________________
हर्षकविप्रबन्धः ।
५७
(६५) अत्रान्तरे जयन्तचन्द्रस्य पद्माकरनामा प्रधाननरः श्रीअणहिलपत्तनं गतः । तत्र सरस्तदे रजकक्षालितायां शाटिकायां केतक्यामिव मधुकरकुलं निलीयमानं दृष्ट्वा विस्मितोऽप्राक्षीद्रजकम्यस्या युवतेरियं शाटी तां मे दर्शय । तस्य हि मन्त्रिणस्तत्पद्मिनीत्वे निर्णयस्थं मनः । रजन सायं तस्मै तगृहं नीत्वा, तामर्पयित्वा तत्खामिनी सूह्वदेविनाम्नी शालापतिपत्नी विधवा यौवनस्था सुरूपा दर्शिता । तां कुमारपालराजपार्श्वादुपरोध्य तद्गृहान्नीत्वा सोमनाथयात्रां 5 कृत्वा कासीं गतः । तां पद्मिनीं जयन्तचन्द्रभोगिनी मकरोत् । सूहवदेविरिति ख्यातिमगात् । साव सगर्वा विदुषीति कृत्वा 'कलाभारती' ति पाठयति लोके । श्रीहर्षोऽपि 'नरभारती' ति पठ्यते । तस्य तन्न सहते सा मत्सरिणी ।
६६६) एकदा ससत्कारमाकारितः श्रीहर्षः । भणितश्च त्वं कः ? । श्रीहर्ष : - ' कलासवज्ञो ऽहम् । राश्याsभाणि - तर्हि मामुपानहौ परिधापय । को भावः यद्ययं न वेद्मि इति भणति द्विजत्वा- 10 तर्हि अज्ञः । श्रीहर्षेणाङ्गीकृतम् । गतो निलयम् । 'तरुवल्कलैस्तथा तथा परिकर्मितैः सायं लोलाक्षः सन् दूरस्थः स्वामिनीमाजूहवत् । चर्मकारविधिनोपानहौ पर्यदीधपत्, अभ्युक्षणं निक्षिपध्वं चर्मकारोऽहमिति वदन् । राजानमपि तत्कृतां कुचेष्टां ज्ञापयित्वा खिन्नो गङ्गातीरे संन्यासमग्रहीत् । सा च सूहवदेविः साम्राज्येशा पुत्रमजनयत् । सोऽपि यौवनमाससाद । धीरः परं दुर्नयमयः । तस्य च राज्ञो विद्याधरमन्त्री । स च चिन्तामणिविनायकप्रसादात्सर्वधातु है- 15 मत्वकरणप्रख्यातमाहात्म्यस्पर्शपाषाणलाभात् ८८०० विप्राणां भोजनंदाता इति लघुयुधिविरतया ख्यातः । कुशाग्रीयप्रज्ञः' । राजा तं जगदे - राज्यं कस्मै कुमाराय ददामि ? । मध्याहमेघचन्द्राय सुवंशाय देहि, न पुनर्धृतापुत्राय । राजा तु तया कार्मणितस्तत्पुत्रायैव दित्सति । एवं विरोध उत्पन्नो मनि राज्ञोः । कथंकथश्चिन्मत्रिणा राज्ञीवाचमप्रमाणीकार्य भूपो मेघचन्द्रकुमाराय राज्यदानमङ्गीकारितः । राज्ञी क्रुद्धा । धनाढ्यतया स्वच्छन्दतया निजप्रधाननरान् 20 प्रेष्य तक्षशिलाधिपतिः सुरत्राणः कासीभञ्जनाय प्रयाणे प्रयाणे सपादलक्ष हेमदानेन चालितः । आयाति । ततु विद्याधरेण चरदृशा विदितम् । राज्ञे कथितम् । राजा तत्कार्मणदृढमूढः प्राहममेयं वल्लभेश्वरी नैवं पतिद्रोहं समाचरति । मन्त्री तु वदति - राजन् ! अमुकप्रयाणे तिष्ठति शाखीन्द्रः " । राज्ञा हक्कितो गतो गृहम् । चिन्तितं च तेन - नृपस्तावन्मूढः; राज्ञी बलवती, लब्धप्रसरा, अविवेकिनी । मम मरणं यदि " स्वामिमरणादर्वाग् भवेत्तदा धन्यता । प्रातश्चलितो 25 मी वसदनात् । पथि गच्छन्तं पिण्याकं दृष्ट्वा तमजिग्रसिषत् । पुनः पुरो गतः स्फुटितचनकपटक मालोक्य तददने मनोऽदधत् । तेन कुचेष्टाद्वयेनात्मनो विधिवैपरीत्यं निर्णीयोपराजं गत्वा व्यज्ञपयत्" - देव ! अहं गङ्गाजले मक्त्वा म्रिये, यद्यादिशसि । राज्ञाऽऽख्यातम् - " यदि ब्रियसे तदा सुखेन जीवामः । कर्णज्वरो निवर्त्तते । मन्त्री दूनः । हुं ! -
१६१. हितवचनानाकर्णनमनये वृत्तिः प्रियेष्वपि द्वेषः । निजगुरुजनेऽप्यवज्ञा मृत्योः किल पूर्वरूपाणि ॥ ९ ॥ आगतं राज्ञो मरणम् । राजानमापृच्छय गृहं गत्वा सर्वखं" द्विजातिलोकाय प्रदाय भववि
1P प्राक्षद् । 2 P सायं गत्वा । 3P 'तां' नास्ति । 4 P पाठते । 5 ABD तरुवल्कैः । 6P भोजनं । 7 A प्रायः । 8 P बिना सर्वत्र 'मेघचन्द्रराज्य०' । 9A कार्मणमूढः; P कार्मणदिङ्मूढः । 10 A साखीन्द्रः । 11 P 'यदि' नाखि । 12 P व्यज्ञपत् । 13P राजाऽख्यत्; B राजाख्यात् । 14 A गृहे । 15 P सर्वं । 16 P द्विजादि० ।
८ प्र० को ०
Jain Education International
For Private & Personal Use Only
30
www.jainelibrary.org