________________
... प्रबन्धकोशे
१४. अथ मदनकीर्तिप्रवन्धः । ६७९) उज्जयिन्यां विशालकीर्तिदिगम्बरः । तच्छिष्यो मदनकीर्तिः। स पूर्वपश्चिमोत्तरासु तिसृषु दिक्षु वादिनः सर्वान् विजित्य 'महाप्रामाणिकचूडामणिः' इति विरुदमुपायं स्वगुर्वलतामुज्जयिनीमागात् । गुरूनवन्दिष्ट । पूर्वमपि जनपरम्पराश्रुतंतत्कीर्तिः स मदनकीर्तिः भूयिष्ठम5 श्लाघिष्ट । सोऽपि प्रामोदिष्ट । दिनकतिपयानन्तरं च गुरुं न्यगदीत्-भगवन् ! दाक्षिणात्यान् वादिनो विजेतुमीहे । तत्र गच्छामि । अनुज्ञा दीयताम् । गुरुणोक्तम्-वत्स ! दक्षिणां मा गाः। स हि भोगनिधिदेशः। को नाम तत्र गतो दर्शन्यपि न तपसो भ्रश्येत् । एतद्गुरुवचनं विलय विद्यामदाध्मातो जालकुद्दालनिःश्रेण्यादिभिः प्रभूतैश्च शिष्यैः परिकरितो महाराष्ट्रादिवादिनो
मृद्गन् कर्णाटदेशमाप। 10 ६८०) तत्र विजयपुरे कुन्तिभोज नाम राजानं वयं त्रैविद्यविदं विद्वत्मियं सदसि निषण्णं स द्वास्थनिवेदितो ददर्श । तमुपश्लोकयामास१८७. देव! त्वद्भुजदण्डदर्पगरिमोद्भारप्रतापानल, ज्वालापक्रिमकीर्तिपारदघटीविस्फोटिनो बिन्दवः ।
शेषाहिः कति तारकाः कति कति क्षीराम्बुधिः कस्यपि, प्रालेयाचलशङ्खशुक्तिकरकाकर्पूरकुन्देन्दवः ॥१३॥ १८८. कीर्तिः कैकत! कुन्तिभोज! भवतः खर्वाहिनीगाहिनी, दिक्पालान् परितः परीत्य दधती भावन्मयं गोलकम् । 15 लचित्वाऽम्बुधिसप्तमण्डलभुवस्त्वय्येकपत्नीव्रत,-ख्यात्यै विष्णुपदं स्पृशत्यविरतं शेषाहिशीर्षाण्यपि ॥ १४ ॥
चमत्कृतो राजा। स्थापितो दिगम्बरः सौधासन्नदेशे। राज्ञादिष्टम्-ग्रन्थमेकं कुरु, अस्मत्पूर्वजवर्णनप्रतिबद्धम् । तेनोक्तम्-देव ! अहं श्लोकपञ्चशती एकस्मिन् दिने कर्तुं क्षमः, तावत्तु लेखितुं न क्षमोऽस्मि । कश्चिल्लेखकः समय॑ताम् । राज्ञोक्तम्-अस्मत्पुत्री मदनमञ्जरी नाम 'लिखिष्यति जवनिकान्तरिता सती । दिगम्बरेण ग्रन्थः कर्तुमारेभे । राजपुत्री पञ्चशतीं लिखति । एवं कत्य20 प्यहानि ययुः।
६.८१) एकदा राजसुता तस्य स्वरं कोकिलरवजित्वरं शृण्वती सती चिन्तयति-अस्य रूपमपि सुन्दरं भविष्यति । जवनिकान्तरितया कथं दृश्यते ? । करोमि तावदुपायम् । रसवत्यां लवणबाहुल्यं कारयामि । सोऽपि राजपुत्री तादृग्विदुषीं सुखरां दिदृक्षते । लवणातिशये दिक्पट ऊचे-अहो लवणिमा !। राजपुत्र्याऽभिदधे-अहो निष्ठुरता!। एवमालाप-प्रत्यालापे दूरे कृते' 25 उभाभ्यां मर्यादामयी वस्त्रमयी च जवनिके । परस्परं दिव्यरूपदर्शनम् ।तावता दिग्वस्त्रेणोक्तम्१८९. निरर्थकं जन्म गतं नलिन्याः , यया न दृष्टं तुहिनांशुबिम्बम् ।
राजसुतयाऽपि भणितम्
उत्पत्तिरिन्दोरपि निष्फलैव, दृष्टा प्रबुद्धा नलिनी न येन ॥ १५ ॥ ततश्चक्षुःप्रीतिमुद्भवन्तीवा"ऽपराणि कुसुमचापचापलानीति वचनान्निरर्गले मदने भग्नं कौमा30 रव्रतं तयोः।"वर्त्तते विकथा । अल्पो निष्पद्यते ग्रन्थः । सायं राजा विलोकयति शास्त्रम् । को हेतुरद्य स्तोकं निष्पन्नम् ? । दिगम्बरस्तेषु त्रिचतुराणि विषमाणि पद्यानि निक्षिपते । ततो राजाने ___1A अगात् । 2 A परम्परया; DE परम्पराच्छ्रुतः। 3 AD 'वत्स' नास्ति । 4 A परिवारितो। 5A लेखिष्यति । 6 P ग्रन्थं । 7 Pसोऽपि दिग्वस्त्रः। 8P कृता। 9 P जवनिका । 10 A अभाणि। 11A चा०। 12 A वर्द्धतेतिकथा । 13 A तेषु पद्येषु।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org