________________
मदनकीर्तिप्रबन्धः। भणति-देव! ममेयं प्रतिज्ञा-अहमबुध्यमानस्य लेखितुः पार्थान्न लेखयामि । तव तु पुत्र्या इदं स्थानं कृच्छ्रेण बुद्धम् । इति कालविलम्बाद ग्रन्थाल्पत्वं जायते । राजेन्द्रो विमृशति-शठोत्तरमेवेदं दृश्यते। एकदा हेरयामि, किमिमौ समाचरतः। निशायां विभातायां एकदा राजा छन्नरूप एकाकी तयोग्रन्थनिष्पत्तिप्रदेशकुड्यान्तरेऽस्थात् । तदैव दिक्पटो राजपुत्रीं प्रति प्रणयकलहानुनयगर्भमाह१९०. सुभ्र ! त्वं कुपितेत्यपास्तमशनं त्यक्त्वा कथा योषितां, दूरादेव निराकृताः सुरभयः स्वर्गन्धधूपादयः ।
रागं रागिणि ! मुञ्च मय्यवनते दृष्टे प्रसीदाधुना, सत्यं त्वद्विरहे भवन्ति दयिते ! सर्वा ममान्धा दिशः ॥ १६ ॥ एतत्काव्यश्रवणाद् द्वयोदौःशील्यं निर्णीय मन्दपदं निर्ययो । स्थानं गतो वसुधाधिपतिः । क्रुद्धेन तेन तत्कालमाहूतो दिक्पटः। आगतः। भाषितो यथा-पण्डित ! किमिदं नवीनं पद्यम्-'सुश्रु! त्वं कुपितेत्यपास्तमशनम्' इत्यादि । दिग्वसनेन विमृष्टम्-राज्ञा हेरितोऽहम् । अपराधी लब्धः । 10 तथाप्युत्तरं ददामि। यथातथेति चिन्तयित्वाऽवनिपतिमभ्यधात्-देव! दिनद्वयात्प्रभृति दृग् मे पीडार्ता वर्तते । तदुपश्लोकेनानुनयपरं' पद्यमिदमपाठिषम् । इति प्रस्तावनां कृत्वा निक्षोभस्तयैव भङ्गया सद्यो व्याचचक्षे । तया सूक्त्या तुष्टोऽन्तः क्षितिपः, अकृत्यकरणदर्शनात्तु रुष्टः । ततः सधूभङ्गं भृत्यानूचे-बनीत रे! अमुं कुकर्मकारिणम् , घातयत च । बद्धस्तैः । तदाकर्ण्य राजपुत्री द्वात्रिंशता सखीभिः शस्त्रिकापाणिभिः समं 'शस्त्रिकापाणिरागात् । राजदृष्टिमेत्य स्वयमकथ.15 यत्-यद्यमुं मे मनोरुच्यं मुञ्चसे तदा चारु । अथ न मुञ्चसे तदा चतुस्त्रिंशद्धत्यास्तव भवितारः। एका दिगम्बरहत्या त्रयस्त्रिंशद्युवतिहत्या इति । ततो राजा मन्त्रिभिर्विज्ञप्तः-देव ! त्वयैवेयमस्यासन्नीकृता । यूनां स्त्रीसन्निधानं च मन्मथद्रुमदोहदः। कस्य दोषो दीयते ।
१९१. चित्रस्था अपि चेतांसि हरन्ति हरिणीदृशः । किं पुनस्ताः स्मरस्मेरविभ्रमभ्रमितेक्षणाः ॥ १७ ॥ मुच्यतां प्रसद्य दिग्वस्त्रः । इयं चास्यैव भवतु । इति श्रुत्वा तं मुक्त्वा तां तस्यैव पत्नीमकरोत् ।20 स च राज्यांशभाजनं कृतः। दिग्जयधनानि श्वशुरसाचकार । व्रतं त्यक्त्वा भोगी जातः । तं तादृशं वृत्तान्तं विशालकीर्त्तिगुरुरुजयिन्यामश्रौषीत् । अध्यासीच-अहो ! यौवनधनकुसङ्गानां महिमा । येनायमेवंविधोऽपि व्रती विद्वान् वादी योगज्ञो भूत्वा एवंविधं उग्रदुर्गतिपतनमूलं कुपथं प्रपन्नः । हा! हा! धिम् । १९२. परिच्छेदातीतः सकलवचनानामविषयः, पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् ।
विवेकप्रध्वंसादुपचितमहामोहगहनो, विकारः कोऽप्यन्तर्जडयति च तापं च तनुते ॥ १८॥ एवं विमृश्य चतुरांश्चतुरः शिष्यांस्तबोधनाय प्राहैषीत् । तैस्तत्र गत्वोक्तोऽसौ१९३. विरमत बुधा योषित्सङ्गात्सुखात् क्षणभङ्गुरात् , कुरुत करुणाप्रज्ञामैत्रीवधूजनसङ्गमम् ।
न खलु नरके हाराकान्तं घनस्तनमण्डलं, भवति शरणं श्रोणीबिम्ब "क्वणन्मणिदाम वा" ॥ १९॥ इत्यादि-गुरुभिर्बोध्यमानोऽसि"; बुध्यस्व, मा मुहः । सोऽथ निस्त्रपतया तेषां हस्ते गुरुभ्य: 30 पद्यानि पत्रे लिखित्वा प्रजिघाय । गतास्ते तत्र । वाचितानि पद्यानि गुरुणा
1P.श्लोकायानुनयः। 2P प्रज्ञया। 3A कृत्यक०। 4 P नास्ति 'ततः। 5 'शस्त्रिकापाणिः' नास्ति P पुस्तके । 6P नास्ति 'स्तव'। 7A एकः। 8A .हत्यायां। 9ADE नास्ति 'राजा'। 10P धनानि च। 11 A कुरुते । 12 A भजत। 13 P रणन् । 14 A च। 15 PE ऽपि। .
९ प्र० को.
Jain Education Intemational
For Private & Personal use only
For Private & Personal Use Only
www.jainelibrary.org