Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 73
________________ प्रबन्धकोशे १० .६६२) तस्य च कुमारपालदेवस्य भग्नी शाकम्भरीश्वरेण चाहमानवंश्येन राज्ञा आनाकेन परिणीताऽस्ति । एकदा तौ सारिभिः क्रीडतः। क्रीडता राज्ञा'सारिं गृहे मुञ्चतोक्तम्-मारय मुण्डिकान्, पुनर्मारय मुण्डिकान् । एवं द्विस्त्रिः।टोपिकारहितशीर्षकत्वान्मुण्डिका गूर्जरलोका विवक्षिता; अथवा श्वेताम्बरा गूर्जरेन्द्रगुरवो मुण्डिका इति हासगर्भोक्तिः। राज्ञी कुपिता वदति-रे जङ्ग5 डक! जिह्वामालोच्य नोच्यते ?, किं वक्षि?। न पश्यसि माम् ? । न जानासि मम भ्रातरं राजराक्षसम्? । क्रुद्धो राजा तां पदा जघान । साप्याह-यदि ते जिह्वां अवटुपथेन नाकर्षयामि तदा राजपुत्री मां मा मंस्थाः। इति वदन्त्येव सा ससैन्या निर्विलम्ब श्रीपत्तनमेत्य चौलुक्याय तं परिभवं प्रतिज्ञां च खोपज्ञामजिज्ञपत् । चौलुक्योऽभाषत-इत्थमेव करिष्यामः । कौतुकं पश्यः । ततश्चानाकस्तस्यां तत्र गतायां गूर्जरनृपतेजो दुर्द्धरं विदंश्चक्षोभ । चौलुक्योऽपि बह्राप्तपरिच्छदं 10 मत्रिणमेकं तत्रत्यवृत्तान्तज्ञानाय प्रेषीत् । गतः स तत्र । जग्राह गृहम् । राजासनदासीमेकां धनेन रञ्जयित्वा आत्मीयं भोगपात्रमकरोत् । नित्यं सा याममात्र्यां रात्र्यामायाति रञ्जयति तम्। एकदा निशीथे साऽऽगात्। मन्त्री कुपितः-आः पापे! 'परापरगामिनि! किमिति विलम्बन समागतासि ?। सापि सप्रश्रयं मत्रिणमभाषत-खामिन् ! मा कुपः । कारणेन स्थिताऽस्मि । 'मश्रिणोचे-किं कारणम् ? । सा जगाद-प्रभो! 'अहं अन्नस्य राज्ञस्ताम्बूलदासी । रात्रेर्याम एक15 मिन राज्ञा परिच्छदः सर्वो विसृष्टः। अहमपि विसृष्टा। विसृजता चाप्तनर एकोऽभाषि-व्याघ्रराजं हवारय । अहं स्तम्भान्तरिता कौतकेन स्थिता। को व्याघ्रराजः१. कथं 'चायते? इति । ततो राज्ञाऽऽकारितः स आगतः। कृतप्रणामः सन् राज्ञाऽऽलापि-भो! विजनमस्ति इति भाष्यसे । त्वमस्माकं कुलक्रमागतः सेवकः। सद्यो व्रज । गूर्जरेश्वरघातको भूत्वा व्यापादय तम् । लक्षत्रयं हेन्नां दास्ये । अथ स व्याघ्रराजाख्यो बभाषे-देव ! हनिष्याम्येव तं राजानम् । मा म संशयं 20 कृथाः खामिन् ! । ततस्तद्वचः श्रुत्वा तुष्टः शाकम्भरीश्वरः। सद्यो हेमलक्षत्रयबदरकांस्तद्गृहायाचीचलत्। व्याघ्रराजं चापाक्षीत्-कदा केनोपायेन तं हनिष्यसि ? । व्याघ्रराजोऽवादीत्-नाथ ! अद्य रविवारो वर्त्तते । आगन्तुकामे सोमवारे कचनावसरं लब्ध्वा हनिष्यामि । उपायस्तु भरटकरूपं करिष्यामि । राजा तु कर्णमेरुप्रासादे आयाति सोमवारे ध्रुवम् । देवं नत्वा व्यावर्त्तमानायास्मै बाह्याङ्गणे शेषादानमिषेण पुष्पकलम्बकमुत्पाटयिष्यामि । तत्र धृतया कर्तिकया कङ्क25 मय्या घातयिष्यामि। 'अङ्गीकृतसाहसानां न किञ्चिदपि दुष्करम् ।' अहं हतश्चेत्तत्र तदा मन्मानुषाणामुपरि कृपा करणीया । उद्धृतश्चेदहं तदा" जितं जितम् । एवं व्याघ्रराजेन निगदिते आनाकेन पीटकं दत्तम् । विसृष्टोऽसौ । तत्सर्वं सावधानतया" स्तम्भान्तरितया मया श्रुतम् । राज्ञि शुद्धान्ते गतेऽहं त्वदजिसेवार्थमायाता। तस्मान्मा मनो मयि क्रोधकश्मलितं कार्षीः । एतदासीवचः श्रुत्वा चौलुक्यनियोगी चिन्तयति-लब्धं शत्रुगृहमर्म । यतिष्येऽतः कार्यकरणाय । 30 इति परामृशन् दासीमभाषत-याहि मृषाभाषिणि !, कः स्त्रीवचसि विश्वासः । . १४७. श्रूयते यन्न शास्त्रेषु यलोकेऽपि न दृश्यते । तत्कल्पयन्ति लोलाक्ष्यो जल्पन्ति स्थापयन्ति च ॥ ८॥ इत्यादि भाषित्वा तां व्यस्राक्षीत् । स्वयं तु चतुरांश्चतुरो यामलिकानुपचौलुक्यं प्रास्थाप- 1P सारिगृहे। 2 B पश्य। 3 BDP परन। 4 A मंश्योचे, D मंत्री उचे। 5 BC 'अहं' नास्ति । 6 ABP अनस्य' नास्ति। 7 P कथमा०। 8 DP 'तम्' नास्ति । । एतदन्तर्गता पंक्तिर्नास्ति A भादशैं। 9P उद्धृतः। 10A 'तदा' नास्ति। 11 AD सावधानया। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176