________________
५२
द्वावपि बलिष्ठी महोत्साही राजे भौ । तथापि कलहपश्चाननश्चीत्कारान्मुञ्चन् पुनः पुनः पञ्चान्निवर्त्तते । तदा चौलुक्येन श्यामल ऊचे - श्यामल । कथमयं निवर्त्तते । श्यामलो गदति मस्वामिन्! श्रीजयसिंहदेवे विपन्ने ३० दिनानि पादुकाभ्यां राज्यं कृतम् । मालवीयराजपुत्रेण चाहडकुमारेण राज्यं प्रधानपार्श्वे याचितम् । प्रधानैस्तु परवंश्यत्वान्न दत्तम् । ततो रुष्ट्वा चाहड 5 आनाकसेवकः सञ्जातः । स भगदत्तनृपवन्महामात्रधुर्यः, अतुलबलः । तस्य सिंहनादेन कलहपञ्चाननः क्षुभ्यन् पश्चान्निवर्तते । किमत्र क्रियते, न विद्मः । चौलुक्यस्तदाकर्ण्य द्विपदीं विदार्य 'फालिकद्वयेन द्वौ गजकर्णौ पूरयामास । ततश्चाहडसिंहनादमशृण्वन् कलहपश्चाननः स्थिरतरः स्थितो गिरिवत् । वर्त्तते षट्त्रिंशदायुधैर्युद्धम् । चमत्कृते द्वे अपि सैन्ये । उदासीनतया प्रथमं ' स्थिताश्चौलुक्यीयाश्चकम्पिरे भयेन । अहो ! एकाङ्गमात्रस्यापि कुमारदेवस्यासमसमरसम्पल्ल10म्पटत्वम् । सैन्ययोर्युद्धमपि निवृत्तम् । तावेव युध्येते । अत्रान्तरे चौलुक्यो विद्युदुत्क्षिप्तकरणं दत्त्वा आनाकगजपतिस्कन्धमारूढः । क्षिप्तौ भुजौ राजोपरि । कसणकानि च्छुरिकया छित्त्वा आनाकं सढंचक च भूमौ पातयित्वा योक्त्रबन्धं क्षित्वा हृदि पादं दत्त्वा छुरीं कराग्रे ग्रहीत्वा अवादीत्-रे वाचाट! मूढ ! निर्धर्मन् ! पिशाच! स्मरसि मद्भगिन्यग्रे 'मारय मुण्डिकान्' इति वदिष्यसि ? । पूरयामि निजभगिनीप्रतिज्ञाम् । छिनद्मि ते दुर्वाकपङ्कदूषितां जिह्वाम् । इत्येवं 15 वदति कृतान्तदुष्प्रेक्ष्ये चौलुक्ये सपादलक्षीयः किञ्चिन्नाचख्यत्; केवलं" तरलतारकाभ्यां चक्षुर्भ्यामद्राक्षीत् । चौलुक्योऽप्युत्पन्नलोकोत्तरकरुणापरिणामः प्राभाणीत् - रे जाल्म ! मुक्तोऽसि न भगिनीपतित्वेन, किन्तु कृपापात्रत्वेन । पूर्वं तव देशे टोपीबन्धे "ग्रभागे जिह्निके आसाताम् । कसाया जिह्रेति सञ्ज्ञा । अतः परं जिह्वाबन्धः पश्चात्करणीयः । अवटोर्जिह्वाकर्षणप्रतिज्ञासिद्धिसूचकत्वात् । एवं श्रुते तथेति प्रतिपेदे आनाकः । 'बलवद्भिः सह का विरोधिता' इति न्यायात् । 20 काष्ठपञ्जरे क्षिप्तः । त्रिरात्रं खसैन्ये स्थापितः । जयातोधानि घोषितानि । पश्चात् शाकम्भरीपैतिर्विहितः । उत्खातप्रतिरोपितव्रताचार्यो" हि तिहुअणपालदेवनन्दनः । गम्भीरतया खभटा नोपालब्धाः । त्यक्तजीवाशास्ते तं सेवन्ते । मेडंतक" सप्तवारं भग्नम्। पल्लीकोटस्थाने आर्द्रकमुसम् । ततः पठितं चारणेन
प्रबन्धको
१५२. कुमरपाल रणइट्टि वलिउ कु करिसइ ववहरणु" । इक्कह पल्लीमट्टि ̈ वीसलक्खउ " झगडउ कियउ ॥ १३ ॥ 25 इति चिरं तस्थौ स तत्र । श्रीहेमचन्द्रसूरयः सहैव सन्ति । पृष्टास्ते तेन- भगवन् ! मालवीया राजानो गुर्जरानागताः प्रासादान् पातयन्ति आत्मख्यातये । तदस्माकमकृत्यम् । केनोपायेनात्मख्यातिं कुर्मः । " श्रीहेमसूरिपादैः प्रत्यपादि - राजेन्द्र ! पाषाणमयानि तिलपेषणयन्नाणि भञ्जय पुण्य- कीर्तिलाभात् । भञ्जितास्ते तेन घाणकाः । अद्यापि भग्नाः पतिताः स्थाने स्थाने दृश्यन्ते । ततो" ववले परराष्ट्रमर्दनचौलुक्यः । आयातः पत्तनम् । भगिनीं भर्तृकुले प्रगन्तुमतत्वरत् । 30 न तु सा गता अभिमानात् । तपस्तु तेपे । राजा स्तम्भनपुरे यात्रां सूत्रयामास । तत्पुरं पार्श्वदे
1A निववृते । 2P नास्ति पदमिदम् । 3 AP ० वंशस्त्रात् । 4 A निववृते । नास्ति । 7 P प्रथमः । 8 P सढं चक्रं । 9P नाचख्यौ । 10 AB नास्ति 'केवलं' । शाकंभरीशो | 13 ० रोषिताचार्यो । 14 P मेडतं । 1 एदतन्तर्गतः पाठो नाति P पुस्तके | 17 A बीसक्ख, B बीसकल० । 18 एतद्वाक्यस्थाने P पुस्तके 'गुरुभिरुक्तम्' छ वाक्यम्।
Jain Education International
For Private & Personal Use Only
5.B फालक० । 6 P 'स्थितो' 11 AB बन्धो । 12 AD 15 A •हरण 16 D पट्टि । 19 A नाखि 'ततो' ।
www.jainelibrary.org