Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 72
________________ . हेमसूरिप्रबन्धः। टकवस्त्रापथराजिमत्यादिगुहामायस्थानयात्रया महादानैश्च धन-जीवितव्ययोर्लाभमग्रहीत् । देवपत्तने चन्द्रप्रभयात्रा ससङ्घस्यासीत् । ततो व्याधुव्य शत्रुञ्जयाद्रिं गतः। आरूढः। मरुदेवादर्शन-पूजे । तत्राशी:१४३. बालो मे वृषभो भरं सुमनसामप्येष कि सासहि-मन्दं धेहि किरीटमस्य करयोर्मा काङ्गणी भूयथा ।। ____गाङ्गेयं कटिसूत्रमत्र तनुकं युक्तं बलिष्ठेऽप्यमू-थे मातृदयागिरः सुरजने हास्यावहाः पान्तु वः ॥ ४ ॥ पुरः कपर्दी तत्र कायोत्सर्गः। आशीस्तु १४४. रूढिः किलैवं वृषभः कपर्दिनं निषेवतेऽस्मिन्विमलाचले पुनः । ___ अयं कपर्दी वृषभं शुभाशयस्तनोतु वः शान्तिकपौष्टिकश्रियम् ॥५॥ पुरो पृषभप्रभुप्रासादः । देवदर्शनं पूजा । आशीर्वाद:१४५. नव्योद्वाहविधौ वधूद्वययुतं पुत्रं सवित्रीरति-प्रीत्यासन्नमिव स्मरं किल ददौ यं वीक्ष्य सत्याशिषम् । 10 कल्पद्रुर्भुवि जङ्गमः किमधुना पत्रद्वयेनोगत-स्तत्त्वं स्याः शतशाख इत्यनुदिनं स श्रेयसे नाभिभूः ॥ ६॥ चैत्यपरिपाट्यां कपर्याह१४६. श्रीचौलुक्य ! स दक्षिणस्तव करः पूर्व समासूत्रितः, प्राणिप्राणविघातपातकसखः शुद्धो जिनेन्द्रार्चनात् । ___ वामोऽप्येष तथैव पातकसखः शुद्धिं कथं प्राप्नुयात्, न स्पृश्येत करेण चेद्यतिपतेः श्रीहेमचन्द्रप्रभोः ॥७॥ ६६१) मेरुमहाध्वजावारितान्नदानयाचकसत्काराः प्रवर्तन्ते । मालोद्घनप्रस्तावे तादृशि सङ्के 15 राज्ञि च निषण्णे महं वाग्भटः प्रथमं लक्षचतुष्कमवदत् । प्रच्छन्नधार्मिकः कश्चित्कथापयतिलक्षाडौ। एषमन्यान्येष्वीश्वरेषु वर्द्धयत्मु कश्चित्सपावकोटीं चकार। राजाऽपि चमचकार, उवाच च-उत्थाप्यतां स यो गृह्णाति । उत्थितः सः। यावद् दृश्यते तावद्वादरमलिनवसनो वणिगरूपः। राज्ञा वागभटो भाषितः-द्रम्मसुस्थं कृत्वा देहि । वागभटो वणिजा सहोत्थाय पादुकान्तिकं गत्वा द्रम्मसुस्थं पप्रच्छ । तं वणिजा सपादकोटिमूल्यं माणिक्यं दर्शितम् । मश्रिणा पृष्टम्-20 कृत इदं ते?। वणिगाह-महुअकवास्तव्यो मत्पिता हंसाख्या सौराष्ट्रिका प्राग्वाटः । अहं त - जंगडमाता मे धारू। मम पित्रा निधनसमयेऽहं भाषितः-वत्स! चिरं कृताः प्रवहणयात्रा, फलिताश्च । मेलितं धनम् । तेन च क्रीतं प्रत्येकं सपादकोटिमूल्यं माणिक्यपञ्चकम् । अधुना प्रभु वृषभचरणौ शरणं मे । अनशनं प्रतिपन्नम् । 'क्षामिताः सर्वे जीवाः । एकं माणिक्यं श्रीऋषभाय, एकं श्रीनेमिनाथाय, एकं श्रीचन्द्रप्रभाय दद्याः। माणिक्यद्वयमात्मनोऽन्तर्धनं दध्या:, 25 पामधनमपि प्रचुरतरमास्ते । इदानी माता मया सहानीता कपर्दिभवने मुक्ताऽस्ति । तां जरती मातरं सर्वतीर्थाधिकतया 'पुराणपुरुषैनिवेदितामेतां माला परिधापयिष्यामि । श्रुत्वा हृष्टो मानी राजा सहय। मातृसम्मुखगमनं सर्वश्रावकाणाम् ; मालापरिधापनम् । तन्माणिक्यं हेना खचित्वा श्रीऋषभाय कण्ठाभरणमनकिरणभरितचैत्यगर्भमासूत्रयामहे । 'चलितः सङ्घः । प्राप्तः पत्तनम् । प्रवसेन्ते सङ्घभोज्यानि प्रतिलाभनाश्च । अमारिस्तु नित्यैव। 30 1Dमरः। 2Eमुखः। 3ADE'यो नाति 4A | 5AB क्षमिताः। 6A पुराणे। 7Pण। 8Bवलितः। Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176