 'तत्प्रवृत्तिमानेष्यामि । इत्यभिधाय वसुधानायकं व्यावर्त्य स्वयं रुदितध्वन्यनुसारेण पुरावहिर्गन्तुं 10 प्रवृत्तः। पुरस्ताद् व्रजन् दत्तकर्णो गोदावर्याः स्रोतसि कञ्चन रुदन्तमौषीत् । ततः परिकरबन्धं विधाय शुद्रकस्तीवा यावत्सरितो मध्यं प्रयाति; तावत्पयःपूरप्लाव्यमानं नरमेकं रुदन्तं वीक्ष्य बभाषे-भोः! कस्त्वम् ?, किमर्थं च रोदिषि ?। इत्यभिहितः स नितरामरुदत् । अति निर्बन्धेन पुनः पृष्टः स्पष्टमाचष्ट-भो साहसिकशिरोमणे! मामितो निष्कास्य भूपतेः समीपं प्रापय, येन तत्र खवृत्तमाचक्षे। इत्युक्तः शुद्रकस्तमुत्पाटयितुं यावदयतिष्ट तावन्नो-15 पटति स्म सः। ततोऽधस्तात्केनापि यादसा मा' विधृतोऽयं भवेद्-इत्याशङ्कय सद्यः कृपाणिकामधो वाहयामास शुद्रकः। तदनु शिरोमात्रमेव शूद्रकस्योद्धत्तुः करतलमारोहत् लघुतया । "तच्छिरःप्रक्षरद्रुधिरधारमवलोक्य शूद्रको विषादमाप । 'ततश्चिन्तयति स्म-धिर ! मामप्रहर्तरि प्रहारं शरणागतघातकं च" । इत्यात्मानं निन्दन वज्राहत इव क्षणं मूर्च्छितस्तस्थौ । तदनु समधिगतचैतन्यश्चिरमचिन्तयत्-कथमिवैतत्सुदुश्चेष्टितमवनिपतये निवेदयिष्यामि । इति लजि-20 तमनास्तत्रैव काष्टैश्चितां विरचय्य तत्र ज्वलनं प्रज्वाल्य तच्छिरः सह गृहीत्वा यावदुदर्चिषि प्रवेष्टुं प्रववृते तावत्तेन मस्तकेन निजगदे-भो महापुरुष ! किमर्थमित्थं व्यवसीयते भवता? । "यावदहं शिरोमात्रमेवास्मि सैं हिकेयवत् सदा । तद् वृथा मा विषीद। प्रसीद, मां राज्ञः समीपमुपनय । इति तद्वचनं निशम्य चमत्कृतचित्तः प्राणित्ययमिति प्रहृष्टः शुद्रकस्तच्छिरः पदां ष्टितं विधाय प्रातः सातवाहनमुपागमत । अपृच्छदथ' पृथिवीनाथ:-शद्रक! किमिदम् ?125 सोऽप्यवोचत्-देव! सोऽयं यस्य ऋन्दितध्वनिर्देवेन रात्रौ शुश्रुवे । इत्युक्त्वा तस्य प्रागुक्तं वृत्तं सकलमावेदयत् । पुना राजा तमेव मस्तकमप्राक्षीत्-कस्त्वं भो!, किमर्थं चात्र भवदागमनमिति?। तेनाभिदधे-महाराज ! भवतः कीर्तिमुभाकर्णि समाकर्ण्य करुणरुदितव्याजेनात्मानं ज्ञापयित्वा "त्वामहमुपागमम् । दृष्टश्च भवान् । कृतार्थे मेऽद्य चक्षुषी जाते इति । कां कलां सम्यगवगच्छसि ?-इति राज्ञ आज्ञया निरवधि" गीतं गातुं प्रचक्रमे । क्रमेण तद्गानकलया30 मोहिता सकलापि नृपतिप्रमुखा परिषत् । स च मायासुरनामकोऽसुरस्तां मायां निर्माय महीए 1A दुःस्थित। 2 AB निरगमत् । 5A निर्गमकाः। 4 P अहमपि प्र०। 5 P इति। 6P नास्ति 'पृष्टः' । 7P'मा' नास्ति। 8 P.तया शिरः। 9P मापनश्चिन्तयति। 10P विहाय नास्स्यन्यत्रेदं पदम् । 11A घातकमवेस्यात्मानं। 12 'व्यवसीयते' स्थाने 'करोषि' P पुस्तके। 13 ‘भवता यावदु' नास्ति P पुस्तके। 14 P राहुवत् । 15 P नास्ति 'अथ'। 16P कीर्तिमाकर्ण्य । 17 'त्वां' नास्ति । 18 BEP निरवगीते गीतं । शुको Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176