Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 84
________________ अमरप्रबन्धः। 'यदीदृशेषु कार्येषु नान्यस्य क्रमते मतिः ।' युक्तं त्वया दण्डिताः प्रतिपक्षाः । स्थापितानि जैन-वैष्णव-शैवशासनानि च । उदश्चितः खामिवंशः। यस्यैवं प्रज्ञा प्रकाशते । ६७०) अत्रान्तरे वीरधवलाहितसैन्यचम्पितेन महाराष्ट्रप्रभुणा सपादकोटिहेमप्रमितो दण्डः प्रहितः। श्रीवस्तुपालेन तु तद्धेम चतुर्दिग्यात्रिकेभ्यो याचकेभ्योऽदापि विवेकात् । तद् दृष्ट्वा 5 हरिहरो वर्णयति१७२. आः! साम्यं न सहेऽहमस्य किमपि क्रोडीकृतैकश्रिया', याचोत्तानकरण खर्वितनिजाकारोष्मणा शाङ्गिणा । येनैताः पुरुषोत्तमाधिकगुणोद्भारेण युद्धार्णवादा,-कृष्यैव तथा श्रियः शकलशः कृत्वाऽर्थिनामर्पिताः ॥ १०॥ तदा वीरधवलस्य 'सपादकोटीकाञ्चनवर्षः' इति भट्टादिषु विरुदं ख्यातिमायातम् । ६७१) अथ हरिहरः सोमेश्वरं नन्तुं गतो देवपत्तनम् । पण्डितसोमेश्वरदेवस्य तत्र तदूदौर्जन्यं 10 स्मृत्वा विषण्णेन काव्यं भणितम्१७३. व यातु कायातु क वदतु समं केन पठतु, क काव्यान्यव्याज रचयतु सदः कस्य विशतु । ___ खलव्यालग्रस्ते जगति न गतिः क्वापि कृतिना,-मिति ज्ञात्वा तत्त्वं हर! हर! 'विमूढो हरिहरः ॥११॥ १७४. आरुक्षाम नृपप्रसादकणिकामद्राक्ष्म लक्ष्मीलवान् , किञ्चिद्वाङ्मयमध्यगीष्महि गुणैः कांश्चित्पराजेष्महि । इत्थं मोहमयीमकार्म कियती नानर्थकन्यां मनः, स्वाधीनीकृतशुद्धबोधमधुना वाञ्छत्यमापगाम् ॥ १२॥ 15 इत्युक्त्वा धनाई दत्त्वा शेषार्द्ध गृहीत्वा धवलक्ककमध्ये भूत्वा राणक-मन्त्रिणी आपृच्छय कासी प्राप्य स्वार्थमसाधयदिति ॥ ॥ इति हरिहरप्रबन्धः समाप्तः ॥ १२॥ १३. अथ अमरचन्द्रकविप्रवन्धः। ७२) श्रीअणहिल्लपत्तनासन्नं वायटं नाम महास्थानमास्ते। चतुरशीतिमहास्थानानामन्यतमत्। 20 तत्र परपुरप्रवेशविद्यासम्पन्नश्रीजीवदेवसूरिसन्ताने श्रीजिनदत्तसूरयो जगर्जुः । तेषां शिष्योऽमरो नाम 'प्रज्ञालचूडामणिः । स श्रीजिनदत्तसूरिभक्तात् कविराजात् अरसिंहात् सिद्धसारखतं मन्त्रमग्रहीत् । तद्गच्छमहाभक्तस्य विवेकनिधेः कोष्ठागारिकस्य पद्मस्य विशालतमे "सदनैकदेशे विजने एकविंशत्याचाम्लैनिद्राजयासनजयकषायजयादिदत्तावधानस्तं मन्त्रमजपत् । विस्तरेण होमंच" चक्रे । एकविंशतितम्यां रात्रौ मध्यप्राप्तायां नभस्यभ्युदिताचन्द्रबिम्बान्निगत्य 25 स्वरूपेणागत्यामरं भारती करकमण्डलुजलममलमपीप्यत् । वरं च प्रादात्-सिद्धकविर्भव; निःशेषनरपतिपूजागौरवितश्चैधि । इति वरं दत्त्वा गता भगवती । जातः कविपतिरमरः । रचिता 'काव्यकल्पलता' नाम कविशिक्षा, 'छन्दोरत्नावली', 'सूक्तावली' च । 'कलाकलापाख्यं' च शास्त्रं निबद्धं, 'बालभारतं' च । बालभारते प्रभातवर्णने 1P प्रकाश्यते। 2P सैन्यकम्पितेन । 3 Poथियो। 4 P हरहरिमूढो। 5 P .कन्थी। 6P परकायप्र० A परपुरुषप्र०। 7 P प्रज्ञाचू०। 8 P कविराज अरिसिं०। 9P विना नास्त्यन्यत्रेदं पदम् । 10 A विशालनाम्नः। 11 A तमे सद। 12 P 'च' नास्ति । 13 P प्राक्षीत् । 14 P गौरवताश्चैधि । www.jainelibrary.org For Private & Personal Use Only Jain Education Intemational For Private & Personal Use Only

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176