________________
प्रबन्धकोशे
१० .६६२) तस्य च कुमारपालदेवस्य भग्नी शाकम्भरीश्वरेण चाहमानवंश्येन राज्ञा आनाकेन परिणीताऽस्ति । एकदा तौ सारिभिः क्रीडतः। क्रीडता राज्ञा'सारिं गृहे मुञ्चतोक्तम्-मारय मुण्डिकान्, पुनर्मारय मुण्डिकान् । एवं द्विस्त्रिः।टोपिकारहितशीर्षकत्वान्मुण्डिका गूर्जरलोका विवक्षिता; अथवा श्वेताम्बरा गूर्जरेन्द्रगुरवो मुण्डिका इति हासगर्भोक्तिः। राज्ञी कुपिता वदति-रे जङ्ग5 डक! जिह्वामालोच्य नोच्यते ?, किं वक्षि?। न पश्यसि माम् ? । न जानासि मम भ्रातरं राजराक्षसम्? । क्रुद्धो राजा तां पदा जघान । साप्याह-यदि ते जिह्वां अवटुपथेन नाकर्षयामि तदा राजपुत्री मां मा मंस्थाः। इति वदन्त्येव सा ससैन्या निर्विलम्ब श्रीपत्तनमेत्य चौलुक्याय तं परिभवं प्रतिज्ञां च खोपज्ञामजिज्ञपत् । चौलुक्योऽभाषत-इत्थमेव करिष्यामः । कौतुकं पश्यः । ततश्चानाकस्तस्यां तत्र गतायां गूर्जरनृपतेजो दुर्द्धरं विदंश्चक्षोभ । चौलुक्योऽपि बह्राप्तपरिच्छदं 10 मत्रिणमेकं तत्रत्यवृत्तान्तज्ञानाय प्रेषीत् । गतः स तत्र । जग्राह गृहम् । राजासनदासीमेकां धनेन रञ्जयित्वा आत्मीयं भोगपात्रमकरोत् । नित्यं सा याममात्र्यां रात्र्यामायाति रञ्जयति तम्। एकदा निशीथे साऽऽगात्। मन्त्री कुपितः-आः पापे! 'परापरगामिनि! किमिति विलम्बन समागतासि ?। सापि सप्रश्रयं मत्रिणमभाषत-खामिन् ! मा कुपः । कारणेन स्थिताऽस्मि । 'मश्रिणोचे-किं कारणम् ? । सा जगाद-प्रभो! 'अहं अन्नस्य राज्ञस्ताम्बूलदासी । रात्रेर्याम एक15 मिन राज्ञा परिच्छदः सर्वो विसृष्टः। अहमपि विसृष्टा। विसृजता चाप्तनर एकोऽभाषि-व्याघ्रराजं हवारय । अहं स्तम्भान्तरिता कौतकेन स्थिता। को व्याघ्रराजः१. कथं 'चायते? इति । ततो राज्ञाऽऽकारितः स आगतः। कृतप्रणामः सन् राज्ञाऽऽलापि-भो! विजनमस्ति इति भाष्यसे । त्वमस्माकं कुलक्रमागतः सेवकः। सद्यो व्रज । गूर्जरेश्वरघातको भूत्वा व्यापादय तम् । लक्षत्रयं
हेन्नां दास्ये । अथ स व्याघ्रराजाख्यो बभाषे-देव ! हनिष्याम्येव तं राजानम् । मा म संशयं 20 कृथाः खामिन् ! । ततस्तद्वचः श्रुत्वा तुष्टः शाकम्भरीश्वरः। सद्यो हेमलक्षत्रयबदरकांस्तद्गृहायाचीचलत्। व्याघ्रराजं चापाक्षीत्-कदा केनोपायेन तं हनिष्यसि ? । व्याघ्रराजोऽवादीत्-नाथ ! अद्य रविवारो वर्त्तते । आगन्तुकामे सोमवारे कचनावसरं लब्ध्वा हनिष्यामि । उपायस्तु भरटकरूपं करिष्यामि । राजा तु कर्णमेरुप्रासादे आयाति सोमवारे ध्रुवम् । देवं नत्वा व्यावर्त्तमानायास्मै बाह्याङ्गणे शेषादानमिषेण पुष्पकलम्बकमुत्पाटयिष्यामि । तत्र धृतया कर्तिकया कङ्क25 मय्या घातयिष्यामि। 'अङ्गीकृतसाहसानां न किञ्चिदपि दुष्करम् ।' अहं हतश्चेत्तत्र तदा मन्मानुषाणामुपरि कृपा करणीया । उद्धृतश्चेदहं तदा" जितं जितम् । एवं व्याघ्रराजेन निगदिते आनाकेन पीटकं दत्तम् । विसृष्टोऽसौ । तत्सर्वं सावधानतया" स्तम्भान्तरितया मया श्रुतम् । राज्ञि शुद्धान्ते गतेऽहं त्वदजिसेवार्थमायाता। तस्मान्मा मनो मयि क्रोधकश्मलितं कार्षीः । एतदासीवचः श्रुत्वा चौलुक्यनियोगी चिन्तयति-लब्धं शत्रुगृहमर्म । यतिष्येऽतः कार्यकरणाय । 30 इति परामृशन् दासीमभाषत-याहि मृषाभाषिणि !, कः स्त्रीवचसि विश्वासः ।
. १४७. श्रूयते यन्न शास्त्रेषु यलोकेऽपि न दृश्यते । तत्कल्पयन्ति लोलाक्ष्यो जल्पन्ति स्थापयन्ति च ॥ ८॥
इत्यादि भाषित्वा तां व्यस्राक्षीत् । स्वयं तु चतुरांश्चतुरो यामलिकानुपचौलुक्यं प्रास्थाप- 1P सारिगृहे। 2 B पश्य। 3 BDP परन। 4 A मंश्योचे, D मंत्री उचे। 5 BC 'अहं' नास्ति । 6 ABP अनस्य' नास्ति। 7 P कथमा०। 8 DP 'तम्' नास्ति । । एतदन्तर्गता पंक्तिर्नास्ति A भादशैं। 9P उद्धृतः। 10A 'तदा' नास्ति। 11 AD सावधानया।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org