________________
. हेमसूरिप्रबन्धः। टकवस्त्रापथराजिमत्यादिगुहामायस्थानयात्रया महादानैश्च धन-जीवितव्ययोर्लाभमग्रहीत् । देवपत्तने चन्द्रप्रभयात्रा ससङ्घस्यासीत् । ततो व्याधुव्य शत्रुञ्जयाद्रिं गतः। आरूढः। मरुदेवादर्शन-पूजे । तत्राशी:१४३. बालो मे वृषभो भरं सुमनसामप्येष कि सासहि-मन्दं धेहि किरीटमस्य करयोर्मा काङ्गणी भूयथा ।। ____गाङ्गेयं कटिसूत्रमत्र तनुकं युक्तं बलिष्ठेऽप्यमू-थे मातृदयागिरः सुरजने हास्यावहाः पान्तु वः ॥ ४ ॥ पुरः कपर्दी तत्र कायोत्सर्गः। आशीस्तु
१४४. रूढिः किलैवं वृषभः कपर्दिनं निषेवतेऽस्मिन्विमलाचले पुनः ।
___ अयं कपर्दी वृषभं शुभाशयस्तनोतु वः शान्तिकपौष्टिकश्रियम् ॥५॥ पुरो पृषभप्रभुप्रासादः । देवदर्शनं पूजा । आशीर्वाद:१४५. नव्योद्वाहविधौ वधूद्वययुतं पुत्रं सवित्रीरति-प्रीत्यासन्नमिव स्मरं किल ददौ यं वीक्ष्य सत्याशिषम् । 10 कल्पद्रुर्भुवि जङ्गमः किमधुना पत्रद्वयेनोगत-स्तत्त्वं स्याः शतशाख इत्यनुदिनं स श्रेयसे नाभिभूः ॥ ६॥
चैत्यपरिपाट्यां कपर्याह१४६. श्रीचौलुक्य ! स दक्षिणस्तव करः पूर्व समासूत्रितः, प्राणिप्राणविघातपातकसखः शुद्धो जिनेन्द्रार्चनात् ।
___ वामोऽप्येष तथैव पातकसखः शुद्धिं कथं प्राप्नुयात्, न स्पृश्येत करेण चेद्यतिपतेः श्रीहेमचन्द्रप्रभोः ॥७॥ ६६१) मेरुमहाध्वजावारितान्नदानयाचकसत्काराः प्रवर्तन्ते । मालोद्घनप्रस्तावे तादृशि सङ्के 15 राज्ञि च निषण्णे महं वाग्भटः प्रथमं लक्षचतुष्कमवदत् । प्रच्छन्नधार्मिकः कश्चित्कथापयतिलक्षाडौ। एषमन्यान्येष्वीश्वरेषु वर्द्धयत्मु कश्चित्सपावकोटीं चकार। राजाऽपि चमचकार, उवाच च-उत्थाप्यतां स यो गृह्णाति । उत्थितः सः। यावद् दृश्यते तावद्वादरमलिनवसनो वणिगरूपः। राज्ञा वागभटो भाषितः-द्रम्मसुस्थं कृत्वा देहि । वागभटो वणिजा सहोत्थाय पादुकान्तिकं गत्वा द्रम्मसुस्थं पप्रच्छ । तं वणिजा सपादकोटिमूल्यं माणिक्यं दर्शितम् । मश्रिणा पृष्टम्-20 कृत इदं ते?। वणिगाह-महुअकवास्तव्यो मत्पिता हंसाख्या सौराष्ट्रिका प्राग्वाटः । अहं त - जंगडमाता मे धारू। मम पित्रा निधनसमयेऽहं भाषितः-वत्स! चिरं कृताः प्रवहणयात्रा, फलिताश्च । मेलितं धनम् । तेन च क्रीतं प्रत्येकं सपादकोटिमूल्यं माणिक्यपञ्चकम् । अधुना प्रभु वृषभचरणौ शरणं मे । अनशनं प्रतिपन्नम् । 'क्षामिताः सर्वे जीवाः । एकं माणिक्यं श्रीऋषभाय, एकं श्रीनेमिनाथाय, एकं श्रीचन्द्रप्रभाय दद्याः। माणिक्यद्वयमात्मनोऽन्तर्धनं दध्या:, 25 पामधनमपि प्रचुरतरमास्ते । इदानी माता मया सहानीता कपर्दिभवने मुक्ताऽस्ति । तां जरती मातरं सर्वतीर्थाधिकतया 'पुराणपुरुषैनिवेदितामेतां माला परिधापयिष्यामि । श्रुत्वा हृष्टो मानी राजा सहय। मातृसम्मुखगमनं सर्वश्रावकाणाम् ; मालापरिधापनम् । तन्माणिक्यं हेना खचित्वा श्रीऋषभाय कण्ठाभरणमनकिरणभरितचैत्यगर्भमासूत्रयामहे । 'चलितः सङ्घः । प्राप्तः पत्तनम् । प्रवसेन्ते सङ्घभोज्यानि प्रतिलाभनाश्च । अमारिस्तु नित्यैव।
30
1Dमरः। 2Eमुखः। 3ADE'यो नाति 4A | 5AB क्षमिताः। 6A पुराणे। 7Pण। 8Bवलितः।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org