Book Title: Prabandh kosha Author(s): Rajshekharsuri, Jinvijay Publisher: Singhi Jain GyanpithPage 78
________________ १५ हर्षकविप्रबन्धः। राजदृष्टी जितः। तन्मे दुःखम् । यदि सत्पुत्रोऽसि तदा तं जयेः मापसदसि । श्रीहर्षेणोक्तम्ओमिति । हीरो यां गतः। श्रीहर्षस्तु कुटुम्बभारमाप्तदायादेष्वारोप्य विदेशं गत्वा विविधाचार्यपार्थेऽचिरात्तर्का-लङ्कार-गीत-गणित-ज्योतिष-चूडामणि-मन्त्र-व्याकरणादी: सर्वा विद्याः सस्फुराः प्रजग्राह । गङ्गातीरे सुगुरुदत्तं चिन्तामणिमत्रं वर्षमप्रमत्तः साधयामास । प्रत्यक्षा त्रिपुराऽभूत् । अमोघादेशत्वादिवराप्तिः। तदादि राजगोष्ठीषु भ्रमति । अलौकिकोल्लेखशिखरितं 5 जल्प न, यं कोऽपि न बुध्यते। ततोऽतिविद्ययाऽपि लोकागोचरभूतया खिन्नः पुनर्भारती प्रत्यक्षीकृत्याभणत्-मातः! अतिप्रज्ञाऽपि दोषाय मे जाता। बुध्यमानवचनं मां कुरु । ततो देव्योक्तम्-तर्हि मध्यरात्रेऽम्भाक्लिन्ने शिरसि दधि पिव । पश्चात्वपिहि। कफांशावताराजडतालेशमामुहि । तथैव कृतम् । बोध्यवागासीत् । खण्डनादिग्रन्थान् परम्शताञ्जग्रन्थ । कृतकृत्यीभूय कासीमायासीत् । नगरतटे स्थितः। जयन्तचन्द्रमजिज्ञपत्-अहमधीत्यागतोऽस्मि । राजाऽपि 10 गुणलेहलो हीरजेतृपण्डितेन सह सचातुर्वर्ण्यः पुरीपरिसरमसरत । श्रीहर्षों नमस्कृतः। तेनापि यथार्हमुचितं लोकाय कृतम् , राजानं त्वेवं तुष्टाव. १५३. गोविन्दनन्दनतया च वपुःश्रिया च, माऽस्मिन् नृपे कुरुत कामधियं तरुण्यः । __ अस्त्रीकरोति जगतां विजये स्मरः स्त्री, रस्त्रीजनः पुनरनेन विधीयते स्त्री ॥१॥ व्याचख्यौ च तारखरं सरसविस्तरम् । तुष्टा सभा राजा च। पितृवैरिणं तु वादिनं दृष्ट्वा 15 सकटाक्षमाचक्षे१५४. साहित्ये सुकुमारवस्तुनि दृढन्यायग्रहग्रन्थिले, तर्के वा मयि संविधातरि सम लीलायते भारती। ___ शय्या वास्तु मृदूत्तरच्छदवती दर्भाडरैरास्तृता, भूमिर्वा हृदयङ्गमो यदि पतिस्तुल्या रतियोषिताम् ॥२॥ एतच्छुत्वा स वादी पाह-देव ! वादीन्द्र ! भारतीसिद्ध !, तव समोऽपि न, न वाधिका'। १५५. हिंस्राः सन्ति सहस्रशोऽपि विपिने शौण्डीर्यवीर्योद्धता,-स्तस्यैकस्य पुनः स्तवीमहि महः सिंहस्य विश्वोत्तरम् । 20 ___केलिः कोलकुलैर्मदो मदकलैः कोलाहलं नाहलैः, संहर्षो महिषैश्च यस्य मुमुचे साहङ्कतेर्तुङ्क्तेः ॥ ३॥ - इदं श्रुत्वा श्रीहर्षो निष्क्रोध इवासीत् । भूपेनोक्तम्-+ अत्र श्रीहर्षे इदमेव वक्तुमहम् । प्रतिवादिनां कोऽर्थः । सम्यगवसरमज्ञासीः। श्रीहीरवैरिन्नित्यर्थः । अन्योऽन्यं गाढालिङ्गनमचीकरद् द्वयोरपि वसुन्धरासुधांशुः । विस्तरेण सौधमानीय माङ्गलिकानि कारयित्वा गृहं प्रति प्रहितः । लक्षसंख्यानि हेमानि ददिरे । निश्चिन्तीकृत्यैकदा मुदा नृपेणोक्ता-कवीश! वादीन्द्र !25 किञ्चित्प्रबन्धरत्नं कुरु । ततो नैषधं महाकाव्यं बद्धं दिव्यरसं महागूढव्ययभारसारम। राजें दर्शितम् । राज्ञोचे-सुष्टुतममिदम् । परं काश्मीरं व्रज । तत्रत्यपण्डितेभ्यो दर्शय । भारतीहस्ते च मुञ्च । भारती च तत्र पीठे स्वयं साक्षाद्वसति। असत्यं प्रबन्धं हस्ते न्यस्तमवकरनिकरमिव दूरे क्षिपति । सत्यं तु मूर्द्धधूननपूर्व मुष्ठु इत्यूरीकरोति । उपरितः पुष्पाणि पतन्ति। श्रीहर्षों राजदत्तार्थनिष्पन्नविपुलसामग्रीकः काश्मीरानगमत् । सरस्वतीहस्ते पुस्तकं न्यास्थत् । सरखत्या 30 दूरे क्षिसं तत् । श्रीहर्षेण कथितम्-किं जरतीति विकलासि, यन्मदुक्तमपि प्रबन्धमितरमबन्ध. . एतदन्तर्गतः पाठः पतितः P पुस्तके। 3 B वसुधांशुः। 4.B - 1P भाचष्टे। 2 Pसमो कोऽपि न किं पुनरधिकः। राहो। D.केवळं। Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176