Book Title: Prabandh kosha Author(s): Rajshekharsuri, Jinvijay Publisher: Singhi Jain GyanpithPage 82
________________ हरिहरप्रबन्धः। पण्डिस्तूचे-देव! लघुभोजराज! विचारचतुर्मुख! सरस्वतीकण्ठाभरण ! अवधारय । वयं पण्डिताः । अस्माकं माता भारती । सा च त्रिभुवनचारिणी । एकदा भारत्या सह महेन्द्रस्य सभामगमाम । सा च सुधर्मा नाम । इन्द्रः श्रीमान् । ३ कोट्यः सुराङ्गनाः । ८४ सहस्राणि सामानिकाः। तथा १६५. द्वादशार्का वसवोऽष्टौ विश्वेदेवास्त्रयोदश । षट्त्रिंशत् तुषिताश्चैव षष्टिराभाखरा अपि ॥ ४॥ १६६. पत्रिंशदधिके माहाराजिकाश्च शते उभे । रुद्रा एकादशैकोनपञ्चाशद्वायवोऽपि च ॥५॥ १६७. चतुर्दश तु वैकुण्ठाः सुशर्माणः पुनर्दश । साध्याश्च द्वादशेत्याद्याः प्रसिद्धा गणदेवताः ॥ ६॥ . [*एतत्समृद्धिखरूपं विलोक्य] वयं विस्मिताः स्थिताः-अहो! तपःफलभोगः। [-*इत्यादि चिन्तयन्तो यावता मः] अत्रान्तरे आगतस्तत्र कश्चन बुम्बावक्त्रः। १६८. देव! स्वर्नाथ ! कष्टं ननु क इह भवान्नन्दनोद्यानपालः खेदस्तत्कोऽद्य केनाप्यहह हृत इतः काननात्कल्पवृक्षः । हुं मा वादीस्तदेतत्किमपि करुणया मानवानां मयैव प्रीत्यादिष्टोऽयमुास्तिलकयति तलं वस्तुपालच्छलेन ॥ ७ ॥ - एवं तत्रालापं श्रुत्वा विस्मितोऽहं भारत्या सह पञ्चमं 'कल्पद्रुमं त्वां द्रष्टुमागाम् । एवं सविस्तरं' काव्यं व्याख्याय स्थितः पण्डितः । मन्त्री यावत्किं ददामि-इति चिन्तयति तावद् 15 डोडीयवंश्यराणभीमदेवेन जात्या वाहनोत्तीर्णाश्चतुर्विशतिरश्वा एकं च दिव्यं पदकं प्राभृतमानीतम् । तदेव पण्डिताय सर्व दत्तम् । तुष्टोऽसौ पञ्चमः कल्पतरुर्भवसि इत्युक्त्वा खोत्तारकमगात् । गतेषु कतिपयेष्वहःसु मिलितायां सभायां पुरःस्थे सोमेश्वरे राणकेन पण्डितहरिहर उक्ता-पण्डित! अत्र पुरेऽस्माभिर्वीरनारायणाख्यः प्रासादः कारितोस्ति । तत्प्रशस्तिकाव्यान्यटोत्तरं शतं सोमेश्वरदेवपार्धात्कारितम् । तत्र भवन्तोऽवदधतु । यथा शुद्धत्वे निश्चयो भवति 20 ज्ञानाम् । महालक्ष्मीदृष्टौ नाणकपरीक्षा यतः।हरिहरेणोक्तम्-कथाप्यन्तां तानि । उक्तानि सोमेश्वरेण।तानि श्रुत्वा हरिहर ऊचे-देव! सुष्टु काव्यानि परिचितानि च नः। यतो मालवीयेषूज्जयनी गतैरस्माभिः सरखतीकण्ठाभरणप्रासादगर्भगृहे पट्टिकायां श्रीभोजदेववर्णनाकाव्यान्यमून्यदृक्षत' । यदि तु प्रत्ययो नास्ति तदा परिपाट्या श्रूयन्ताम् । इत्युक्त्वा क्रमेणास्खलितान्यपाठीत् । खिन्नो राणकः । प्रीताः खलाः । व्यथिताः श्रीवस्तुपालादयः सजनाः। उत्थिता सभा। 25 हत इव मृत इव स्तभित इव जडित इव जातः सोमेश्वरः । गतः खगृहम् । हिया वदनं न दर्शयति गृहेऽपि, का कथा राजादिसदनगमनस्य । ६६९) अथ सोमेश्वरः श्रीवस्तुपालमन्दिरं गत्वोवाच-मन्निन् ! ममैव तानि काव्यानि; नान्यथा । मम च" शक्तिं जानासि त्वम् । हरिहरस्त्वेवं मां व्यजूगुपत् । किमहं करोमि। मन्याह-तमेव शरणं श्रय । यतः 30 1A अगमम् । 2.A ३० कोट्यः। 3A ८४०. सप्तसहः। 4A धिकं । * P पुस्तक एवैष कोष्टकगतः पाठो विद्यते। 5 P कोऽपि बुम्बां पातयन्नाह । 6P पञ्चकल्प० । 7 P विस्तरं । 8 P तानि श्रुत्वा तानि हरिः। 9 A अदृश्यत । 10P श्रूयतां। 11 'च' नास्ति P1 12 AC'वं नास्ति । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176