________________
हेमसूरिप्रवन्धः। यत् । विज्ञस्या चाज्ञापयत्-सावधानैः स्थेयम् । इत्थमित्थं खामिपादानामुपरि शत्रुकृतं कपट वर्त्तते । भरटकश्चिन्तनीयः । चौलुक्यः सावधानस्तस्थौ । सोमवारे गतो राजा कर्णमेरुम् । प्रकटीभूतः पूर्वोक्तचेष्टया भरटकः । दृष्टमात्रमेव तं नृपो मल्लैरदीधरत् । कर्तिका च लब्धा । बद्धो व्याघ्रराजः, जल्पितश्च-रे वराक! जङ्गडकेन प्रेषितोऽसि । सेवकस्त्वम् । 'सेवकस्य च हिताहितविचारो नास्ति।' खाम्यादेशवशंवदस्त्वं मा भैः। मुक्तोऽसि । तमेव हनिष्यामि य एवं द्रोह- 5 माचरति दुर्दुरूढः । इत्युक्त्वा परिधाप्य व्यसृजत् । वयं तु सौधं गत्वा सामग्री यौद्धी व्यररचत् । पाणिरक्षां विधिवद्विधाय चलितः। सपादलक्षान् प्रविष्टः। भट्टेन आनाकनरेन्द्रमालीलपत् । यथा__१४८. अये भेक ! च्छेको भव भवतु ते कूपकुहरं, शरण्यं दुर्मत्तः किमु रटसि वाचाट ! कटुकम् ? ।
पुरः सर्पो दी विषमविषफूत्कारवदनो, ललजिह्वो धावत्यहह भवतो जिग्रसिषया ॥ ९॥ 10 आनाकोऽपि तदुद्दामशौण्डीयरिपुदूतवचः श्रुत्वा लक्षत्रयाश्वेन' नरलक्षदशकेन पञ्चाशता च मदान्धैर्गन्धगजैरचलत् । शाकम्भरीतः पञ्चक्रोश्यार्वागागतः । दिनत्रयेण युद्धं भविष्यतीति निर्णीतमुभाभ्यां राजेन्द्राभ्याम् । अन्योऽन्यमक्षान् दीव्यन्ति राजपुत्राः । योधयन्ति मल्लयोध
मेष-वृषभ-महिष-गजान् । स्फोटयन्ति नालिकेराणि । तावन्तमवकाशं लब्ध्वा सपाद. लक्षश्मापालेन निशि द्रव्यबलेन नलीयकेल्हणादयो राजकीयाश्चौलुक्यभक्ता भेदिताः खपक्षे 15 कृताः। सर्वेषामेको मन्त्रः-युद्धाय सन्नद्धव्यमेव न तु योद्धव्यम् । राजा चौलुक्य एकाकी मोचनीयः । शत्रुभिर्हन्यताम् । 'अर्थो हि परावर्त्तयति त्रिभुवनम् ।'
१४९. दधाति लोभ एवैको रङ्गाचार्येषु धुर्यताम् । आरकशक्रं यन्नायपात्राणि भुवनत्रयी ॥ १० ॥ एवं' च तेषां मनं चौलुक्योऽद्यापि न वेत्ति । अतः प्राता राजा कुमारपालः कलहपञ्चाननं पट्टहस्तिनं महामात्रश्यामलपार्धात्पुरः प्रेरयामास । तटस्थांस्तु चेष्टितैर्दुष्टान्निरणैषीत् । नृपेण 20 गदितः श्यामल:-श्यामल ! किमर्थममी उदासीना इव दृश्यन्ते ? । श्यामलेन विज्ञप्तम्-देव! अरिकृतार्थदानादमी त्वयि द्रोहपराः सम्पन्नाः।राजाऽऽह-तर्हि तव का चेष्टा । श्यामलोडप्याललाप-देव! एको देवः १, अपरोऽहम् २, अन्यस्तु कलहपञ्चाननो हस्ती ३, एते त्रयः कदापि न परावय॑न्ते । नृपो वदति-तर्हि सम्मुखीने दृश्यमाने शत्रुनृपमुद्रघट्टे गजं प्रेरय । .. १५०. साहसजुत्तइ हलु वहइ दैवह तणइ कपालि । खूटा विणु खींखइ नही खेडि म खूटा यालि* ॥११॥ 25. तदैव चारण एको न्यगादीत्१५१. कुमारपाल! मन चिंत करि चिंतिई किंपि न होइ । जिणि तुहु" रज्जु सम्मप्पिउ" चिंत करेसइ सोइ ॥१२॥
तत्तदीयं वचः श्रुत्वा सुशब्दं मन्यमानः पुरःस्थे महाघद्देऽविशत् । नरसहस्रेण सह भञ्जन नन् गतो" गजारूढः कुमारपाल आनाकगजान्तिके। आस्फालितो गजो गजेन । लग्नः करः करेण । आस्फालितो दन्तौ दन्ताभ्याम् । एकदेहत्वमिव द्वयोरिभयोरभूत् । प्रवृत्तं युद्धं नाराचैः। 30
1 BP oमारचयति । 2 P सौधे। 3 A पूत्कारि०; P पूत्कार। 4 AD नयाश्वो। 5A कोशागागतः; D. •ांगतः। 6 A यहाव्यः। 7P.एनं; D एतं । 8 P 'पुरः' नास्ति । 9 P नास्ति । * P पुस्तके एतत्पबमीशं श्यते ।
खेति म खूटा टालि खूटा विण खीखा नही । दैवह तणा कपालि साहसजुत्तइहल वल॥ 10 Dति । 11 BDTE रज। 12 D समप्पियउ। 13 A 'गतो' नास्ति। ... .
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org