Book Title: Prabandh kosha Author(s): Rajshekharsuri, Jinvijay Publisher: Singhi Jain GyanpithPage 77
________________ प्रबन्धको तत्क्रमकमलवन्दनानन्दमन्वभूवम् । नियमानग्रहीषम् । ओढरेणापि समुत्पन्नश्रद्धेन व्याकृतम्वयमपि गुरून् वन्दिष्यामहे । जयताकेनोक्तम् - पुण्यात्पुण्यमिदम् । ओढरस्तत्र गतः । गुरून् वन्दित्वा न्यवदत् । देशना श्रुता । तत्त्वज्ञानमुन्मीलितम् । श्रावकत्वं गृहीतम् । पश्चाद्-गुरुदक्षिणा गृह्यताम् - इति ओढरेणोक्ते सूरिभिरुक्तम्-वयं निर्ममा निष्परिग्रहाः । धनादि न b गृह्णीमः । अथ तवात्याग्रह एव तर्हि श्रीमहावीरप्रासादका रापणं दक्षिणाऽस्तु । कारितः प्रासादः । ओढरस्य जयताकेन सह सोदरत्वमिवासीत् । एकदा पर्युषणे ओढरः सपरिवारश्वलितो जयताकेन समं देवगृहं प्रति । पुष्पाणि गृहीत्वा ओढरेण देवस्य पूजा कृता । जयताको जजल्पेइमानि मे पुष्पाणि गृहीत्वा पूजां कुरु । जयताको जगाद - पुष्पाणि भवदीयानि; एभिः पूजायां कृतायां किं मे फलम् ? | वेष्टिरेव केवला । केवलं ममापि पञ्श्च वराटकाः सन्ति । तत्पुष्पैः पूजयि10 ष्यामि जिनेन्द्रम् । तथैव पूजितः । जयताकः पुण्यमगण्यमुपार्जयत् । तत ओढरजयताको गुरून् वन्दितुं जग्मतुः । उपवासः कृतो जयताकेन । द्वितीयदिने मुनिभ्यो दत्त्वा पारणं कृतम् । एवं पुण्यात्यः सन् मृत्वा श्रीमूलराजवंशे तिहुअणपालदेवगृहे श्रीकुमारपालोऽभूत् । एवमुक्तवा विरतासु देवीषु प्रभुभिः प्रोक्तम् - कोऽत्र प्रत्ययः । । पुनर्देव्यः प्राहुः - उपराजं वदे:- नवलक्षतिलङ्गशृङ्गारे' नगरे उरङ्गले मानवान् प्रेषय | अद्यापि ओढरस्य वंशीयाः सन्ति । तेषां दासी स्थिर15 देवी जीर्णवृत्तान्तान् जानाति वक्ष्यति च । इदं श्रुत्वा विसृज्य गच्छन्तीभिर्देवीभिस्तत्रत्ये ओढरगृहे लप्स्यमानानि निधानानि कथितानि । विज्ञाय पत्तने राजान्तिकं गताः प्रभवः । पृष्टं तत्र राज्ञा । तथैव राज्ञोऽग्रे न्यगादि । नरप्रेषणात्सर्वं ज्ञातम् | जिनधर्मे स्थैर्य जातम् । सह— सिद्धेशेनापि वैरकारणमुपलब्धम् । पूर्वभवे गर्भघातान्न सिद्धराजस्य पुत्रः । इति कुमापालपूर्वभवः । 20 ॥ इति श्रीहेमसूरिप्रबन्धः ॥ १० ॥ 100000 ११. अथ हर्षकविप्रबन्धः । (६४) पूर्वस्यां वाराणस्यां पुरि गोविन्दचन्द्रो नाम राजा । ७५० अन्तःपुरीयौवनरसपरिमलग्राही । तत्पुत्रो जयन्तचन्द्रः । तस्मै राज्यं दत्त्वा पिता योगं प्रपद्य परलोकमसाधयत् । जयन्तचन्द्रः सप्तयोजनशतमानां पृथ्वीं जिगाय । मेघचन्द्रः कुमारस्तस्य यः सिंहनादेन सिंहानपि 25 भङ्कुमलम्, किं पुनर्मदान्धगन्धेभघटाः ? । तस्य राज्ञश्चलतः सैन्यं गङ्गा-यमुने विना नाम्भसा 'तृप्यतीति नदीद्वययष्टिग्रहणात्पङ्गुलो राजेति लोके श्रूयते । यस्य गोमतीदासी षष्टिसहस्रेषु वाहेषु प्रक्षरां निवेश्याभिषेणयन्ती परचक्रं त्रासयति । राज्ञः श्रम एव कः ? । तस्य राज्ञो बहवो विद्वांसः । तत्रैको हीरनामा विप्रः । तस्य नन्दनः प्राज्ञचक्रवर्ती श्रीहर्षः । सोऽद्यापि बालावस्थः । सभायां राजकीयेनैकेन पण्डितेन वादिना हीरो राजसमक्षं जित्वा मुद्रितवदनः कृतः । लज्जा30 पक्के मग्नः । वैरं बभार धारालम् । मृत्युकाले हर्ष स बभाषे वत्स ! अमुकेन पण्डितेनाहमाहत्य एतदन्तर्गतपाठस्थाने P पुस्तके 'इत्युक्त्वा देव्यो 1 P विहाय सर्वत्र '० मिवास ।' 2D विशिष्टिरेव । 3P शृङ्गारन० । गताः स्वस्थानम् ।' एष पाठः । 4 P बिना नास्त्यन्यत्र 'सह' । 5 P सन्तानम् । 6P पूर्वस्यां दिशि । 7 P तृप्यति । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176