Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 87
________________ ... प्रबन्धकोशे १४. अथ मदनकीर्तिप्रवन्धः । ६७९) उज्जयिन्यां विशालकीर्तिदिगम्बरः । तच्छिष्यो मदनकीर्तिः। स पूर्वपश्चिमोत्तरासु तिसृषु दिक्षु वादिनः सर्वान् विजित्य 'महाप्रामाणिकचूडामणिः' इति विरुदमुपायं स्वगुर्वलतामुज्जयिनीमागात् । गुरूनवन्दिष्ट । पूर्वमपि जनपरम्पराश्रुतंतत्कीर्तिः स मदनकीर्तिः भूयिष्ठम5 श्लाघिष्ट । सोऽपि प्रामोदिष्ट । दिनकतिपयानन्तरं च गुरुं न्यगदीत्-भगवन् ! दाक्षिणात्यान् वादिनो विजेतुमीहे । तत्र गच्छामि । अनुज्ञा दीयताम् । गुरुणोक्तम्-वत्स ! दक्षिणां मा गाः। स हि भोगनिधिदेशः। को नाम तत्र गतो दर्शन्यपि न तपसो भ्रश्येत् । एतद्गुरुवचनं विलय विद्यामदाध्मातो जालकुद्दालनिःश्रेण्यादिभिः प्रभूतैश्च शिष्यैः परिकरितो महाराष्ट्रादिवादिनो मृद्गन् कर्णाटदेशमाप। 10 ६८०) तत्र विजयपुरे कुन्तिभोज नाम राजानं वयं त्रैविद्यविदं विद्वत्मियं सदसि निषण्णं स द्वास्थनिवेदितो ददर्श । तमुपश्लोकयामास१८७. देव! त्वद्भुजदण्डदर्पगरिमोद्भारप्रतापानल, ज्वालापक्रिमकीर्तिपारदघटीविस्फोटिनो बिन्दवः । शेषाहिः कति तारकाः कति कति क्षीराम्बुधिः कस्यपि, प्रालेयाचलशङ्खशुक्तिकरकाकर्पूरकुन्देन्दवः ॥१३॥ १८८. कीर्तिः कैकत! कुन्तिभोज! भवतः खर्वाहिनीगाहिनी, दिक्पालान् परितः परीत्य दधती भावन्मयं गोलकम् । 15 लचित्वाऽम्बुधिसप्तमण्डलभुवस्त्वय्येकपत्नीव्रत,-ख्यात्यै विष्णुपदं स्पृशत्यविरतं शेषाहिशीर्षाण्यपि ॥ १४ ॥ चमत्कृतो राजा। स्थापितो दिगम्बरः सौधासन्नदेशे। राज्ञादिष्टम्-ग्रन्थमेकं कुरु, अस्मत्पूर्वजवर्णनप्रतिबद्धम् । तेनोक्तम्-देव ! अहं श्लोकपञ्चशती एकस्मिन् दिने कर्तुं क्षमः, तावत्तु लेखितुं न क्षमोऽस्मि । कश्चिल्लेखकः समय॑ताम् । राज्ञोक्तम्-अस्मत्पुत्री मदनमञ्जरी नाम 'लिखिष्यति जवनिकान्तरिता सती । दिगम्बरेण ग्रन्थः कर्तुमारेभे । राजपुत्री पञ्चशतीं लिखति । एवं कत्य20 प्यहानि ययुः। ६.८१) एकदा राजसुता तस्य स्वरं कोकिलरवजित्वरं शृण्वती सती चिन्तयति-अस्य रूपमपि सुन्दरं भविष्यति । जवनिकान्तरितया कथं दृश्यते ? । करोमि तावदुपायम् । रसवत्यां लवणबाहुल्यं कारयामि । सोऽपि राजपुत्री तादृग्विदुषीं सुखरां दिदृक्षते । लवणातिशये दिक्पट ऊचे-अहो लवणिमा !। राजपुत्र्याऽभिदधे-अहो निष्ठुरता!। एवमालाप-प्रत्यालापे दूरे कृते' 25 उभाभ्यां मर्यादामयी वस्त्रमयी च जवनिके । परस्परं दिव्यरूपदर्शनम् ।तावता दिग्वस्त्रेणोक्तम्१८९. निरर्थकं जन्म गतं नलिन्याः , यया न दृष्टं तुहिनांशुबिम्बम् । राजसुतयाऽपि भणितम् उत्पत्तिरिन्दोरपि निष्फलैव, दृष्टा प्रबुद्धा नलिनी न येन ॥ १५ ॥ ततश्चक्षुःप्रीतिमुद्भवन्तीवा"ऽपराणि कुसुमचापचापलानीति वचनान्निरर्गले मदने भग्नं कौमा30 रव्रतं तयोः।"वर्त्तते विकथा । अल्पो निष्पद्यते ग्रन्थः । सायं राजा विलोकयति शास्त्रम् । को हेतुरद्य स्तोकं निष्पन्नम् ? । दिगम्बरस्तेषु त्रिचतुराणि विषमाणि पद्यानि निक्षिपते । ततो राजाने ___1A अगात् । 2 A परम्परया; DE परम्पराच्छ्रुतः। 3 AD 'वत्स' नास्ति । 4 A परिवारितो। 5A लेखिष्यति । 6 P ग्रन्थं । 7 Pसोऽपि दिग्वस्त्रः। 8P कृता। 9 P जवनिका । 10 A अभाणि। 11A चा०। 12 A वर्द्धतेतिकथा । 13 A तेषु पद्येषु। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176