________________
हेमसूरिप्रबन्धः ।
वाय ददौ । पुनः पत्तनमैत् । गृहीतसपादलक्षाधिपतिलश्चाद्रव्यान् कुसेवकान, मिगृह्य निश्चिन्तीभूतः श्रीकुमारपालः श्रीहेमसूरिपादान् पर्युपास्ते । सामायिकपौषधादीन्याचरति ।
६६३) एकदा पृष्टं राज्ञा-भगवन् ! इदमपि ज्ञायते यदहं पूर्वभवे कीदृशोऽभूवम् ? । गुरुराहराजन् ! निरतिशयः कालोऽयम् । यतः श्रीवीरमोक्षगमनाद्वर्षाणां चतुःषष्ट्या चरमकेवली जम्बूस्वामी सिद्धिं गतः । तेन समं मनः पर्यवज्ञानम्, परमावधिः, पुलाकलब्धिः, आहारकशरीरम्, क्षप-5 कश्रेणिः, उपशमश्रेणिः, जिनकल्पः, परिहारविशुद्धि-सूक्ष्मसम्पराय यथाख्यातानि चारित्राणि, केवलज्ञानम्, सिद्धिगमनं च इति द्वादशस्थानानि भरतक्षेत्रे व्युच्छिन्नानि । सप्तत्यधिके वर्षशते ते स्थूलभद्रे स्वर्गस्थे चरमाणि चत्वारि पूर्वाणि समचतुरस्रसंस्थानं वज्रऋषभनाराचसंहननं महाप्राणध्यानं व्युच्छिन्नम् । आर्यवज्रखामिनि दशमं पूर्वम्, आद्यसंहननचतुष्कं च व्यपगतम् । ततः परं शनैः शनैः सर्वाणि पूर्वाणि प्रलयं गतानि । [सम्प्रति *] अल्पश्रुतं वर्त्तते । 10 तथापि देवतादेशात्किमपि ज्ञायते । राज्ञा विज्ञप्तम् - यथा तथा पूर्व भवं ज्ञापयत माम् । गुरुभिः प्रतिपन्नम् । ततः सिद्धपुरे निजैराप्ततपोधनैः सह सरखतीतीरं गत्वा विजने ध्याने निषण्णाः । द्वौ मुनी दिग्रक्षायां मुक्तौ । दिनत्रयान्ते विद्यादेव्य आजग्मुः । प्रभूणामग्रे ताभिरुक्तम्-यनतां सत्वेन तुष्टाः स्मः । याच्यतां किश्चित् । सूरिभिरभाणि - कुमारपालस्य प्राग्भवं वदत । ता ऊचु:- मेदपाटपरिसरे पर्वतश्रेण्यां परमारः पल्लीशो जयताको राज्यमकरोत् । अन्यायी 115 एकदा धनकनकसमृद्धा बलीवर्द्दश्रेणी तेन गृहीता । बलीवर्दाधिपतिर्नष्टः । जयताकेन सर्वं लुण्टि तम्' । बलीवर्दाधिपतिस्तु मालवदेशं गत्वा राज्ञा सह मिलित्वा सेनां गृहीत्वा तस्यां पल्लयां वेष्टकृत । कीटमारिः कृता । जयताको नष्टः । तस्य भार्या चटिता । तस्या उदरं विदार्य पुत्रं गर्भमुपले आस्फाल्य वणिज्यारकोऽवधीत् । पल्लीग्रामादि प्रज्वाल्य पुनर्मालवदेशं गतः । राज्ञा हृष्टेन पृष्टम् - कथं कथं विग्रहः कृतः । वणिज्यारकेणोक्तम्- खामिन् ! तत्पुरं प्रज्वालितम्, 20 जयताको नष्टः, तत्पत्नी चटिता सगर्भा हता । राज्ञोक्तम्-त्वया न सुष्ठु कृतम् । हत्याइयं गृहीतम् । अद्रष्टव्यमुखस्त्वम् । ममान्तिकं त्यज । निष्कासितः । लोकनिन्दोच्छलिता । तपोवनं गत्वा तपखिदीक्षा जगृहे । गाढं तपस्तस्वा मृत्वा स वणिज्यारको जयसिंहदेवो जातः । जयतास्तु स्थानभ्रंशं दृष्ट्वा देशान्तरं गतः । अटवीं गच्छतस्तस्य संडेरगच्छखामिनः श्रीयशोभद्रसूरयो मिलिताः । सूरिभिरभिहितम् - यद् भवतोऽधुना सर्व गतम्, किमर्थमन्यायं करोषि । 25 जयताकेनोक्तम्- 'बुभुक्षितः किं न करोति पापम्' । ततः सर्वमकृत्यं करोमि । सूरिभिरुक्तम्अधुना शम्बलादि' भोजनादि कारयिष्यते । अनयं मा कृथाः । भोजनवस्त्रादिकं कस्यापि पार्श्वाहापितम् । साथै हि तदादेशकारिणो बहवः । चौर्यनियमं यावज्जीवं ग्राहितः । स तिळङ्गेषु' उरकुलपुरे ओढरवणिज्यारकगृहे भोजनादिवृत्त्या भृत्योऽस्थात् । तत्र विहारे' यशोभद्रसूरयः प्राप्ताः । चतुष्पथे मिलिता जयताकस्य । श्रावकैरुपाश्रयो दत्तः । जयताकेन तत्र गत्वा हृदयशुद्ध्या 30 पुनश्चौर्यनियमो 'गृहीतः, अन्येऽपि बहवो नियमा" गृहीताः । उत्सूरे ओढरगृहं गतः । ओढरेण पृष्ठम् - तव क वेळा लग्ना । त्वां विना कार्याणि सीदन्ति । तेनोक्तम्-मम गुरवः समागताः सन्ति ।
I
1P • ख्यावचा । 2 A व्यगतं । P पुस्तक एव एष शब्दो दृश्यते । 3 A लुण्ठितं । एतद्न्तर्गतः पाठः पतितः P पुस्तके | 4 P पृष्टः । 5 D शम्बलादिकं D शम्बलभोज० । 6 A वस्त्रादि । 7 AD तिलिंगेषु । 8P विहरन् । 9A आहितः। 10 A गृहीता नियमाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org