Book Title: Prabandh kosha Author(s): Rajshekharsuri, Jinvijay Publisher: Singhi Jain GyanpithPage 91
________________ प्रबन्धकोशे ___ अत्रान्तरे विदितपरमार्थौ तौ तन्मातुलावितरेतरं प्रति विगतदुर्विकल्पो पुनः प्रतिष्ठानमागतो। परचक्रं दृष्ट्वा तां स्वभगिनीं प्रोचतुः-हे वसः ! येन दिवौकसा तवायं तनयो दत्तस्तमेव स्मर । यथा स एवास्य साहाय्यकं विधत्ते । साऽपि तद्वचसा प्राचीनं नागपतेर्वचः स्मृत्वा शिरसि निवेशितघटा गोदावर्या नागहृदं गत्वा लात्वा च तमेव नागनायकमाराधयत् । तत्क्षणान्नागराजः 5 प्रत्यक्षीभूय वाचमुवाच ब्राह्मणीम्-को हेतुरहमनुस्मृतस्त्वया? । तया च प्रणम्य यथावस्थितमभिहिते बभाषे शेषराजः-मयि प्रतपति कस्तव तनयमभिभवितुं क्षमः ? । इत्युदीर्य घटमादाय हृदान्तर्निमज्य पीयूषकुण्डात्सुधया घटं प्रपूर्य च तस्यै दत्तः। ऊचे च-त्वमनेनामृतेन सातवाहनकृतमृन्मयाश्वरथगजपदातिजातमभिषिञ्चेस्तथा तत्सजीवं भूत्वा परबलं भनक्ति; त्वत्पुत्रं च प्रतिष्ठानपत्तनराज्ये अयमेव पीयूषघटोऽभिषेक्ष्यति । प्रस्तावे पुनः स्मरणीयोऽहमित्युक्त्वा 10 स्वास्पदमगमद् भुजङ्गपुङ्गवः। साऽपि सुधाघटमादाय खसद्मोपेत्य तेन तन्मृन्मयं सैन्यमदैन्यमभ्युक्षामास । प्रातर्दिव्यानुभावतः सचेतनभूय तत्सैन्यं संमुखं गत्वा युयुधे परानीकिन्या सार्द्धम् । तया सातवाहनपृतनया भग्नमवन्तीशितुर्बलम् । विक्रमनरपतिरपि पलाय्य ययाववन्तीम् । तदनु सातवाहनो राज्येऽभिषिक्तः। प्रतिष्ठानं च निजनिजविभूतिपरिभूतवखोकसाराभिधानं धवलगृह-देवगृह-हद्दपति-राजपथ-प्राकार-परिखादिभिः सुनिविष्टमजनिष्ट पत्तनम् । 15 सातवाहनोऽपि क्रमेण दक्षिणापथमनृणं विधाय तापीतीरपर्यन्तं चोत्तरापथं साधयित्वा स्वकीयसंवत्सरं प्राचीवृतत् । जैनश्च समजनि । अचीकरच जनितजननयनशैत्यानि चैत्यानि । पञ्चाशद्वीरा अपि प्रत्येकं स्वस्वनामाङ्कितानि अन्तनगरं कारयांबभूवुर्जिनभवनानि । $८७) परसमयलोकप्रसिद्धं सातवाहनचरित्रं शेषमपि किञ्चिदुच्यते।-श्रीसातवाहने क्षिति रक्षति सति पश्चाशद्वीराःप्रतिष्ठाननगरान्तस्तदा वसन्ति स्म, पञ्चाशन्नगराद्वाहिः। इतश्च तत्रैव पुरे 20 एकस्य द्विजस्य सूनुर्दपोद्धरः शूद्रकाख्यः समजनि । स च युद्धश्रमं दर्पात् कुर्वाणः पित्रा खकुलानुचितमिदमिति प्रतिषिद्धोऽपि नास्थात् । अन्येयुः सातवाहननृपतिर्बापला-खूदलादिपुरान्तवर्तिवीरपञ्चाशदन्वितो द्विपञ्चाशद्धस्तप्रमाणां शिलां श्रमार्थमुत्पाटयन् दृष्टः पित्रा समं गच्छता द्वादशाब्ददेशीयेन शूद्रकेण । केनापि वीरेणाङ्गुलीचतुष्टयं केनचित्षडङ्गुलान्यपरेण त्वङ्गुलान्यष्टौ शिला भूमित उत्पाटिता। महीजानिना त्वाजानु नीता। इत्यवलोक्य शूद्रकः स्फूर्जदूर्जितमवादीत्25 भो ! भो! भवत्सु मध्ये किं शिलामिमां मस्तकं यावन्न कश्चिदुद्धर्जुमीष्टे । तेऽपि "सेय॑मवादिषुयथा-त्वमेवोत्पाटय यदि समर्थमन्योऽसि । शूद्रकस्तदाकर्ण्य तां शिला" वियति तथोच्छालयांचकार" यथा दूरमूर्ध्वमगमत् । पुनरवादि शूद्रकेण-यो भवत्सु अलम्भूष्णुः स खलु इमां निपतन्तीं स्तनातु । सातवाहनादिवीरैर्भयो,भ्रान्तलोचनैरूचे स एव सानुनयम् , यथा-भो महाबल! रक्ष रक्ष, आम माकीनान् प्राणान् इति । स पुनस्तां पतयालु तथा मुष्टिप्रहारेण प्रहतवान् , यथा 30 सा त्रिखण्डतामन्वभूत् । तत्रैकं शकलं योजनत्रयोपरि न्यपतत् । द्वैतीयिकं च खण्डं नागहृदे । तृतीयं तु प्रतोलीद्वारे चतुष्पथमध्ये निपतितमद्यापि तथैव "वीक्ष्यमाणमास्ते जनः। तद्बलविल 1A प्राचीन। 2 P पत्यौ। 3 BP नास्ति पदमेतत् । 4 P वं चानेन; BE वं वानेन। 5 P यथा। GP षेकयिष्यति। 7A विस्वौक०; P वस्त्वौक०। 8 A महीपतिना। 9 P समर्थः। 10 AB तदर्थम । 11 A नास्ति । 12 ABचके। 13 AE अलंकरिष्णुः। 14 P भयादू० । 15A अस्माकीयान् । 16 P विखण्डमः। 17 ABE वक्ष्यमाण। Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176