________________
प्रबन्धकोशे मिव मन्यसे?। भारत्याह-भोः परमर्मभाषक ! न मरसि, यत्रोक्तं त्वया एकादशे सर्गे चतुःषष्टितमे काव्ये
१५६. देवी पवित्रितचतुर्भुजवामभागा वागालपत्पुनरिमां गरिमाभिरामाम् ।
एतस्य' निष्कृपकृपाणसनाथपाणेः पाणिग्रहादनुगृहाण गणं गुणानाम् ॥ ४॥ 5 एवं मां विष्णुपत्नीत्वेन प्रकाश्य लोके रूढं कन्यात्वं लुप्तवानसि । ततो मया पुस्तकं क्षिप्तम् ।
१५७. याचको वञ्चको व्याधिः पञ्चत्वं मर्मभाषकः । योगिनामप्यमी पञ्च प्रायणोद्वेगहेतवः ॥५॥ इति वाग्देवीवाचं श्रुत्वा श्रीहर्षों वदति-किमर्थमेकस्मिन्नवतारे नारायणं पतिं चक्रुषी। त्वं पुराणेष्वपि विष्णुपत्नीति पठ्यसे । ततः सत्ये किमिति कुप्यसि ? । कुपितैः किं छुव्यते कल.
कात्? । इति श्रुत्वा वयं गृहीत्वा पुस्तकं हस्ते धारितम् । ग्रन्थश्च श्लाघितः सभासमक्षम् । श्रीहर्षेण 10 पण्डिता उक्तास्तत्रत्या:-ग्रन्थमत्रत्याय राज्ञे माघवदेवनान्ने दर्शयत । श्रीजयन्तचन्द्राय च शुद्धोऽयं ग्रन्थ इति लेखं प्रदत्त । इति श्रुतेऽपि ग्रन्थे भारत्यभिमते ज्ञातेऽपि ते न लेखं ददते, न भूपं दर्शयन्ति । स्थितः श्रीहर्षों बहून मासान् । जग्धं पाथेयम् । विक्रीतं वृषभादि । मितीभूता परिच्छदः । एकदा नद्यासन्नदेशे कूपतटासन्नतमे देवकुले रुद्रजपं रहः करोति । तत्रागते कयोश्विद्गृहिणोरुल्लण्ठे चेव्यौ जलप्रथमपश्चाद्ग्रहणघटभरणविषये वादे लग्ने । तयोश्चिरमु15क्तिप्रत्युक्तिरभूत् । शीर्षाणि स्फुटितानि घातप्रतिघातैः । गते राजकुलम् । राजा साक्षिणं गवे. षयति । उक्ते ते-अत्र कलहे कोऽपि साक्षी विद्यते न वा? । ताभ्यां जगदे-विप्र एकस्तत्रास्ते जपतत्परः। गता राजकीयाः । आनीतः श्रीहर्षः पृष्टस्तयोर्नयानयो । श्रीहर्षेण गीर्वाणवाण्योक्तम्-देव! वैदेशिकोऽहम् । न वेद्मि किमप्येते प्राकृतवादिन्यो ब्रूतः। केवलं तान् शब्दान् वेनि।
राज्ञोक्तम्-ब्रूहि । तत्क्रमस्थमेव तदुभाषित-प्रतिभाषितशतमभिहितमनेन । राजा चमत्कृता20 अहो प्रज्ञा !, अहो अवधारणा!। दास्योर्वाद निर्णीय यथासम्भवं निग्रहानुग्रही कृत्वा प्रहित्य श्रीहर्षमपृच्छद् राजा-कस्त्वमेवं मेधिरशिरोमणिः । श्रीहर्षेणोक्तं सर्व कथानकं स्वम् । राजन्! पण्डितकृतदौर्जन्यात्तव पुरे दुःखी तिष्ठामि । सम्यक्पारम्पर्यज्ञो राजा पण्डितानाहूयावादीत्धिङ्मूढाः! ईदृशेऽपि रत्ने न लियथ ।
१५८. वरं प्रज्वलिते वह्नावहाय निहितं वपुः । न पुनर्गुणसम्पन्ने कृतः खल्पोऽपि मत्सरः ॥ ६ ॥ 25 १५९. वरं सा निर्गुणाऽवस्था यस्यां कोऽपि न मत्सरी । गुणयोगे तु वैमुख्यं प्रायः सुमनसामपि ॥७॥
तस्मात्खला यूयम् । गच्छत एतं महात्मानं प्रत्येकं खखगृहेषु सत्कुरुत । तदा श्रीहर्षः प्रागदत्
१६०. यथा यूनस्तद्वत्परमरमणीयापि रमणी कुमाराणामन्तःकरणहरणं केव कुरुते ।।
मदुक्तिश्चेतश्चेन्मदयति सुधीभूय सुधियः किमस्या नाम स्यादरसपुरुषाराधनरसैः १ ॥८॥ 30 इति ललजिरे पण्डिताः सर्वे । गृहं नीत्वा सत्कृत्यानुनीय राज्ञा च सत्कार्य 1 प्रहितः
श्रीहर्षः कासीम् । मिलितो जयन्तचन्द्राय । उक्तं सर्वम् । तुष्टः सः। प्रसृतं नैषधं लोके ।
1P अस्यारिनिष्कृ०। 2P सत्यं। 3P खगृ। 4P प्रागदीत्। 5 BDP लजिरे। 6BDE सत्कार्या।।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org