________________
५८
रक्तो जाह्नवीजलमध्यं प्रविश्य कुलपुरोहितमाह-दानं गृहाण । विप्रेणापि करः प्रसारितः । दत्तः स्पर्शपाषाणः । तेनोक्तम्-धिक ते दानम् !, यद्भावाणं दत्से । इति क्रुद्धेनान्तरुदकं चिक्षिपे । सोऽइमा गङ्गादेच्या ललें । मन्त्री जले मङ्क्त्वा मृतः । राजा अनाथो जातः । सुरत्राण आयातः । नगरे' भाण्डं भाण्डेन स्फुटितम् । राजा युद्धायाभिमुखमागात् । ८४०० [* एतावन्ति निखा5 नानि निजदले परं एकस्यापि ] निखानखनं राजा न शृणोति । आपृच्छच तटस्थान् । तैर्बभणेम्लेच्छधनुर्ध्वानेषु मग्नानि ध्वानान्तराणि । राजा हृदयेऽहारयत् । ततो न ज्ञायते किं हतो गतो मृतो वा । [ गङ्गाजलेऽपतत्* ] यवनैर्लाता पूः ।
॥ इति श्रीहर्ष - विद्याधर - जयन्तचन्द्रप्रबन्धः ॥ ११ ॥
१२. अथ हरिहरप्रबन्धः ।
10 ९६७) श्रीहर्षवंशे हरिहरः । गौडदेश्यः सिद्धूसारखतः । स गुर्जरधरां प्रत्यचालीत् । अश्वशतद्वयम्, मानवानां शतपञ्चकम्, करभाः पञ्चाशत्, अनिवार मन्नदानम् । धवलक्ककतटग्राममागात् । राणश्री वीरधवल - श्रीवस्तुपाल-श्रीसोमेश्वरदेवेभ्यः पृथक पृथक आशीर्वादं प्रगल्भबद्धहस्तेन प्राहैषीत् । श्रीवस्तुपालो जहर्ष । उत्थाय बहुं सह नीत्वा श्रीवीरधवलाय पण्डितस्याशीर्वादमदीहशत्, तद्गुणांचावर्णयत् । राणकेनोक्तम्-किमत्र युक्तम् ? | मन्याह - देव ! विस्तरेण प्रातः पण्डि15 तस्य प्रवेशमहोत्सवः क्रियते । विपुलं देयं दीयते । राणकेनोक्तम् न्याय्यम् । ततो निवृत्तो मन्त्रिराजश्च बहुश्च । बहुना तृतीयाशीर्वादः पण्डितसोमेश्वरदेवायादर्शि' । तत्कवितया तस्य मात्सर्यमदीपिष्ट । सनिःश्वासमधोऽद्राक्षीत् । बहुं 'चालापीदपि न । आगत" उत्थाय बहुर्हरिहरान्तिकम् । उक्त राणक-मन्त्रिणोः सौमनस्यम्, सोमेश्वरस्य तु दौर्मनस्यम् । कुपितः सोमेश्वरदेवे हरिहरः । जातं प्रातः । राणकः समत्रिकः सचातुर्वर्ण्यः सर्वय सम्मुखो गतः । मिलितो 20 हरिहरः । तत्र वीरधवलं प्रति
प्रबन्धको...
25
१६२. शम्भुर्मानससन्निधौ सुरधुनीं मूर्ध्ना दधानः स्थितः, श्रीकान्तश्चरणस्थितामपि वहन्त्रेतां निलीनोऽम्बुधौ । मग्नः पङ्करुहे कमण्डलुगतामेनां दधन्नाभिभू, मन्ये वीर ! तव प्रतापदहनं ज्ञात्वोल्बणं भाविनम् ॥ १ ॥ १६३. दृष्टस्तेन शरान्किरन्नभिमुखः क्षत्रक्षये भागवो, दृष्टस्तेन निशाचरेश्वरवधव्यग्रो रघुग्रामणीः । स्तेन जयद्रथप्रमथनोन्निन्द्रः सुभद्रापति, ईष्टो येन रणाङ्गणे सरभस चौलुक्यचूडामणिः ॥ २ ॥
बटुः पृष्टः पण्डितेन - अत्र सदसि सोमेश्वरोऽस्ति न वा ? । बहुराह-स क्रोधान्नागतः । पण्डितो ज्ञात्वाऽस्थात् । जातः प्रवेशः । राणकेन दत्तं सौधं" धन-कुप्य- वसन-परिजन तुरगादिचमत्कारकम्" ।
९६८) अथ मन्त्रिगृहं गतोऽसौ । गुर्वी सभा । मत्र्यभ्युत्थानं चक्रे । ऊचे च
१६४. सुधा मधु मुधा सीधु मुधा सोऽपि सुधारसः । आस्वादितं मनोहारि यदि हारिहरं वचः ॥ ३ ॥
1 A विप्रेण । 2 P जले । 5. A अदीदिशत्; DE अदिशत् । आयातः । 11 DP सौध० ।
Jain Education International
3 AC नगरं । * P पुस्तक एवायं 6 AC प्रवेशोत्सवः । 7 A दर्शितः 12 B चमत्कारम् ।
।
For Private & Personal Use Only
कोष्ठकगतः पाठः प्राप्यते । 4 P हारयामास । 8AP कवि ० । 9 AC बटुवा० । 10 A
www.jainelibrary.org