Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 75
________________ ५२ द्वावपि बलिष्ठी महोत्साही राजे भौ । तथापि कलहपश्चाननश्चीत्कारान्मुञ्चन् पुनः पुनः पञ्चान्निवर्त्तते । तदा चौलुक्येन श्यामल ऊचे - श्यामल । कथमयं निवर्त्तते । श्यामलो गदति मस्वामिन्! श्रीजयसिंहदेवे विपन्ने ३० दिनानि पादुकाभ्यां राज्यं कृतम् । मालवीयराजपुत्रेण चाहडकुमारेण राज्यं प्रधानपार्श्वे याचितम् । प्रधानैस्तु परवंश्यत्वान्न दत्तम् । ततो रुष्ट्वा चाहड 5 आनाकसेवकः सञ्जातः । स भगदत्तनृपवन्महामात्रधुर्यः, अतुलबलः । तस्य सिंहनादेन कलहपञ्चाननः क्षुभ्यन् पश्चान्निवर्तते । किमत्र क्रियते, न विद्मः । चौलुक्यस्तदाकर्ण्य द्विपदीं विदार्य 'फालिकद्वयेन द्वौ गजकर्णौ पूरयामास । ततश्चाहडसिंहनादमशृण्वन् कलहपश्चाननः स्थिरतरः स्थितो गिरिवत् । वर्त्तते ष‌ट्त्रिंशदायुधैर्युद्धम् । चमत्कृते द्वे अपि सैन्ये । उदासीनतया प्रथमं ' स्थिताश्चौलुक्यीयाश्चकम्पिरे भयेन । अहो ! एकाङ्गमात्रस्यापि कुमारदेवस्यासमसमरसम्पल्ल10म्पटत्वम् । सैन्ययोर्युद्धमपि निवृत्तम् । तावेव युध्येते । अत्रान्तरे चौलुक्यो विद्युदुत्क्षिप्तकरणं दत्त्वा आनाकगजपतिस्कन्धमारूढः । क्षिप्तौ भुजौ राजोपरि । कसणकानि च्छुरिकया छित्त्वा आनाकं सढंचक च भूमौ पातयित्वा योक्त्रबन्धं क्षित्वा हृदि पादं दत्त्वा छुरीं कराग्रे ग्रहीत्वा अवादीत्-रे वाचाट! मूढ ! निर्धर्मन् ! पिशाच! स्मरसि मद्भगिन्यग्रे 'मारय मुण्डिकान्' इति वदिष्यसि ? । पूरयामि निजभगिनीप्रतिज्ञाम् । छिनद्मि ते दुर्वाकपङ्कदूषितां जिह्वाम् । इत्येवं 15 वदति कृतान्तदुष्प्रेक्ष्ये चौलुक्ये सपादलक्षीयः किञ्चिन्नाचख्यत्; केवलं" तरलतारकाभ्यां चक्षुर्भ्यामद्राक्षीत् । चौलुक्योऽप्युत्पन्नलोकोत्तरकरुणापरिणामः प्राभाणीत् - रे जाल्म ! मुक्तोऽसि न भगिनीपतित्वेन, किन्तु कृपापात्रत्वेन । पूर्वं तव देशे टोपीबन्धे "ग्रभागे जिह्निके आसाताम् । कसाया जिह्रेति सञ्ज्ञा । अतः परं जिह्वाबन्धः पश्चात्करणीयः । अवटोर्जिह्वाकर्षणप्रतिज्ञासिद्धिसूचकत्वात् । एवं श्रुते तथेति प्रतिपेदे आनाकः । 'बलवद्भिः सह का विरोधिता' इति न्यायात् । 20 काष्ठपञ्जरे क्षिप्तः । त्रिरात्रं खसैन्ये स्थापितः । जयातोधानि घोषितानि । पश्चात् शाकम्भरीपैतिर्विहितः । उत्खातप्रतिरोपितव्रताचार्यो" हि तिहुअणपालदेवनन्दनः । गम्भीरतया खभटा नोपालब्धाः । त्यक्तजीवाशास्ते तं सेवन्ते । मेडंतक" सप्तवारं भग्नम्। पल्लीकोटस्थाने आर्द्रकमुसम् । ततः पठितं चारणेन प्रबन्धको १५२. कुमरपाल रणइट्टि वलिउ कु करिसइ ववहरणु" । इक्कह पल्लीमट्टि ̈ वीसलक्खउ " झगडउ कियउ ॥ १३ ॥ 25 इति चिरं तस्थौ स तत्र । श्रीहेमचन्द्रसूरयः सहैव सन्ति । पृष्टास्ते तेन- भगवन् ! मालवीया राजानो गुर्जरानागताः प्रासादान् पातयन्ति आत्मख्यातये । तदस्माकमकृत्यम् । केनोपायेनात्मख्यातिं कुर्मः । " श्रीहेमसूरिपादैः प्रत्यपादि - राजेन्द्र ! पाषाणमयानि तिलपेषणयन्नाणि भञ्जय पुण्य- कीर्तिलाभात् । भञ्जितास्ते तेन घाणकाः । अद्यापि भग्नाः पतिताः स्थाने स्थाने दृश्यन्ते । ततो" ववले परराष्ट्रमर्दनचौलुक्यः । आयातः पत्तनम् । भगिनीं भर्तृकुले प्रगन्तुमतत्वरत् । 30 न तु सा गता अभिमानात् । तपस्तु तेपे । राजा स्तम्भनपुरे यात्रां सूत्रयामास । तत्पुरं पार्श्वदे 1A निववृते । 2P नास्ति पदमिदम् । 3 AP ० वंशस्त्रात् । 4 A निववृते । नास्ति । 7 P प्रथमः । 8 P सढं चक्रं । 9P नाचख्यौ । 10 AB नास्ति 'केवलं' । शाकंभरीशो | 13 ० रोषिताचार्यो । 14 P मेडतं । 1 एदतन्तर्गतः पाठो नाति P पुस्तके | 17 A बीसक्ख, B बीसकल० । 18 एतद्वाक्यस्थाने P पुस्तके 'गुरुभिरुक्तम्' छ वाक्यम्। Jain Education International For Private & Personal Use Only 5.B फालक० । 6 P 'स्थितो' 11 AB बन्धो । 12 AD 15 A •हरण 16 D पट्टि । 19 A नाखि 'ततो' । www.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176