________________
६०
20
(प्रबन्धको
१६९. भजते विदेशमधिकेन जितस्तदनु प्रवेशमथवा कुशलैः ।
[*मुखमिन्दुरुज्वलकपोलमितः प्रतिमाच्छलेन सुतनोरविशत् ॥ ]
इति न्यायात् । पण्डितः - तर्हि तन्त्र' मां नय । तथाकृतं मन्त्रिणा । पण्डितसोमेश्वरं बहिरासयित्वा मन्त्री स्वयं हरिहरान्तिकमगात् । वभाण च - पण्डितसोमेश्वर देवस्तवान्तिकमागतोऽस्ति विज्ञीप्सुः । हसितो हरिहरः । आनीनयत्स्वसमीपम् । चकाराभ्युत्थानालिङ्गनमहासनादिसत्कारम् । सोमेश्वरेणोक्तम् - पण्डित ! निस्तारय मामस्मात्परकाव्यहरणकलङ्कपङ्कात् । यतः१७०. आगतस्य निजगेहमप्यरेगौरवं विदधते महाधियः ।
मीनमात्मसदनं समेयुषो गीष्पतिर्व्यधित तुङ्गतां कवेः ॥ ८ ॥
तुष्टो हरिहरो भणति स्म - मा स्म चिन्तां विधाः । पुनगौरवमारोपयिताऽस्मि त्वाम् । गतः 10 स्वस्थानं मन्त्री सोमेश्वरश्च । प्रत्यूषे राणकस भाभरे सोमेश्वर आह्रायितः । प्रस्तावना चारब्धा । यथा - जयति परमेश्वरी भारती, यत्प्रसादादेवं मम शक्तिः । श्रीवस्तुपालेनोक्तम्- किं किम् ? । हरिहरः - देव! मया कावेरीनदीतटे सारखतो' मन्त्रः साधितः । होमकाले गीर्देवी प्रत्यक्षाऽऽसीत् । वरं वृणीष्वेत्याह स्म माम् । मया जगदे - जगदेकमातर् ! यदि तुष्टाऽसि तदा एकदा भणितानां १०८ सङ्ख्यानां ऋचां षट्पदानां काव्यानां वस्तुकानां घत्तानां दण्डकानां वाऽवधारणे समर्थो 15 भूयासम् । देव्याचष्ट तथाऽस्तु । ततः प्रभृति यो यदाह १०८ तत्तु ब्रुवे । यथेदं सोमेश्वरदेवोपज्ञ काव्याष्टोत्तरशतम् । राणकेनोक्तम्-प्रत्ययः कार्यताम् । भाणितान्यष्टोत्तरशतानि तत्त च्छन्दसाम्; प्रतिभाणितानि च हरिहरेण तानि । जातो निश्चयः । पण्डितहरिहरवचने क्षुत्तृष्णातपप्रभृतिचिन्तानपेक्षः स्थितो लोकः । राणकेश्वरेण बभणे- तर्हि पण्डित ! कथमेवं दूषितः सोमेश्वरः ? । हरिहरः प्राभाषत - देव ! राणेन्द्र' ! 'पण्डितेन मय्यवज्ञा दधे । तत्फलमिदं ददे । यतः
1
१७१. प्रियं वा विप्रियं वापि सविशेषं परार्पितात् । प्रत्यर्पयन्ति ये नैव तेभ्यः साप्युर्वरा वरा ॥ ९ ॥ राणः प्राह्-तर्ह्यस्त्वेवम् । परं मिथः सरखतीपुत्रयोः स्नेहो युक्तः । इत्युक्त्वा कण्ठग्रहणमकारयत् । स्थितो निष्कलङ्कः सोमेश्वरः । वर्तते नित्यमिष्टगोष्टी । हरिहरो नैषधकाव्यान्यवसरोचि - तानि पठति । श्रीवस्तुपालः प्रीयते-अहो ! अश्रुतपूर्वाणि काव्यान्यमूनि । एकदाssलापितः हरिहरः' - पण्डित ! कोऽयं ग्रन्थः ? । पण्डितो वदति - नैषधं महाकाव्यम् । कः कविः ? | श्रीहर्षः 25 वस्तुपालेन गदितम् - तदादर्श दर्शय तर्हि । पण्डितो ब्रूते- नान्यत्रायं ग्रन्थः । चतुरो यामानर्पयिष्यामि पुस्तिकाम् | अर्पिता पुस्तिका । रात्रौ सद्यो लेखकनियोगिभिर्लेखिता नवीना पुस्तिका । जीर्णरज्वावृता, वासन्यासेन धूसरीकृत्य मुक्ता । प्रातः पण्डिताय पुस्तिका दत्ता । गृह्यतां तदिदं "स्वं नैषधम् । गृहिता पण्डितेन पुस्तिका । मन्त्रिणा न्यगादि - अस्माकमपि कोशे किलास्तीवेदं शास्त्रमिति स्मरामः । विलोक्यतां कोशः । यावद्विलम्बेनैवं कृष्टा नवीना प्रतिः । यावच्छोट्यते' 30 तावत् 'निपीय यस्य क्षितिरक्षिणः कथा' इत्यादि नैषधमुदघटिष्ट । दृष्ट्वा पण्डितहरिहरेणोक्तम्- मन्त्रिन् ! तवैव मायेयम् ।
2 A विज्ञाप्सुः । 3A व्यधुः । 4A सरस्वती० । 5 P ' माम्' नास्ति । P पुस्तके | 7 P पण्डितहरिहरः कोऽयं । 8P स्वनै0 19P • च्छोध्यते । 1 A आदर्शे 'निपीय यस्य क्षितिरक्षिणः कथास्तथाद्रियन्ते न बुधाः सुधामपि । नलः सितच्छत्रितकीर्तिमण्डलः स राशिरासीन्महसां महोज्ज्वलः ॥' इदं सम्पूर्ण पद्यं लिखितं लभ्यते ।
* एतदुत्तरार्द्धपद्यभागः A आदर्श एव लभ्यते, नान्यत्र । 1 P 'तत्र' नास्ति । 6P राण । + एतद्दण्डान्तर्गतः पाठः पतितः
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org