Book Title: Prabandh kosha Author(s): Rajshekharsuri, Jinvijay Publisher: Singhi Jain GyanpithPage 88
________________ मदनकीर्तिप्रबन्धः। भणति-देव! ममेयं प्रतिज्ञा-अहमबुध्यमानस्य लेखितुः पार्थान्न लेखयामि । तव तु पुत्र्या इदं स्थानं कृच्छ्रेण बुद्धम् । इति कालविलम्बाद ग्रन्थाल्पत्वं जायते । राजेन्द्रो विमृशति-शठोत्तरमेवेदं दृश्यते। एकदा हेरयामि, किमिमौ समाचरतः। निशायां विभातायां एकदा राजा छन्नरूप एकाकी तयोग्रन्थनिष्पत्तिप्रदेशकुड्यान्तरेऽस्थात् । तदैव दिक्पटो राजपुत्रीं प्रति प्रणयकलहानुनयगर्भमाह१९०. सुभ्र ! त्वं कुपितेत्यपास्तमशनं त्यक्त्वा कथा योषितां, दूरादेव निराकृताः सुरभयः स्वर्गन्धधूपादयः । रागं रागिणि ! मुञ्च मय्यवनते दृष्टे प्रसीदाधुना, सत्यं त्वद्विरहे भवन्ति दयिते ! सर्वा ममान्धा दिशः ॥ १६ ॥ एतत्काव्यश्रवणाद् द्वयोदौःशील्यं निर्णीय मन्दपदं निर्ययो । स्थानं गतो वसुधाधिपतिः । क्रुद्धेन तेन तत्कालमाहूतो दिक्पटः। आगतः। भाषितो यथा-पण्डित ! किमिदं नवीनं पद्यम्-'सुश्रु! त्वं कुपितेत्यपास्तमशनम्' इत्यादि । दिग्वसनेन विमृष्टम्-राज्ञा हेरितोऽहम् । अपराधी लब्धः । 10 तथाप्युत्तरं ददामि। यथातथेति चिन्तयित्वाऽवनिपतिमभ्यधात्-देव! दिनद्वयात्प्रभृति दृग् मे पीडार्ता वर्तते । तदुपश्लोकेनानुनयपरं' पद्यमिदमपाठिषम् । इति प्रस्तावनां कृत्वा निक्षोभस्तयैव भङ्गया सद्यो व्याचचक्षे । तया सूक्त्या तुष्टोऽन्तः क्षितिपः, अकृत्यकरणदर्शनात्तु रुष्टः । ततः सधूभङ्गं भृत्यानूचे-बनीत रे! अमुं कुकर्मकारिणम् , घातयत च । बद्धस्तैः । तदाकर्ण्य राजपुत्री द्वात्रिंशता सखीभिः शस्त्रिकापाणिभिः समं 'शस्त्रिकापाणिरागात् । राजदृष्टिमेत्य स्वयमकथ.15 यत्-यद्यमुं मे मनोरुच्यं मुञ्चसे तदा चारु । अथ न मुञ्चसे तदा चतुस्त्रिंशद्धत्यास्तव भवितारः। एका दिगम्बरहत्या त्रयस्त्रिंशद्युवतिहत्या इति । ततो राजा मन्त्रिभिर्विज्ञप्तः-देव ! त्वयैवेयमस्यासन्नीकृता । यूनां स्त्रीसन्निधानं च मन्मथद्रुमदोहदः। कस्य दोषो दीयते । १९१. चित्रस्था अपि चेतांसि हरन्ति हरिणीदृशः । किं पुनस्ताः स्मरस्मेरविभ्रमभ्रमितेक्षणाः ॥ १७ ॥ मुच्यतां प्रसद्य दिग्वस्त्रः । इयं चास्यैव भवतु । इति श्रुत्वा तं मुक्त्वा तां तस्यैव पत्नीमकरोत् ।20 स च राज्यांशभाजनं कृतः। दिग्जयधनानि श्वशुरसाचकार । व्रतं त्यक्त्वा भोगी जातः । तं तादृशं वृत्तान्तं विशालकीर्त्तिगुरुरुजयिन्यामश्रौषीत् । अध्यासीच-अहो ! यौवनधनकुसङ्गानां महिमा । येनायमेवंविधोऽपि व्रती विद्वान् वादी योगज्ञो भूत्वा एवंविधं उग्रदुर्गतिपतनमूलं कुपथं प्रपन्नः । हा! हा! धिम् । १९२. परिच्छेदातीतः सकलवचनानामविषयः, पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् । विवेकप्रध्वंसादुपचितमहामोहगहनो, विकारः कोऽप्यन्तर्जडयति च तापं च तनुते ॥ १८॥ एवं विमृश्य चतुरांश्चतुरः शिष्यांस्तबोधनाय प्राहैषीत् । तैस्तत्र गत्वोक्तोऽसौ१९३. विरमत बुधा योषित्सङ्गात्सुखात् क्षणभङ्गुरात् , कुरुत करुणाप्रज्ञामैत्रीवधूजनसङ्गमम् । न खलु नरके हाराकान्तं घनस्तनमण्डलं, भवति शरणं श्रोणीबिम्ब "क्वणन्मणिदाम वा" ॥ १९॥ इत्यादि-गुरुभिर्बोध्यमानोऽसि"; बुध्यस्व, मा मुहः । सोऽथ निस्त्रपतया तेषां हस्ते गुरुभ्य: 30 पद्यानि पत्रे लिखित्वा प्रजिघाय । गतास्ते तत्र । वाचितानि पद्यानि गुरुणा 1P.श्लोकायानुनयः। 2P प्रज्ञया। 3A कृत्यक०। 4 P नास्ति 'ततः। 5 'शस्त्रिकापाणिः' नास्ति P पुस्तके । 6P नास्ति 'स्तव'। 7A एकः। 8A .हत्यायां। 9ADE नास्ति 'राजा'। 10P धनानि च। 11 A कुरुते । 12 A भजत। 13 P रणन् । 14 A च। 15 PE ऽपि। . ९ प्र० को. Jain Education Intemational For Private & Personal use only For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176