________________
प्रबन्धको
तत्क्रमकमलवन्दनानन्दमन्वभूवम् । नियमानग्रहीषम् । ओढरेणापि समुत्पन्नश्रद्धेन व्याकृतम्वयमपि गुरून् वन्दिष्यामहे । जयताकेनोक्तम् - पुण्यात्पुण्यमिदम् । ओढरस्तत्र गतः । गुरून् वन्दित्वा न्यवदत् । देशना श्रुता । तत्त्वज्ञानमुन्मीलितम् । श्रावकत्वं गृहीतम् । पश्चाद्-गुरुदक्षिणा गृह्यताम् - इति ओढरेणोक्ते सूरिभिरुक्तम्-वयं निर्ममा निष्परिग्रहाः । धनादि न b गृह्णीमः । अथ तवात्याग्रह एव तर्हि श्रीमहावीरप्रासादका रापणं दक्षिणाऽस्तु । कारितः प्रासादः । ओढरस्य जयताकेन सह सोदरत्वमिवासीत् । एकदा पर्युषणे ओढरः सपरिवारश्वलितो जयताकेन समं देवगृहं प्रति । पुष्पाणि गृहीत्वा ओढरेण देवस्य पूजा कृता । जयताको जजल्पेइमानि मे पुष्पाणि गृहीत्वा पूजां कुरु । जयताको जगाद - पुष्पाणि भवदीयानि; एभिः पूजायां कृतायां किं मे फलम् ? | वेष्टिरेव केवला । केवलं ममापि पञ्श्च वराटकाः सन्ति । तत्पुष्पैः पूजयि10 ष्यामि जिनेन्द्रम् । तथैव पूजितः । जयताकः पुण्यमगण्यमुपार्जयत् । तत ओढरजयताको गुरून् वन्दितुं जग्मतुः । उपवासः कृतो जयताकेन । द्वितीयदिने मुनिभ्यो दत्त्वा पारणं कृतम् । एवं पुण्यात्यः सन् मृत्वा श्रीमूलराजवंशे तिहुअणपालदेवगृहे श्रीकुमारपालोऽभूत् । एवमुक्तवा विरतासु देवीषु प्रभुभिः प्रोक्तम् - कोऽत्र प्रत्ययः । । पुनर्देव्यः प्राहुः - उपराजं वदे:- नवलक्षतिलङ्गशृङ्गारे' नगरे उरङ्गले मानवान् प्रेषय | अद्यापि ओढरस्य वंशीयाः सन्ति । तेषां दासी स्थिर15 देवी जीर्णवृत्तान्तान् जानाति वक्ष्यति च । इदं श्रुत्वा विसृज्य गच्छन्तीभिर्देवीभिस्तत्रत्ये ओढरगृहे लप्स्यमानानि निधानानि कथितानि । विज्ञाय पत्तने राजान्तिकं गताः प्रभवः । पृष्टं तत्र राज्ञा । तथैव राज्ञोऽग्रे न्यगादि । नरप्रेषणात्सर्वं ज्ञातम् | जिनधर्मे स्थैर्य जातम् । सह— सिद्धेशेनापि वैरकारणमुपलब्धम् । पूर्वभवे गर्भघातान्न सिद्धराजस्य पुत्रः । इति कुमापालपूर्वभवः ।
20
॥ इति श्रीहेमसूरिप्रबन्धः ॥ १० ॥
100000
११. अथ हर्षकविप्रबन्धः ।
(६४) पूर्वस्यां वाराणस्यां पुरि गोविन्दचन्द्रो नाम राजा । ७५० अन्तःपुरीयौवनरसपरिमलग्राही । तत्पुत्रो जयन्तचन्द्रः । तस्मै राज्यं दत्त्वा पिता योगं प्रपद्य परलोकमसाधयत् । जयन्तचन्द्रः सप्तयोजनशतमानां पृथ्वीं जिगाय । मेघचन्द्रः कुमारस्तस्य यः सिंहनादेन सिंहानपि 25 भङ्कुमलम्, किं पुनर्मदान्धगन्धेभघटाः ? । तस्य राज्ञश्चलतः सैन्यं गङ्गा-यमुने विना नाम्भसा 'तृप्यतीति नदीद्वययष्टिग्रहणात्पङ्गुलो राजेति लोके श्रूयते । यस्य गोमतीदासी षष्टिसहस्रेषु वाहेषु प्रक्षरां निवेश्याभिषेणयन्ती परचक्रं त्रासयति । राज्ञः श्रम एव कः ? । तस्य राज्ञो बहवो विद्वांसः । तत्रैको हीरनामा विप्रः । तस्य नन्दनः प्राज्ञचक्रवर्ती श्रीहर्षः । सोऽद्यापि बालावस्थः । सभायां राजकीयेनैकेन पण्डितेन वादिना हीरो राजसमक्षं जित्वा मुद्रितवदनः कृतः । लज्जा30 पक्के मग्नः । वैरं बभार धारालम् । मृत्युकाले हर्ष स बभाषे वत्स ! अमुकेन पण्डितेनाहमाहत्य
एतदन्तर्गतपाठस्थाने P पुस्तके 'इत्युक्त्वा देव्यो
1 P विहाय सर्वत्र '० मिवास ।' 2D विशिष्टिरेव । 3P शृङ्गारन० । गताः स्वस्थानम् ।' एष पाठः । 4 P बिना नास्त्यन्यत्र 'सह' । 5 P सन्तानम् । 6P पूर्वस्यां दिशि । 7 P तृप्यति ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org