________________
अमरप्रबन्धः।
'यदीदृशेषु कार्येषु नान्यस्य क्रमते मतिः ।' युक्तं त्वया दण्डिताः प्रतिपक्षाः । स्थापितानि जैन-वैष्णव-शैवशासनानि च । उदश्चितः खामिवंशः। यस्यैवं प्रज्ञा प्रकाशते ।
६७०) अत्रान्तरे वीरधवलाहितसैन्यचम्पितेन महाराष्ट्रप्रभुणा सपादकोटिहेमप्रमितो दण्डः प्रहितः। श्रीवस्तुपालेन तु तद्धेम चतुर्दिग्यात्रिकेभ्यो याचकेभ्योऽदापि विवेकात् । तद् दृष्ट्वा 5 हरिहरो वर्णयति१७२. आः! साम्यं न सहेऽहमस्य किमपि क्रोडीकृतैकश्रिया', याचोत्तानकरण खर्वितनिजाकारोष्मणा शाङ्गिणा ।
येनैताः पुरुषोत्तमाधिकगुणोद्भारेण युद्धार्णवादा,-कृष्यैव तथा श्रियः शकलशः कृत्वाऽर्थिनामर्पिताः ॥ १०॥ तदा वीरधवलस्य 'सपादकोटीकाञ्चनवर्षः' इति भट्टादिषु विरुदं ख्यातिमायातम् । ६७१) अथ हरिहरः सोमेश्वरं नन्तुं गतो देवपत्तनम् । पण्डितसोमेश्वरदेवस्य तत्र तदूदौर्जन्यं 10 स्मृत्वा विषण्णेन काव्यं भणितम्१७३. व यातु कायातु क वदतु समं केन पठतु, क काव्यान्यव्याज रचयतु सदः कस्य विशतु ।
___ खलव्यालग्रस्ते जगति न गतिः क्वापि कृतिना,-मिति ज्ञात्वा तत्त्वं हर! हर! 'विमूढो हरिहरः ॥११॥ १७४. आरुक्षाम नृपप्रसादकणिकामद्राक्ष्म लक्ष्मीलवान् , किञ्चिद्वाङ्मयमध्यगीष्महि गुणैः कांश्चित्पराजेष्महि ।
इत्थं मोहमयीमकार्म कियती नानर्थकन्यां मनः, स्वाधीनीकृतशुद्धबोधमधुना वाञ्छत्यमापगाम् ॥ १२॥ 15 इत्युक्त्वा धनाई दत्त्वा शेषार्द्ध गृहीत्वा धवलक्ककमध्ये भूत्वा राणक-मन्त्रिणी आपृच्छय कासी प्राप्य स्वार्थमसाधयदिति ॥
॥ इति हरिहरप्रबन्धः समाप्तः ॥ १२॥
१३. अथ अमरचन्द्रकविप्रवन्धः। ७२) श्रीअणहिल्लपत्तनासन्नं वायटं नाम महास्थानमास्ते। चतुरशीतिमहास्थानानामन्यतमत्। 20 तत्र परपुरप्रवेशविद्यासम्पन्नश्रीजीवदेवसूरिसन्ताने श्रीजिनदत्तसूरयो जगर्जुः । तेषां शिष्योऽमरो नाम 'प्रज्ञालचूडामणिः । स श्रीजिनदत्तसूरिभक्तात् कविराजात् अरसिंहात् सिद्धसारखतं मन्त्रमग्रहीत् । तद्गच्छमहाभक्तस्य विवेकनिधेः कोष्ठागारिकस्य पद्मस्य विशालतमे "सदनैकदेशे विजने एकविंशत्याचाम्लैनिद्राजयासनजयकषायजयादिदत्तावधानस्तं मन्त्रमजपत् । विस्तरेण होमंच" चक्रे । एकविंशतितम्यां रात्रौ मध्यप्राप्तायां नभस्यभ्युदिताचन्द्रबिम्बान्निगत्य 25 स्वरूपेणागत्यामरं भारती करकमण्डलुजलममलमपीप्यत् । वरं च प्रादात्-सिद्धकविर्भव; निःशेषनरपतिपूजागौरवितश्चैधि । इति वरं दत्त्वा गता भगवती । जातः कविपतिरमरः । रचिता 'काव्यकल्पलता' नाम कविशिक्षा, 'छन्दोरत्नावली', 'सूक्तावली' च । 'कलाकलापाख्यं' च शास्त्रं निबद्धं, 'बालभारतं' च । बालभारते प्रभातवर्णने
1P प्रकाश्यते। 2P सैन्यकम्पितेन । 3 Poथियो। 4 P हरहरिमूढो। 5 P .कन्थी। 6P परकायप्र० A परपुरुषप्र०। 7 P प्रज्ञाचू०। 8 P कविराज अरिसिं०। 9P विना नास्त्यन्यत्रेदं पदम् । 10 A विशालनाम्नः। 11 A तमे सद। 12 P 'च' नास्ति । 13 P प्राक्षीत् । 14 P गौरवताश्चैधि ।
www.jainelibrary.org
For Private & Personal Use Only
Jain Education Intemational
For Private & Personal Use Only