Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 76
________________ हेमसूरिप्रबन्धः । वाय ददौ । पुनः पत्तनमैत् । गृहीतसपादलक्षाधिपतिलश्चाद्रव्यान् कुसेवकान, मिगृह्य निश्चिन्तीभूतः श्रीकुमारपालः श्रीहेमसूरिपादान् पर्युपास्ते । सामायिकपौषधादीन्याचरति । ६६३) एकदा पृष्टं राज्ञा-भगवन् ! इदमपि ज्ञायते यदहं पूर्वभवे कीदृशोऽभूवम् ? । गुरुराहराजन् ! निरतिशयः कालोऽयम् । यतः श्रीवीरमोक्षगमनाद्वर्षाणां चतुःषष्ट्या चरमकेवली जम्बूस्वामी सिद्धिं गतः । तेन समं मनः पर्यवज्ञानम्, परमावधिः, पुलाकलब्धिः, आहारकशरीरम्, क्षप-5 कश्रेणिः, उपशमश्रेणिः, जिनकल्पः, परिहारविशुद्धि-सूक्ष्मसम्पराय यथाख्यातानि चारित्राणि, केवलज्ञानम्, सिद्धिगमनं च इति द्वादशस्थानानि भरतक्षेत्रे व्युच्छिन्नानि । सप्तत्यधिके वर्षशते ते स्थूलभद्रे स्वर्गस्थे चरमाणि चत्वारि पूर्वाणि समचतुरस्रसंस्थानं वज्रऋषभनाराचसंहननं महाप्राणध्यानं व्युच्छिन्नम् । आर्यवज्रखामिनि दशमं पूर्वम्, आद्यसंहननचतुष्कं च व्यपगतम् । ततः परं शनैः शनैः सर्वाणि पूर्वाणि प्रलयं गतानि । [सम्प्रति *] अल्पश्रुतं वर्त्तते । 10 तथापि देवतादेशात्किमपि ज्ञायते । राज्ञा विज्ञप्तम् - यथा तथा पूर्व भवं ज्ञापयत माम् । गुरुभिः प्रतिपन्नम् । ततः सिद्धपुरे निजैराप्ततपोधनैः सह सरखतीतीरं गत्वा विजने ध्याने निषण्णाः । द्वौ मुनी दिग्रक्षायां मुक्तौ । दिनत्रयान्ते विद्यादेव्य आजग्मुः । प्रभूणामग्रे ताभिरुक्तम्-यनतां सत्वेन तुष्टाः स्मः । याच्यतां किश्चित् । सूरिभिरभाणि - कुमारपालस्य प्राग्भवं वदत । ता ऊचु:- मेदपाटपरिसरे पर्वतश्रेण्यां परमारः पल्लीशो जयताको राज्यमकरोत् । अन्यायी 115 एकदा धनकनकसमृद्धा बलीवर्द्दश्रेणी तेन गृहीता । बलीवर्दाधिपतिर्नष्टः । जयताकेन सर्वं लुण्टि तम्' । बलीवर्दाधिपतिस्तु मालवदेशं गत्वा राज्ञा सह मिलित्वा सेनां गृहीत्वा तस्यां पल्लयां वेष्टकृत । कीटमारिः कृता । जयताको नष्टः । तस्य भार्या चटिता । तस्या उदरं विदार्य पुत्रं गर्भमुपले आस्फाल्य वणिज्यारकोऽवधीत् । पल्लीग्रामादि प्रज्वाल्य पुनर्मालवदेशं गतः । राज्ञा हृष्टेन पृष्टम् - कथं कथं विग्रहः कृतः । वणिज्यारकेणोक्तम्- खामिन् ! तत्पुरं प्रज्वालितम्, 20 जयताको नष्टः, तत्पत्नी चटिता सगर्भा हता । राज्ञोक्तम्-त्वया न सुष्ठु कृतम् । हत्याइयं गृहीतम् । अद्रष्टव्यमुखस्त्वम् । ममान्तिकं त्यज । निष्कासितः । लोकनिन्दोच्छलिता । तपोवनं गत्वा तपखिदीक्षा जगृहे । गाढं तपस्तस्वा मृत्वा स वणिज्यारको जयसिंहदेवो जातः । जयतास्तु स्थानभ्रंशं दृष्ट्वा देशान्तरं गतः । अटवीं गच्छतस्तस्य संडेरगच्छखामिनः श्रीयशोभद्रसूरयो मिलिताः । सूरिभिरभिहितम् - यद् भवतोऽधुना सर्व गतम्, किमर्थमन्यायं करोषि । 25 जयताकेनोक्तम्- 'बुभुक्षितः किं न करोति पापम्' । ततः सर्वमकृत्यं करोमि । सूरिभिरुक्तम्अधुना शम्बलादि' भोजनादि कारयिष्यते । अनयं मा कृथाः । भोजनवस्त्रादिकं कस्यापि पार्श्वाहापितम् । साथै हि तदादेशकारिणो बहवः । चौर्यनियमं यावज्जीवं ग्राहितः । स तिळङ्गेषु' उरकुलपुरे ओढरवणिज्यारकगृहे भोजनादिवृत्त्या भृत्योऽस्थात् । तत्र विहारे' यशोभद्रसूरयः प्राप्ताः । चतुष्पथे मिलिता जयताकस्य । श्रावकैरुपाश्रयो दत्तः । जयताकेन तत्र गत्वा हृदयशुद्ध्या 30 पुनश्चौर्यनियमो 'गृहीतः, अन्येऽपि बहवो नियमा" गृहीताः । उत्सूरे ओढरगृहं गतः । ओढरेण पृष्ठम् - तव क वेळा लग्ना । त्वां विना कार्याणि सीदन्ति । तेनोक्तम्-मम गुरवः समागताः सन्ति । I 1P • ख्यावचा । 2 A व्यगतं । P पुस्तक एव एष शब्दो दृश्यते । 3 A लुण्ठितं । एतद्न्तर्गतः पाठः पतितः P पुस्तके | 4 P पृष्टः । 5 D शम्बलादिकं D शम्बलभोज० । 6 A वस्त्रादि । 7 AD तिलिंगेषु । 8P विहरन् । 9A आहितः। 10 A गृहीता नियमाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176