________________
१५
हर्षकविप्रबन्धः। राजदृष्टी जितः। तन्मे दुःखम् । यदि सत्पुत्रोऽसि तदा तं जयेः मापसदसि । श्रीहर्षेणोक्तम्ओमिति । हीरो यां गतः। श्रीहर्षस्तु कुटुम्बभारमाप्तदायादेष्वारोप्य विदेशं गत्वा विविधाचार्यपार्थेऽचिरात्तर्का-लङ्कार-गीत-गणित-ज्योतिष-चूडामणि-मन्त्र-व्याकरणादी: सर्वा विद्याः सस्फुराः प्रजग्राह । गङ्गातीरे सुगुरुदत्तं चिन्तामणिमत्रं वर्षमप्रमत्तः साधयामास । प्रत्यक्षा त्रिपुराऽभूत् । अमोघादेशत्वादिवराप्तिः। तदादि राजगोष्ठीषु भ्रमति । अलौकिकोल्लेखशिखरितं 5 जल्प न, यं कोऽपि न बुध्यते। ततोऽतिविद्ययाऽपि लोकागोचरभूतया खिन्नः पुनर्भारती प्रत्यक्षीकृत्याभणत्-मातः! अतिप्रज्ञाऽपि दोषाय मे जाता। बुध्यमानवचनं मां कुरु । ततो देव्योक्तम्-तर्हि मध्यरात्रेऽम्भाक्लिन्ने शिरसि दधि पिव । पश्चात्वपिहि। कफांशावताराजडतालेशमामुहि । तथैव कृतम् । बोध्यवागासीत् । खण्डनादिग्रन्थान् परम्शताञ्जग्रन्थ । कृतकृत्यीभूय कासीमायासीत् । नगरतटे स्थितः। जयन्तचन्द्रमजिज्ञपत्-अहमधीत्यागतोऽस्मि । राजाऽपि 10 गुणलेहलो हीरजेतृपण्डितेन सह सचातुर्वर्ण्यः पुरीपरिसरमसरत । श्रीहर्षों नमस्कृतः। तेनापि यथार्हमुचितं लोकाय कृतम् , राजानं त्वेवं तुष्टाव. १५३. गोविन्दनन्दनतया च वपुःश्रिया च, माऽस्मिन् नृपे कुरुत कामधियं तरुण्यः ।
__ अस्त्रीकरोति जगतां विजये स्मरः स्त्री, रस्त्रीजनः पुनरनेन विधीयते स्त्री ॥१॥ व्याचख्यौ च तारखरं सरसविस्तरम् । तुष्टा सभा राजा च। पितृवैरिणं तु वादिनं दृष्ट्वा 15 सकटाक्षमाचक्षे१५४. साहित्ये सुकुमारवस्तुनि दृढन्यायग्रहग्रन्थिले, तर्के वा मयि संविधातरि सम लीलायते भारती।
___ शय्या वास्तु मृदूत्तरच्छदवती दर्भाडरैरास्तृता, भूमिर्वा हृदयङ्गमो यदि पतिस्तुल्या रतियोषिताम् ॥२॥ एतच्छुत्वा स वादी पाह-देव ! वादीन्द्र ! भारतीसिद्ध !, तव समोऽपि न, न वाधिका'। १५५. हिंस्राः सन्ति सहस्रशोऽपि विपिने शौण्डीर्यवीर्योद्धता,-स्तस्यैकस्य पुनः स्तवीमहि महः सिंहस्य विश्वोत्तरम् । 20
___केलिः कोलकुलैर्मदो मदकलैः कोलाहलं नाहलैः, संहर्षो महिषैश्च यस्य मुमुचे साहङ्कतेर्तुङ्क्तेः ॥ ३॥ - इदं श्रुत्वा श्रीहर्षो निष्क्रोध इवासीत् । भूपेनोक्तम्-+ अत्र श्रीहर्षे इदमेव वक्तुमहम् । प्रतिवादिनां कोऽर्थः । सम्यगवसरमज्ञासीः। श्रीहीरवैरिन्नित्यर्थः । अन्योऽन्यं गाढालिङ्गनमचीकरद् द्वयोरपि वसुन्धरासुधांशुः । विस्तरेण सौधमानीय माङ्गलिकानि कारयित्वा गृहं प्रति प्रहितः । लक्षसंख्यानि हेमानि ददिरे । निश्चिन्तीकृत्यैकदा मुदा नृपेणोक्ता-कवीश! वादीन्द्र !25 किञ्चित्प्रबन्धरत्नं कुरु । ततो नैषधं महाकाव्यं बद्धं दिव्यरसं महागूढव्ययभारसारम। राजें दर्शितम् । राज्ञोचे-सुष्टुतममिदम् । परं काश्मीरं व्रज । तत्रत्यपण्डितेभ्यो दर्शय । भारतीहस्ते च मुञ्च । भारती च तत्र पीठे स्वयं साक्षाद्वसति। असत्यं प्रबन्धं हस्ते न्यस्तमवकरनिकरमिव दूरे क्षिपति । सत्यं तु मूर्द्धधूननपूर्व मुष्ठु इत्यूरीकरोति । उपरितः पुष्पाणि पतन्ति। श्रीहर्षों राजदत्तार्थनिष्पन्नविपुलसामग्रीकः काश्मीरानगमत् । सरस्वतीहस्ते पुस्तकं न्यास्थत् । सरखत्या 30 दूरे क्षिसं तत् । श्रीहर्षेण कथितम्-किं जरतीति विकलासि, यन्मदुक्तमपि प्रबन्धमितरमबन्ध. .
एतदन्तर्गतः पाठः पतितः P पुस्तके। 3 B वसुधांशुः। 4.B
- 1P भाचष्टे। 2 Pसमो कोऽपि न किं पुनरधिकः। राहो। D.केवळं।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org