________________
हरिहरप्रबन्धः। पण्डिस्तूचे-देव! लघुभोजराज! विचारचतुर्मुख! सरस्वतीकण्ठाभरण ! अवधारय । वयं पण्डिताः । अस्माकं माता भारती । सा च त्रिभुवनचारिणी । एकदा भारत्या सह महेन्द्रस्य सभामगमाम । सा च सुधर्मा नाम । इन्द्रः श्रीमान् । ३ कोट्यः सुराङ्गनाः । ८४ सहस्राणि सामानिकाः। तथा
१६५. द्वादशार्का वसवोऽष्टौ विश्वेदेवास्त्रयोदश । षट्त्रिंशत् तुषिताश्चैव षष्टिराभाखरा अपि ॥ ४॥ १६६. पत्रिंशदधिके माहाराजिकाश्च शते उभे । रुद्रा एकादशैकोनपञ्चाशद्वायवोऽपि च ॥५॥
१६७. चतुर्दश तु वैकुण्ठाः सुशर्माणः पुनर्दश । साध्याश्च द्वादशेत्याद्याः प्रसिद्धा गणदेवताः ॥ ६॥ . [*एतत्समृद्धिखरूपं विलोक्य] वयं विस्मिताः स्थिताः-अहो! तपःफलभोगः। [-*इत्यादि चिन्तयन्तो यावता मः] अत्रान्तरे आगतस्तत्र कश्चन बुम्बावक्त्रः। १६८. देव! स्वर्नाथ ! कष्टं ननु क इह भवान्नन्दनोद्यानपालः
खेदस्तत्कोऽद्य केनाप्यहह हृत इतः काननात्कल्पवृक्षः । हुं मा वादीस्तदेतत्किमपि करुणया मानवानां मयैव
प्रीत्यादिष्टोऽयमुास्तिलकयति तलं वस्तुपालच्छलेन ॥ ७ ॥ - एवं तत्रालापं श्रुत्वा विस्मितोऽहं भारत्या सह पञ्चमं 'कल्पद्रुमं त्वां द्रष्टुमागाम् । एवं सविस्तरं' काव्यं व्याख्याय स्थितः पण्डितः । मन्त्री यावत्किं ददामि-इति चिन्तयति तावद् 15 डोडीयवंश्यराणभीमदेवेन जात्या वाहनोत्तीर्णाश्चतुर्विशतिरश्वा एकं च दिव्यं पदकं प्राभृतमानीतम् । तदेव पण्डिताय सर्व दत्तम् । तुष्टोऽसौ पञ्चमः कल्पतरुर्भवसि इत्युक्त्वा खोत्तारकमगात् । गतेषु कतिपयेष्वहःसु मिलितायां सभायां पुरःस्थे सोमेश्वरे राणकेन पण्डितहरिहर उक्ता-पण्डित! अत्र पुरेऽस्माभिर्वीरनारायणाख्यः प्रासादः कारितोस्ति । तत्प्रशस्तिकाव्यान्यटोत्तरं शतं सोमेश्वरदेवपार्धात्कारितम् । तत्र भवन्तोऽवदधतु । यथा शुद्धत्वे निश्चयो भवति 20 ज्ञानाम् । महालक्ष्मीदृष्टौ नाणकपरीक्षा यतः।हरिहरेणोक्तम्-कथाप्यन्तां तानि । उक्तानि सोमेश्वरेण।तानि श्रुत्वा हरिहर ऊचे-देव! सुष्टु काव्यानि परिचितानि च नः। यतो मालवीयेषूज्जयनी गतैरस्माभिः सरखतीकण्ठाभरणप्रासादगर्भगृहे पट्टिकायां श्रीभोजदेववर्णनाकाव्यान्यमून्यदृक्षत' । यदि तु प्रत्ययो नास्ति तदा परिपाट्या श्रूयन्ताम् । इत्युक्त्वा क्रमेणास्खलितान्यपाठीत् । खिन्नो राणकः । प्रीताः खलाः । व्यथिताः श्रीवस्तुपालादयः सजनाः। उत्थिता सभा। 25 हत इव मृत इव स्तभित इव जडित इव जातः सोमेश्वरः । गतः खगृहम् । हिया वदनं न दर्शयति गृहेऽपि, का कथा राजादिसदनगमनस्य ।
६६९) अथ सोमेश्वरः श्रीवस्तुपालमन्दिरं गत्वोवाच-मन्निन् ! ममैव तानि काव्यानि; नान्यथा । मम च" शक्तिं जानासि त्वम् । हरिहरस्त्वेवं मां व्यजूगुपत् । किमहं करोमि। मन्याह-तमेव शरणं श्रय । यतः
30
1A अगमम् । 2.A ३० कोट्यः। 3A ८४०. सप्तसहः। 4A धिकं । * P पुस्तक एवैष कोष्टकगतः पाठो विद्यते। 5 P कोऽपि बुम्बां पातयन्नाह । 6P पञ्चकल्प० । 7 P विस्तरं । 8 P तानि श्रुत्वा तानि हरिः। 9 A अदृश्यत । 10P श्रूयतां। 11 'च' नास्ति P1 12 AC'वं नास्ति ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org